| YouTube Channel

सरलः (saralaH)

 
Apte Hindi
Hindi
सरलः
पुं*
- -
चीड़ का वृक्ष
सरलः
पुं*
- -
आग
Wordnet
Sanskrit
Synonyms:
सरलः, देवदारुः
noun
एकः सांवत्सरः वृक्षविशेषः।
"सरलस्य कोमलेभ्यः काष्ठेभ्यः स्वीकृतं तैलं देवदारुतैलम् इति कथ्यते।"
वैजयन्तीकोषः
Sanskrit
Word: सरलः
Root: सरल
Gender: पुं
Number: all
अर्थः
Meaning(s):
Saral
Pinus longifolia
Tamil Candanabhēdam
Shloka(s):
3|3|74|2 कर्कशी मधुबीजश्च सरले पूतिकाष्ठकम्॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|74|2 सरलः (सरल) (पुं) Saral
Pinus longifolia
Tamil Candanabhēdam
3|3|74|2 पूतिकाष्ठकम् (पूतिकाष्ठक) (नपुं) Saral
Pinus longifolia
Tamil Saralam
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
सरलः,
पुं,
(सरतीति सृ + “वृषादिभ्यश्चित् ।”उणा० १०८ इति कलच् बाहुलकात् गुणः ।इत्युज्ज्वलदत्तः ।) वृक्षविशेषः (यथा, कुमारे ।१ ।“कपोलकण्डूः करिभिर्विनेतुंविघट्टितानां सरलद्रुमाणाम् ।यत्र स्रुतक्षीरतया प्रसूतःसानूनि गन्धः सुरभीकरोति
”)तत्पर्य्यायः पीतद्रुः पूतिकाष्ठम् इत्य-मरः ६०
धूपवृक्षकः इति शब्द-रत्नावली
पीतदारुः भद्रदारुः मनोज्ञः ।इति रत्नमाला
पीतः स्निग्धदारुसंज्ञः ९स्निग्धः १० मरिचपत्रकः ११ पीतवृक्षः १२सुरभिदारुः १३ अस्य गुणाः कटुत्वम् ।तिक्तत्वम् उष्णत्वम् कफवातत्वग्दोषशोफ-कण्डूतिव्रणनाशित्वम् कोष्ठशुद्धिदातृत्वम् इतिराजनिर्घण्टः
अन्यच्च भावप्रकाशे ।“सरलः पीतवृक्षः स्यात् तथा सुरभिदारुकः ।सरलो मधुकस्तिक्तः कटुपाकरसो लघुः
स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः ।कफानिलस्वदयूककामलाक्षिव्रणापहः
”बुद्धः अग्निः इति धरणिः
सरलः, त्रि, (सृ + कलच् बाहुलकात् गुणः ।)उदारः अवक्रः इति मेदिनी
(यथा, कथासरित्सागरे ।“आदिश्यानाययामास गणकान् सरलाशयः
”)