| YouTube Channel

सवर्णः (savarNaH)

 
शब्दकल्पद्रुमः
Sanskrit
सवर्णः, त्रि, (समानो वर्णोऽस्य “ज्योतिर्जन-पदेति ।” ८५ इति समानस्य सः ।)सदृशः इति हेमचन्द्रः
(यथा, रघुः ५१ ।“ग्रथितमौलिरसौ वनमालयातरुपलाशसवर्णतनुच्छदः
”)समानवर्णः (यथा, महाभारते २२ ४३ ।“इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः ।आयात् सदश्वैः पुरुजित् मातुलःसव्यसाचिनः
”)तुल्यजातिः यथा, मनुः ।“पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्म्मणि
”इत्युद्वाहतत्त्वम्
एकस्थानोत्पन्नवर्णः यथा सर्वर्णेनाकदीर्घः ।इति संक्षिप्तसारव्याकरणम्