| YouTube Channel

सवितर्का (savitarkA)

 
वाचस्पत्यम्
Sanskrit
सवितर्का स्त्री पात० उक्ते समापत्तिरूपसमाधिभेदे“तत्र शब्दार्थज्ञानविकल्पैः सङ्कीणां सवितर्का समा-पत्तिः” सू० “तद्यथा गौरिति शब्दो गौरित्यर्थो नौ-रिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टंविभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये विज्ञा-नधर्मा इत्येतेषां विभक्तः पन्थाः, तत्र समापन्नस्ययोगिनोयोगवाह्यर्थः समाधिप्रज्ञायां समारूढः चेत्-शब्दज्ञानविकल्पानुविद्ध उपावर्त्तते सा सङ्कीर्णा समा-पत्तिः सवितर्केत्युच्यते यदा पुनः शब्दसङ्केतस्मृति-परिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्याया समाधिप्रज्ञायांस्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छि-द्यते सा निर्वितर्का समापत्तिः तत् योगिनां परंप्रत्यक्षं, तच्च श्रुतानुमानयोर्वीजं ततः श्रुतानुमाने प्रभ-वतः श्रुतानुमानज्ञानसहभूतं तद्दर्शनं तस्माद-सङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजंदर्शनमिति” भा०