| YouTube Channel

साधकः (sAdhakaH)

 
Wordnet
Sanskrit
Synonyms:
साधकः
noun
साधनां क्रियमाणः पुरुषः।
"वशित्वसिद्धेः साधकः सर्वान् स्वस्य वशं करोति।"
शब्दकल्पद्रुमः
Sanskrit
साधकः,
पुं,
(साध्यति निष्पादयति कार्य्यमिति ।साध + ण्वुल् ।) साधनकर्त्ता निष्पादकः ।तस्य लक्षणं यथा, --“अतः परं प्रवक्ष्यामि साधकानान्तु लक्षणम् ।धर्म्मशीलास्तपोयुक्ताः सत्यवादिजितेन्द्रियाः ।मात्स्यर्य्येण परित्यक्ताः सर्व्वसत्त्वहिते रताः
कर्म्मशीलास्तथोत्साहा मर्त्त्यलोकेऽजुगुप्सकाः ।परस्परसुसन्तुष्टानुकूलाः साधकस्य तु ।ईदृशैः साधनं कुर्य्यात् सुसहायैः सहैव तु
”इति देवीपुराणे नन्दामाहात्म्यसमाप्ताध्यायः
अपि ।“चतुर्धा साधको ज्ञेयो मृदुर्मध्याधिमात्रकः ।अधिमात्रतमः श्रेष्ठो भवाब्धौ लङ्घनक्षमः
मन्दोत्साही सुसंमूढो व्याधिस्थो गुरुदूषकः ।लोभी पापमतिश्चैव बह्वाशी वनिताश्रयः
चपलः कातरो रोगी पराधीनोऽतिनिष्ठुरः ।मन्दाचारो मन्दवीर्य्यो ज्ञातव्यो मृदुना नरः
द्वादशाब्दे भवेत् सिद्धिरेतस्य यत्नतः परम् ।मन्त्रयोगाधिकारी ज्ञातव्यो गुरुणा ध्रुवम्
१समबुद्धिः क्षमायुक्तः पुण्यकाङ्क्षी प्रियंवदः ।मध्यस्थः सर्व्वकार्य्येषु सामान्यः स्यान्न संशयः ।एतज्ज्ञात्वैव गुरुभिर्दीयते युक्तितो लयः
स्थिरबुद्धिर्लये युक्तः स्वाधीनो वीर्य्यवानपि ।महाशयो दयायुक्तः क्षमावान् वीर्य्यवानपि
शूरो लयश्च श्रद्धावान् गुरुपादाब्जपूजकः ।योगाभ्यासरतश्चैव ज्ञातव्यश्चाधिमात्रकः
एतस्य सिद्धिः षड्वर्षैर्भवेदभ्यासयोगतः ।एतस्मै दीयते धीरैर्हठयोगस्य साधकः
महावीर्य्यान्वितोत्साही मनोज्ञः शौर्य्यवानपि ।शास्त्रज्ञोऽभ्यासशीलश्च निर्म्ममश्च निराकुलः
नवयौवनसम्पन्नो मिताहारी जितेन्द्रियः ।निर्भयश्च शुचिर्दक्षो दाता सर्व्वजनाश्रयः
अधिकारी स्थिरो धीमान् यथेच्छावस्थितःक्षमी ।सुशीलो धर्म्मचारी गुप्तचेष्टः प्रियंवदः
शास्त्रविश्वाससम्पन्नो देवतागुरुपूजकः ।जनसङ्गविरक्तश्च महाव्याधिविवर्ज्जितः
अणिमाव्रतयोग्यश्च सर्व्वयोगस्य साधकः ।त्रिभिः संवत्सरैः सिद्धिरेतस्य स्यान्न संशयः ।सर्व्वयोगाधिकारी नात्र कार्य्या विचा-रणा
इति शिवसंहिता