| YouTube Channel

सहाचरः (sahAcaraH)

 
शब्दकल्पद्रुमः
Sanskrit
सहाचरः,
पुं,
(सह आचरतीति + चर +अच् ।) पीतझिण्टी इति शब्दरत्नावली
(अस्य पर्य्यायो यथा, --“सैरेयकः श्वेतपुष्पः सैरेयः कटसारिका ।सहाचरः सहचरः भिन्द्यपि कथ्यते
”इति भावप्रकाश्य पूर्व्वखण्डे प्रथमे भागे
यथा, सुश्रुते चिकित्सितस्थाने ३७ ।“सहाचरवरीविश्वाकाकनाशाविदारिभिः
”यथाच ।“वासानिम्बपटोलकेतकीबलाकुष्माण्डकेन्दीवरी-वर्षाभूकुटजाश्वगन्धसहिते द्वे पूतिगन्धामृते
मांसं नागबलासहाचरपुरैर्हिङ्ग्वार्द्रके नित्यशोग्राह्यास्तत्क्षणमेव द्बिगुणिता ये चेक्षुजाताघनाः
”इति वैद्यकपरिभाषायाम्
)सहचरश्च