| YouTube Channel

समवेतः (samavetaH)

 
शब्दकल्पद्रुमः
Sanskrit
समवेतः, त्रि, (सम् + अव + इण् + क्तः ।) मिलितः ।यथा, --“धर्म्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।मामकाः पाण्डवाश्चैव किमकुर्व्वत सञ्जय
”इति भगवद्गीतायाम् अध्यायः
समवायसम्बन्धेन वृत्तिः यथा, --“यत् समवेतं कार्य्यं भवतिज्ञेयन्त समवायिजनकं तत् ।”इति भाषापरिच्छेदः