साधुः (sAdhuH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiएक संत
Apte Hindi
Hindiसाधुः
- -
"भद्रपुरुष, पुण्यात्मा"
साधुः
- -
"ऋषि, मुनि, संत"
साधुः
- -
सौदागर
साधुः
- -
जैनसाधु
साधुः
- -
"सूदखोर, महाजन"
साधुः
अव्य* - -
"अच्छा, बहुत अच्छा, शाबास, बढ़िया "
साधुः
अव्य* - -
"काफी, बस"
Wordnet
Sanskrit साधुः, महात्मा
संसारं त्यक्त्वा धर्मम् अनुसृत्य जीवति।
"साधोः जीवनं परोपकारेण गच्छति।"
आर्यः, आर्यजनः, आर्यमिश्रः, साधुः, सज्जनः, महाजनः, महाशयः
कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् , तिष्ठति प्रकृताचारे सः।
"आर्यान् पूजयेत्। / यद् आर्यमस्यामभिलाषि मे मनः।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
अमरकोशः
SanskritWord: साधुः
Root: साधुः
Gender: undefined
Number: undefined
Meaning(s):
⇒ None
Shloka(s):
3|3|83|2 ► सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्॥ (नानार्थवर्गः)
Synonym(s):
➠ 3|3|83|2 ⇢ सन् (सत्) (पुं)
➠ 3|3|83|2 ⇢ सत् (सत्) (स्त्री)
➠ 3|3|83|2 ⇢ सत् (सत्) (नपुं)
Related word(s):
जातिः ➡ द्रव्यम्
शब्दकल्पद्रुमः
Sanskritसाधुः, (साध्यति निष्पादयति धर्म्मादिकार्य्यमिति । साध + “कृवापाजीति ।” उणा० ११ । इति उण् ।) उत्तमकुलोद्भवः । तत्पर्य्यायः ॥
महाकुलः २ कुलीनः ३ आर्य्यः ४ सभ्यः ५सज्जनः ६ । इत्यमरः । २ । ७ । ३ ॥
कुलजः ७साधुजः ८ कुलकः ९ कुलिकः १० । इति शब्द-रत्नावली ॥
कुल्यः ११ कौलेयकः १२ इतिभरतः ॥
जिनः । मुनिः । इति हेमचन्द्रः ॥
* ॥
साधुलक्षणं यथा, --“यथालब्धोऽरिसन्तुष्टः समचित्तो जितेन्द्रियः ।हरिपादाश्रयो लोके विप्रः साधुरनिन्दकः ॥
१ ॥
निर्वैरः सदयः शान्तो दन्भाहङ्कारवर्ज्जितः ।निरपेक्षो मुनिर्व्वीतरागः साधुरिहोच्यते ॥
२ ॥
लोभमोहमदक्रोधकामादिरहितः सुखो ।कृष्णाङ्घ्रिशरणः साधुः सहिष्णुः समदर्शनः ॥
३ ॥
समचित्तो मुनिः पूतो गोविन्दचरणाश्रयः ।सर्व्वभूतदयः कार्ष्णो विवेकी साधुरुत्तमः ॥
४ ॥
कृष्णार्पितप्राणशरीरबुद्धिःशान्तेन्द्रियस्त्रीसुतसम्पदादिः ।आसक्तचित्तः श्रवणादिभक्ति-र्यस्येह साधुः सततं हरेर्यः ॥
५ ॥
कृष्णाश्रयः कृष्णकथानुरक्तःकृष्णेष्टमन्त्रस्मृतिपूजनीयः ।कृष्णानिशं ध्यानमनास्त्वनन्योयो वै स साधुर्म्मुनिवर्य्यकार्ष्णः ॥
” ६ ॥
इति पाद्मोत्तरखण्डे ९९ अध्यायः ॥
* ॥
अन्यच्च ।“न प्रहृष्यति सम्माने नावमानेन कुप्यति ।न क्नुद्धः परुषं ब्रूयादेतत् साधोस्तु लक्षणम् ॥
”इति गारुडे । ११३ । ४२ ॥
* ॥
तस्य स्वभावो यथा, --“त्यक्तात्मसुखभोगेच्छाः सर्व्वसत्त्वसुखैषिणः ।भवन्ति परदुःखेन साधवो नित्यदुःखिताः ॥
परदुःखातुरा नित्यं स्वसुखानि महान्त्यपि ।नापेक्षन्ते महात्मानः सर्व्वभूतहिते रताः ॥
परार्थमुद्यताः सन्तः सन्तः किं किं न कुर्व्वते ।तादृगप्यम्बुधेर्व्वारि जलदैस्तत् प्रपीयते ॥
एक एव सतां मार्गो यदङ्गीकृतपालनम् ।दहन्तमकरोत् क्रोडे पावकं यदपां पतिः ॥
आत्मानं पीडयित्वापि साधुः सुखयते परम् ।ह्लादयन्नाश्रितान् वृक्षोदुःखञ्च सहते स्वयम् ॥
”इति वह्निपुराणे दानावस्थानिर्णयनामाध्यायः ॥
(तथा, महानिर्व्वाणतन्त्रे । १ । २२ ।“देवायतनगा मर्त्त्या देवकल्पा दृढव्रताः ।सत्यधर्म्मपराः सर्व्वे साधवः सत्यवादिनः ॥
”)तस्य प्रशंसा यथा, --यत्पूजायां भवेत् पूज्यो दृष्ट्या न यमदर्शनम् ।पापसंघः स्पर्शनाच्च किमहो साधुसङ्गमः ॥
साधूनां हृदयं धर्म्मो वाचो वो नः सनातनाः ।कर्म्मक्षयाणि कर्म्माणि यतः साधुर्हरिः स्वयम् ॥
”इति कल्किपुराणे ३० अध्यायः ॥
* ॥
(एतदाचारस्तु चतुर्व्विधधर्म्मप्रमाणान्यतमः ।यथा, मनुः । २ । ६ ।“वेदोऽखिलो धर्म्ममूलं स्मृतिशीले च तद्विदाम्आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥
”)कलिशूद्रस्त्रीणां साधुत्वं तत्कारणञ्च यथा ।“कलिः साध्विति यत् प्रोक्तं शूद्रः साध्वितियोषितः ।यच्चाह भगवान् साधुर्धन्याश्चेति पुनः पुनः ॥
तत् सर्व्वं श्रोतुमिच्छामो न चेत् गुह्यं महामुनेइत्युक्तो मुनिभिर्व्यासः प्रहस्येदमथाब्रवीत् ॥
श्रूयतां भो मुनिगणा यदुक्तं साधु साध्वितियत् कृते दशभिर्व्वर्षैस्त्रेतायां हायनेन तत् ॥
द्वापरे तच्च मासेन अहोरात्रेण तत् कलौ ।तपसो ब्रह्मचर्य्यस्य जपादेश्च फलं द्विजाः ॥
प्राप्नोति पुरुषस्तेन कलिः साध्विति भाषितम्ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्च्चयन् ॥
यदाप्नोति तदाप्नोति कलौ संकीर्त्त्य केशवम् ।धर्म्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ ॥
स्वल्पायासेन धर्म्मज्ञास्तेन तुष्टोऽस्म्यहं कलेः ॥
*व्रतचर्य्यापरैर्ग्राह्या वेदाः पूर्व्वं द्विजातिभिः ।ततस्तु धर्म्मसंप्राप्तैर्यष्टव्यं विधिवद्धनैः ॥
वृथाकथा वृथाभोज्यं वृथेज्या च द्विजन्मनाम् ।पतनाय तथा भाव्यं तैस्तु संयमिभिः सदा ॥
असम्यक्करणे दोषास्तेषां सर्व्वेषु वस्तुषु ।भक्ष्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥
पारतन्त्रं समस्तेषु तेषां कार्य्येषु वै यतः ।जयन्ति ते निजान् लोकान् क्लेशेन महताद्विजाः ॥
द्विजशुश्रूषयैवैष पाकयज्ञाधिकारवान् ।निजं जयति वै लोकं शुद्धो धन्यतरस्ततः ॥
भक्ष्याभक्ष्येषु नास्यास्ति पेयापेयेषु वा यतः ।नियमो मुनिशार्द्दूलास्ते नासौ साध्वितीरितम् ॥
स्वधर्म्मस्याविरोधेन नरैर्लब्धं धनं सदा ।प्रतिपाद्यञ्च पात्रेषु यष्टव्यञ्च यथाविधि ॥
तस्यार्जने महान् क्लेशः पालने च द्विजोत्तमाः ।तथा सद्विनियोगाय विज्ञेथं गहनं नृणाम् ॥
एभिरन्यै स्तथा क्लेशैः पुरुषा द्विजसत्तमाः ।निजान् जयन्ति वै लोकान् प्राजापत्यादिकान्क्रमात् ॥
योषित्शुश्रूषणं भर्त्तुः कर्म्मणा मनसा गिरा ।कुर्व्वती समवाप्नोति तत्सालोक्यं ततो द्विजाः ॥
नातिक्ले शेन महता तानेव पुरुषो यथा ।तृतीयं व्याहृतं तेन मया साध्विति योषिताम् ॥
”इति विष्णुपुराणे । ६ । २ । १२ -- २९ ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
