| YouTube Channel

समर्प्य (samarpya)

 
Capeller Eng
English
समर्प्य
a.
=
prec.
Monier Williams Cologne
English
सम्-°अर्प्य
mfn.
to be handed over or consigned,
Pañcar.
Monier Williams 1872
English
सम्-अर्प्य, अस्, आ, अम्, = सम्-अर्पणीय।
Wordnet
Sanskrit
Synonyms:
अर्प्य, समर्प्य
verb
श्रद्धया देवतोद्देशेन द्रव्यत्यागानुकूलः निवृत्तप्रेषणः व्यापारः।
"काल्याः मन्दिरे विविधानि वस्तूनि अर्प्यन्ते।"
कृदन्तरूपमाला
Sanskrit
1 {@“ऋ गतिप्रापणयोः”@} 2 ‘तत्रेयर्त्यृच्छतीत्यर्तेः, शिन गतौ स्याद् ऋणाति तु।’ 3 इति देवः।
4 आरकः-रिका, 5 अर्पकः-र्पिका, 6 अरिरिषकः-षिका, 7 अरारकः-रिका
अर्ता-र्त्री, अर्पयिता-त्री, अरिरिषिता-त्री, अरारिता-त्री
8 ऋच्छन्-न्ती, अर्पयन्-न्ती, अरिरिषन्-न्ती
-- 9 अरिष्यन्-न्ती-ती, अर्पयिष्यन्-न्ती-ती, अरिरिषिष्यन्-न्ती-ती
10 समृच्छमानः, अर्पयमाणः, 11 समरिरिषमाणः, अरार्यमाणः
समरिष्यमाणः, अर्पयिष्यमाणः, समरिरिषिष्यमाणः, अरारिष्यमाणः
12 समृत्-समृतौ-समृतः
-- -- -- 13 ऋतम्- 14 ऋतः-ऋतवान्, 15 सुखार्तः, 16 ऋणम्, 17 प्रार्णम्-वत्सतरार्णम्- कम्बलार्णम्-वसनार्णम्-दशार्णः 18-दशार्णा 19-ऋणार्णम्, 20 उत्तमर्णः- 21 अधमर्णः, अर्पितम्-तः, अरिरिषितं-तः, अरारितः-तवान्
अरः, 22 आरिवान्, 23 अर्वा, 24 अरित्रम्, अर्पः, अरिरिषुः, अर्पिपयिषुः
अरारः
अर्तव्यम्, अर्पयितव्यम्, अरिरिषितव्यम्, अरारितव्यम्
अरणीयम्, अर्पणीयम्, अरिरिषणीयम्, अरारणीयम्
25 26 अर्यः-अर्यी-अर्या-अर्याणी, 27 आर्यः-आर्या, अर्प्यम्, अरिरिष्यम्, अरार्यम्
ईषदरः-दुररः-स्वरः
-- -- -- 28 अर्यमाणः, अर्प्यमाणः, अरिरिष्यमाणः, अरार्यमाणः
29 आरः, अर्पः, अरिरिषः, अरारः
अर्तुम्, अर्पयितुम्, अरिरिषितुम्, अरारितुम्
ऋतिः, 30 आर्तिः, 31 आरा, अर्पणा, अरिरिषा, अर्पिपयिषा, अरारा
अरणम्, अर्पणम्, अरिरिषणम्, अरारणम्
ऋत्वा, अर्पयित्वा, अरिरिषित्वा, अरारित्वा
समृत्य, समर्प्य, अमरिरिष्य, समरार्य
आरम् ऋत्वा अर्पम् अर्पयित्वा अरिरिषम् अरिरिषित्वा अरारम्
अरारित्वा
32 अरुः, 33 अरणिः, 34 अरुणः, 35 अरण्यम्, 36 अर्थः, 37 अर्भकः, 38 इरिणम्, 39 ऋतुः।
प्रासङ्गिक्यः
01
=>
(११७)
02
=>
(१-भ्वादिः-९३६। सक। अनि। पर।)
03
=>
(श्लो-३०)
04
=>
[[१। ‘अचो ञ्णिति’ (७-२-११५) इति वृद्धौ, ‘उरण् रपरः’ (१-१-५१) इति रपरत्वे रूपम्।]]
05
=>
[[२। ‘अर्तिह्रीव्ली--’ (७-३-३६) इति णौ पुगागमः। ‘पुगन्तलघूपधस्य च’ (७-१-८६) इति गुणे रूपम्। एवं सर्वत्र ण्यन्ते बोध्यम्।]]
06
=>
[[३। ‘स्मिपूङ्रज्ज्वशां सनि’ (७-२-७४) इति सन इडागमः। गुणः। ‘अजादे- र्द्वितीयस्य’ (६-१-२) इति ‘रिस्’ इत्यस्य द्वित्वम्। एवं सर्वत्र सन्नन्ते बोध्यम्।]]
07
=>
[[४। ‘सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः’ (वा। ३-१-२२) इति यङ्। ‘यङि च’ (७-४-३०) इति गुणे, द्वितीयस्यैकाचः ‘र्य’ इत्यस्य ‘सन्यङोः’ (६-१-९) इति द्वित्वे ‘हलादिःशेषे’ (७-४-६०), ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासस्य दीर्घे रूपम्। ‘न न्द्राः--’ (६-१-३) इति रेफस्य द्वित्वनिषेधस्तु भवति-- ‘अरार्यते’ इति भाष्योदाहरणात्। एवं सर्वत्र यङन्ते बोध्यम्।]]
08
=>
[[५। शपि ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्ति--’ (७-३-७८) इत्यादिना ऋच्छादेशः।]]
09
=>
[[६। ‘ऋद्धनोः स्ये’ (७-२-२०) इति स्यप्रत्ययस्येडागमः।]]
10
=>
[[७। अस्याकर्मकत्वे ‘समो गम्यृच्छिभ्याम्’ (१-३-२९) इति शानच् प्रत्ययो भवति।]]
11
=>
[[८। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्तात् शानच्।]]
12
=>
[[९। ‘हस्वस्य पिति कृति--’ (६-१-७१) इति तुगागमः।]]
13
=>
[पृष्ठम्०११७+ ३०]
14
=>
[[१। धातोर्गत्यर्थकत्वात् ‘गत्यर्थाकर्मक--’ (३-४-७२) इति, ‘क्तोऽधिकरणे च--’ (३-४-७६) इति कर्तरि अधिकरणे कर्मणि क्तप्रत्ययः।]]
15
=>
[[२। ‘ऋते तृतीयासमासे’ (वा। ६-१-८९) इति वृद्धिः।]]
16
=>
[[३। ‘ऋणमाधमर्ण्ये’ (८-२-६०) इति निष्ठातकारस्य नत्वम् आधमर्ण्यव्यवहारे निपात्यते। ‘ऋणं नाम अन्यदीयं द्रव्यं गृहीतं इयता कालेन इयत्या वृद्ध्या प्रतिदीयते--इति संविद्रूपम्।’ इति बालमनोरमा। अन्यत्र ऋतम्। सत्यमित्यर्थः।]]
17
=>
[[४। ‘प्रवत्सतरकम्बलवसनदशार्णानाम् ऋणे’ (वा। ६-१-८९) इति वृद्धौ साधु। एवं वत्सतरार्णमित्यादिकम्।]]
18
=>
(देशः)
19
=>
(नदी)
20
=>
[[आ। ‘स्वमुत्तमर्णाय यथाऽधमर्णः तस्मै कुमारान् बत धारयामः।’ वा। वि-३-२९।]]
21
=>
[[आ। ‘स्वमुत्तमर्णाय यथाऽधमर्णः तस्मै कुमारान् बत धारयामः।’ वा। वि-३-२९।]]
22
=>
[[५। लिटः क्वस्वादेशे द्वित्वे ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इति इडागमे रूपम्।]]
23
=>
[[६। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति वनिप्। अर्वा = सूर्योऽश्वश्च।]]
24
=>
[[७। ‘अर्तिलूधू--’ (३-२-१८४) इत्यनेन करणे इत्रप्रत्ययः। ‘अरित्रं केनिपातकः’ इत्यमरः। ऋच्छत्यनेनेत्यरित्रम् = नौकाचालनदण्डविशषः।]]
25
=>
[[B। ‘तेन वह्येन हन्तासि त्वमर्यं पुरुषाशिनाम्। राक्षसं क्रूरकर्माणं शक्रारिं दूरवासिनम्।।’ भ। का। ६। ५१।]]
26
=>
[[८। ‘अर्यः स्वामिवैश्ययोः’ (३-१-१०३) इति ण्यदपवादो यत् प्रत्ययः। ‘अर्यक्ष- त्रियाभ्यां वा स्वार्थे’ (वा। ४-१-४०) इति आनुक् डीषा सह विकल्पितः। तदानीं अर्याणी-अर्या इति रूपद्वयम्। अर्यी इति तु पुंयोगे ज्ञेयम्। स्वामिवैश्या- भ्यामन्यत्र आर्यः इति भवति। पूज्य इत्यर्थः। ‘अर्याणी स्वयमर्या स्यात् स्यादर्यी क्षत्रियी तथा’ इत्यमरः।]]
27
=>
[[C। ‘तेन सङ्गतमार्येण रामाजर्यं कुरु द्रुतम्। लङ्कां प्राप्य ततः पापं दशग्रीवं हनिष्यसि।।’ भ। का। ६। ५३।]]
28
=>
[[९। ‘गुणोऽर्तिसंयोगाद्योः’ (७-४-२९) इति यकि गुणः।]]
29
=>
[पृष्ठम्०११८+ २९]
30
=>
[[१। आङः ऋतिशब्देन समासे ‘उपसर्गादृति धातोः’ (६-१-९१) इति वृद्धिः।]]
31
=>
[[२। ‘आरा शस्त्र्याम्’ (गणसूत्रम् भिदादौ ३-३-१०४) इति पाठात् वृद्धिः अङ् च।]]
32
=>
[[३। औणादिके (द। उ। ९-३९) उसिप्रत्यये गुणः। अरुः = प्राणः आदित्यो वा।]]
33
=>
[[४। औणादिके (द। उ। १-२) अनिप्रत्यये गुणः। अरणिः = अग्नियोनिः काष्ठविशेषः।]]
34
=>
[[५। औणादिकः (द। उ-५-५९) उनन् प्रत्ययः। अरुणः = वैनतेयः अनूरुः सूर्यसारथिः।]]
35
=>
[[६। कर्मणि औणादिकः (द। उ-८-६) अन्यप्रत्ययः। अरण्यं = निर्जनस्थानम्।]]
36
=>
[[७। औणादिकः (द। उ-६-२९) थन् प्रत्ययः। ‘अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु’ इत्यमरः।]]
37
=>
[[८। औणादिके (द। उ। ३-५०) अकप्रत्यये भुगागमः वयसि वाच्ये। अर्थकः बालः।]]
38
=>
[[९। औणादिकः (द। उ। ५-१७) इनन् प्रत्ययः। तत्सन्नियोगेन प्रकृतेः इः आदेशः। ‘उरण् रपरः’ (१-१-५१) इति रपरत्वम्। इरिणम् = अल्पोदकतृणस्थानम्।]]
39
=>
[[१०। औणादिकः (द। उ। १-१२४) तुः प्रत्ययः। तस्य कित्त्वम्। तेन गुणः। ऋतुः = वसन्तादिः कालविशेषः, स्त्रीणां पुष्पकालश्च।]]