| YouTube Channel

सात्त्वती (sAttvatI)

 
अभिधानचिन्तामणिः
Sanskrit
--source--
भारती सात्त्वती कैशिक्यारभट्यौ वृत्तयः २८५
-wordlist-
वृत्ति (स्त्री), भारती (स्त्री), सात्त्वती (स्त्री), कैशिकी (स्त्री), आरभटी (स्त्री)
शब्दकल्पद्रुमः
Sanskrit
सात्त्व(त्व)ती,
स्त्री,
नाटकवृत्तिविशेषः यथा, --“अभिनेयप्रकाराः स्युर्भाषाः षट् संस्कृता-दिकाः ।भारती सात्त्वती कैशिक्यारभट्यौ वृत्तयः
”इति हेमचन्द्रः
(यथा, शृङ्गारतिलके ४२ -- ४३ ।“हर्षप्रधानाधिकसत्त्ववृत्ति-स्त्यागोत्तरोदारवचोमनोज्ञा ।आश्चर्य्यसम्पत्सुभगा या स्या-त्सा सात्त्वती नाम मतात्र वृत्तिः
नातिगूढार्थसम्पत्तिः श्रव्यशब्दमनोरमा ।वीरे रौद्रेऽद्भुते शान्ते वृत्तिरेषा मता यथा
लक्ष्म्यास्त्वं जनको निधिश्च पयसां निःशेष-रत्नाकरोमर्यादानिरतस्त्वमेव जलधे ! ब्रूतेऽत्र कोऽन्या-दृशम् ।किं त्वेकस्य गृहं गतस्य बडवावह्नेः सदा तृष्णयाक्लान्तस्योदरपूरणेऽपि सहो यत्तन्मनाङ्मध्य-मम्
स्फारितोत्कटकठोरतारका-कीर्णवह्निकणसंततिः क्रुधा ।दुर्निमित्ततडिदाकृतिर्बभौदृष्टिरिष्टसमरांशुमालिनः
अत्यद्भुतं नराधिप तव कीर्तिर्धवलयन्त्यऽपिजगन्ति ।रक्तान् करोति सुहृदो मलिनयति वैरि-वदनानि
निवृत्तविषयासङ्गमधुना सुचिराय मे ।आत्मन्येव समाधानं मनः केवलमिच्छति
*
सात्त्वतस्यापत्यं स्त्री सात्त्वत + अञ् ङीप् ।)शिशुपालमाता इति केचित्
(यथा, महा-भारते ४५ ।“एष नः शत्रुरत्यन्तं पार्थिवाः सात्त्वतीसुतः ।सात्त्वतानां नृशंशात्मा हितोऽनपकारि-णाम्
”सुभद्रा यथा, महाभारते २२२ ६६
“स सात्त्वत्यामधिरथः सम्बभूव धनञ्जयात् ।मखे निर्मथनेनेव शमीगर्भाद्धुताशनः
”)