| YouTube Channel

सामान्यं (sAmAnyaM)

 
शब्दकल्पद्रुमः
Sanskrit
सामान्यं,
क्ली,
(समान एव स्वार्थे ष्यञ् ।)जातिः यथा, --“जातिर्जातञ्च सामान्यं व्यक्तिस्तु पृथगात्मिका”इत्यमरः ३०
तद्द्विविधं यथा, भाषापरिच्छेदे ।“सामान्यं द्विविधं प्रोक्तं परञ्चापरमेव ।द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते
परभिन्ना या जातिः सैवापरतयोच्यते ।व्यापकत्वात् परापि स्यात् व्याप्यत्वादपरापि चद्रव्यत्वादिकजातिस्तु परापरतयोच्यते
”तल्लक्षणं यथा नित्यत्वे सत्यनेकसमवेतत्वम ।अनेकसमवेतत्वं संयोगादीनामप्यस्ति अतःसत्यन्तं नित्यत्वे सति समवेतत्वंगगनपरिमाणादीनामप्यस्ति अत उक्तं अनेकेति नित्यत्वे सतिअनेकवृत्तित्वमत्यन्ताभावस्याप्यस्ति अतोवृत्ति-सामान्यमुपेक्ष्य समवेतत्वमुक्तम् एकव्यक्ति-वृत्तिस्तु जातिः तथा चोक्तम् ।“व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः ।रूपहानिरसम्बन्धो जातिवाधकसंग्रहः
”एकव्यक्तिकत्वात् आकाशत्वं जातिः तुल्य-वृत्तिकत्वात् घटत्वं कलसत्वं जातिद्वयम् ।संकीर्णत्वात् भूतत्वं मूर्त्तत्वं जातिः अन-वस्थाभयात् सामान्यत्वं जातिः विशेषस्यव्यावृत्तस्वभावस्य रूपहानिः स्यादतो विशेषत्वंन जातिः समवायसम्बन्धाभावात् समवायोन जातिः द्रव्यादित्रिकवृत्तिरिति परत्वंअधिकदेशवृत्तित्वं अपरत्वमल्पदेशवृत्तित्वम् ।सकलजात्यपेक्षया अधिकदेशवृत्तित्वात् सत्तायाःपरत्वम् एतद्बोधनाय द्रव्यादीति तदपेक्षयाचान्यासां जातीनां अपरत्वम् परभिन्ना सत्ता-भिन्ना व्यापकत्वात् परापि स्यात् व्याप्यत्वाद-परापि पृथिवीत्वाद्यपेक्षया व्यापकत्वात्अधिकदेशवृत्तित्वात् द्रव्यत्वस्य परत्वम् सत्तापेक्षया अल्पदेशवृत्तित्वाद्द्रव्यत्वस्य अपरत्वञ्च ।तथा धर्म्मद्वयसमावेशात् उभयमविरुद्धम् ।इति सिद्धान्तमुक्तावली
(सादृश्यम् समा-नत्वम् यथा, महाभारते १२ २२८ ।“सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः ।ब्रह्मेवामितदीप्तौजाः शान्तपाप्मा महातपाः ।विचचार यथाकामं त्रिषु लोकेषु नारदः
”)
सामान्यं, त्रि, (समानस्य भावः समान +ष्यञ् ।) अनेकसम्बन्ध्ये कवस्तु साधारणम् ।इत्यमरः ८२
यथा, देवलः ।“सामान्यं पुत्त्रकन्यानां मृतायां स्त्रीधनं विदुः ।अप्रजायां हरेद्भर्त्ता माता भ्राता पितापि वा
”इति दायतत्त्वम्
(यथा कुमारे ४४ ।“एकैव मूर्त्तिर्बिभिदे त्रिधा सासामान्यमेषां प्रथमावरत्वम् ।विष्णोर्हरस्तस्य हरिः कदाचित्वेधास्तयोस्तावपि धातुराद्यौ
”)