| YouTube Channel

सायाह्नः (sAyAhnaH)

 
Wordnet
Sanskrit
Synonyms:
सायम्, सन्धिकालः, सन्ध्यासमयः, पितृप्रसूः, सन्धा, द्विजमैत्रौ, दिनान्तम्, निशादि, दिवसात्ययम्, सायाह्नः, विकालः, ब्रह्मभूतिः, सायः
noun
कालविशेषः- सः समयः यः दिनस्य अन्ते तथा रात्रेः आरम्भे अस्ति।
"सायं समये प्राप्ते सः गृहात् निर्गतः।"
शब्दकल्पद्रुमः
Sanskrit
सायाह्नः,
पुं,
(सायमह्नः “संख्याविसायेति ।”६ ११० ज्ञापकात् समासः ।) पञ्चधा-विभक्तदिनपञ्चमांशः दिवसस्य शेषमूहूर्त्त-त्रयम् यथा, --“प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु ।मध्याह्नस्त्रिमुहूर्त्तं स्यादपराह्लस्ततः परम्
सायाह्नस्त्रिमुहूर्त्तं स्यात् श्राद्धं तत्र कारयेत्राक्षसी नाम सा वेला गर्हिता सर्व्वकर्म्मसु
”इति तिथ्यादितत्त्वम्
तत्पर्य्यायः ।“सायो दिनान्तः सायाह्नो विकालः सायमेव च”इति शब्दरत्नावली