| YouTube Channel

समवकार (samavakAra)

 
शब्दसागरः
English
समवकार
m.
(-रः) A sort of dramatic entertainment.
E.
सम्, and अव
before कृ to make,
aff.
घञ्
described, as that in which the chiefs
are engaged in mutual conflict to contest.
Apte
English
समवकारः [samavakārḥ], A kind of drama: (thus described in S. D.: वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् संधयो निर्विमर्शास्तु त्रयो$ङ्काः
&c.
515.).
Apte 1890
English
समवकारः A kind of drama
(thus described in S. D.:
वृत्तं समवकारे तु ख्यातं देवासुराश्रयं संधयो निविंमर्शास्तु त्रयोंकाः &c. 515).
Monier Williams Cologne
English
सम्-अव-कार
m.
(√ 1. कृ) a kind of higher Rūpaka or drama (in three acts, representing the heroic actions of gods or demons),
Bhar.
Daśar.
Sāh.
Monier Williams 1872
English
समवकार सम्-अवकार, अस्, m. (fr. rt. 1. कृ
with अव and सम्), a species of Rūpaka or drama
(described as a representation of mutual combats and
heroic action in three acts).
Apte Hindi
Hindi
समवकारः
पुं*
- सम् + अव् + कृ + घञ्
नाटक का एक भेद
L R Vaidya
English
samavakAra {% m. %} A species of drama
(thus described in the S.D.- वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् संधयो निर्विमर्शस्तु त्रयोंकाः).
अभिधानचिन्तामणिः
Sanskrit
--source--
स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः
व्यायोगः समवकारो विथ्यङ्केहामृगा इति २८४
अभिनेयप्रकाराः स्युर्भाषाः षट्संस्कृतादिकाः
-wordlist-
अभिनेयप्रबन्ध (पुं), नाटक (क्ली), प्रकरण (क्ली), भाण (पुं), प्रहसन (क्ली), डिम (पुं), व्यायोग (पुं), समवकार (पुं), वीथी (स्त्री), अङ्क (पुं), ईहामृग (पुं), भाषा (स्त्री), संस्कृत (क्ली), प्राकृत (क्ली), मागधी (स्त्री), शौरसेनी (स्त्री), पैशाची (स्त्री), अपभ्रंश (पुं)
शब्दकल्पद्रुमः
Sanskrit
समवकारः,
पुं,
(समवकीर्य्यन्ते बहवोऽर्था यस्मि-न्निति सम् + अव + कृ + घञ् ।) नाटकभेदः ।यथा, --“स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः ।व्यायोगः समवकारो विथ्यङ्केहामृगा इति ।अभिनेयप्रकाराः स्युर्भाषाः षट् संस्कृता-दिकाः
”इति हेमचन्द्रः
(तल्लक्षणादिकं यथा, --अथ समवकारः ।“वृत्तं समवकारे तु ण्यातं देवासुराश्रयम् ।सन्धयो निर्व्विमर्षास्तु त्रयोऽङ्कास्तत्र चादिमे
सन्धी द्बावन्त्ययोस्तद्वदेक एको भवेत् पुनः ।नायका द्बादशोदात्ताः प्रख्याता देवदानवाः
फलं पृथक् पृथक् तेषां वीरमुख्योऽखिलो रसः ।वृत्तयो मन्दकौशिक्यो नात्र बिन्दुप्रवेशकौ
वीथ्यङ्गानि तत्र स्युर्यथालाभं त्रयोदश ।गायत्र्युष्णिङ्मुखान्यत्र छन्दांसि विविधानि
त्रिशृङ्गारस्त्रिकपटः कार्य्यश्चायं त्रिविद्रवः ।वस्तु द्बादशनाडीभिर्निष्पाद्यं प्रथमाङ्कगम्
द्बितीयेऽङ्के तिसृभिर्द्बाभ्यामङ्के तृतीयके
नाडिका षटिकाद्बयमुच्यते बिन्दुप्रवेशकौ चनाटकोक्तावपि नेह विधातव्यौ तत्र ।धर्मार्थकामैस्त्रिविधः शृङ्गारः कपटः पुनः ।स्वाभाविकः कृत्रिमश्च दैवजो विद्रवः पुनः
अचेतनैश्चेतनैश्च चेतनाचेतनैः कृतः
तत्र शास्त्राविरोधेन कृतो धर्म्मशृङ्गारः अर्थ-लाभार्थकल्पितः अर्थशृङ्गारः प्रहसन-शृङ्गारः कामशृङ्गारः तत्र कामशृङ्गारःप्रथमाङ्क एव अन्ययोस्तु नियम इत्याहुः ।चेतनाचेतना गजादयः समववीर्य्यन्ते बह-वोऽर्था अस्मिन्निति समवकारः यथा, समुद्र-मथनम् ।” इति साहित्यदर्पणे ५१५ -- ५१६
)
वाचस्पत्यम्
Sanskrit
समवकार
पु०
सम् + अव + कॄ--आधारे घञ् नाटकभेदेसा० द० उक्तो यथा“वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् सन्धयोनिर्विमर्षास्तु त्रयोऽङ्कास्तत्र चादिमे सन्धी द्वावन्त्य-योस्तद्वदेक एको भवेत् पुनः नायका द्वादशोदात्ताःप्रख्याता देवदानवाः फलं पृथक् पृथक् तेषां वीर-मुख्योऽखिलो रसः वृत्तयो मन्दकौशिक्यो नात्र विन्दुप्रवेशकौ वीथ्यङ्गानि तत्र स्युर्यथालाभं त्रयोदश ।गायत्र्युष्णिङ्मुखान्यत्र छन्दांसि विविधानि त्रि-शृङ्गारस्त्रिकपटः कार्य्यश्चायं त्रिविद्रवः वस्तु द्वादश-नाडीभिर्निष्पाद्यं प्रथमाङ्कगम् द्वितीयेऽङ्के तिसृ-भिर्द्वाभ्यामङ्के तृतीयके” नाडिका घटिकाद्वयमुच्यते ।विन्दुप्रवेशकौ नाटकोक्तावपि नेह विधातव्यौ तत्रधर्मार्थकामैस्त्रिविधः शृङ्गारः कपटः पुनः स्वाभाविकःकृत्रिमश्च दैवजो विद्रवः पुनः अचेतनैश्चेतनैश्च चेतनाचेतनौ कृतः” तत्र शास्त्राविरोधेन कृतो धर्मशृङ्गारःअर्थलाभार्थकल्पितः अर्थशृङ्गारः प्रहसनशृङ्गारःकामशृङ्गारः तत्र कामशृङ्गारः प्रथमाङ्क एव अन्य-योस्तु नियम इत्याहुः चेतनाचेतना गजादयः ।समवकीर्य्यन्ते बहवोऽर्था अस्मिन्निति समवकारः यथासमुद्रमन्थनम्”
Stchoupak
French
सम्-अवकार-
m.
n.
d'une catégorie de drames héroïques en 3 actes.