सप्तमी (saptamI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishसप्तमी - saptamI - - potential or its terminations
सप्तमी - saptamI - - 7th case i.e. the locative or its terminations
सप्तमी - saptamI - - 7th tithi or lunar day of the fortnight
सप्तमी - saptamI - - particular mUrchanA
सप्तमी - saptamI - num. ad - seventh
सप्तमी विभक्ति - saptamI vibhakti - phrase - locative [ place/time where/when action occurs ]
Monier Williams Cologne
EnglishApte Hindi
Hindiसप्तमी
- -
"सातवीं विभक्ति, अधिकरण कारक"
सप्तमी
- -
चान्द्रवर्ष के किसी पक्ष का सातवाँ दिन
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
L R Vaidya
EnglishAbhyankara Grammar
Englishसप्तमी ( 1 ) the seventh case
the locative case
a term used for the locative case by ancient grammar- ians and Panini
cf. न सप्तम्यामन्त्रितयोः V. Pr. III 139
cf. ईदूतौ च सप्तम्यर्थे P. I. 1. 19. or सप्तम्यास्त्रल् P. V. 3. 10
cf also द्वितीयादयः शब्दाः पूर्वाचार्यः सुपां त्रिकेषु स्मर्यन्ते Kas. on P. II. 3.2: ( 2 ) the seventh of the moods and tenses
the optative mood
cf. Kat. III. 1, 20
Hemacandra III. 3. 7.
Wordnet
Sanskrit सप्तमी
चान्द्रमासस्य कस्यापि पक्षस्य सप्ततमा तिथिः।
"राकेशस्य जन्म कृष्णपक्षस्य सप्तम्याम् अभवत्।"
शब्दकल्पद्रुमः
Sanskritसप्तमी, (सप्तन् + टित्त्वात् ङीप् ।) तिथि-विशेषः । चन्द्रस्य सप्तमकलाक्रिया । तत्र शुक्ल-पक्षे अमृतपूर्त्त्यवच्छिन्नसप्तमकलाक्रिया । कृष्णपक्षे तु अमृतह्रासानुकूलसप्तमकलाक्रियेतिविशेषः । पञ्चिकायां तस्या अङ्कः शुक्लपक्षे ७कृष्णपक्षे २२ ॥
* ॥
तत्र जातफलम् ।“कन्याप्रजो वैरीकुलेभसिंहोविशालनेत्रः प्रथितप्रभावः ।देवद्विजार्च्चारसिको महात्मास्यात् सप्तमीजः पितृवित्तहर्त्ता ॥
”इति कोष्ठीपदीपः ॥
* ॥
अथ सप्तमी । सा च षष्ठीयुता ग्राह्या युग्मात् ।पैठीनसिवचनाच्च । यथा, --“पञ्चमी सप्तमी चैव दशमी च त्रयोदशी ।प्रतिपन्नवमी चैव कर्त्तव्या सांमुखी तिथिः ॥
”सांमुख्यमुक्तं स्कान्दे ।“सांमुख्यं नाम सायाह्नव्यापिनी दृश्यते यदा ।”अतएव परदिने त्रिसन्ध्यकालाव्यापित्वे षष्ठी-युक्तसप्तम्यामुपवासमाह भविष्यपुराणम् ।“षष्ठीसमेता कर्त्तव्या सप्तमी नाष्टमीयुता ।पतङ्गोपासनायेह षष्ठ्यामाहुरुपोषणम् ॥
”यथा उपोषणे तथा कर्म्मान्तरे । तथा ।“षष्ठ्या युता सप्तमी च कर्त्तव्या सर्वदा तिथिः ।षष्ठी च सप्तमी यत्र तत्र सन्निहितो हरिः ॥
”इति स्कन्दपुराणात् ॥
तथा ।“शुक्लपक्षस्य सप्तम्यां सूर्य्यवारो यदा भवेत् ।सप्तमी विजया नाम तत्र दत्तं महाफलम् ॥
”भविष्ये ।“शालितण्डुलप्रस्थस्य कुर्य्यादन्नं सुसंस्कृतम् ।सूर्य्याय चरुकं दत्त्वा सप्तम्याञ्च विशेषतः ॥
यावन्तस्तण्डुलास्तस्मिन्नैवेद्ये परिसंख्यया ।तावद्वर्षसहस्राणि सूर्य्यलोके महीयते ॥
”गोपथब्राह्मणम् ।“द्वात्रिंशत्पलिकं प्रस्थमुक्तं स्वयमथर्व्वणा ॥
”ज्योतिषे ।“पलन्तु लौकिकैर्म्मानैः साष्टरत्तिद्विमाषकम् ।तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम् ॥
”तेन चतूरत्तिकाधिकमाषपञ्चकाधिकषडधिक-शततोलकमिताः प्रस्थतण्डुलाः । इति । एव-ञ्चैतन्न्यू नाधिकयोः फलतारतम्यं बोध्यम् । एवंदेवतान्तरेऽपि तत्तल्लोकमहितत्वफलेन कल्प-यितुं युक्तम् । अतएव शिवेऽप्येवं वक्ष्यते ॥
* ॥
वराहपुराणे ।“अथापरं महाराज व्रतमारोम्यसंज्ञितम् ।कथयामि परं पुण्यं सर्व्वपापप्रणाशनम् ॥
तस्यैव माघमासस्य सप्तम्यां समुपोषितः ।पूजयेद्भास्करं देवं विष्णुरूपं सनातनम् ॥
आदित्य भास्कर रवे भानो सूर्य्य दिवाकर ।प्रभाकरेति संपूज्यो देवः सर्व्वेश्वरो रविः ॥
षष्ठ्याञ्चैककृताहारः सप्तम्यां समुपोषितः ।अष्टम्याञ्चैव भुञ्जीत एष एव विधिः स्मृतः ॥
अनेन वत्सरं पूर्णं विधिना योऽर्च्चयेद्रविम् ।तस्यारोग्यं धनं धान्यमिह जन्मनि जायते ॥
परत्र च शुभं स्थानं यद्गत्वा न निवर्त्तते ।”सप्तम्यां समुपोषित इति आदिकर्म्मणि क्तः ।तेन सप्तम्यां समुपवस्तुमारब्धवानित्यर्थः । ततश्चप्रातः सप्तम्यामेवोपवाससङ्कल्पः । रविश्च विष्णु-रूपतया पूजाकाले ध्येयः । अभिलापे तुतत्तिथावित्युक्त्वा आरभ्येति ऐहिकारोग्यधन-धान्यपारलौकिकशुभस्थानलाभकामः संवत्सरंयावदारोग्यव्रतमिति विशेषः । ततः प्रभृति-सप्तम्यामुपवासं कुर्व्वन् ।“आदित्य भास्कर रवे भानो सूर्य्य दिवाकर ।प्रभाकर नमस्तुभ्यं अस्माद्रोगाद्विमोचय ॥
”इति मन्त्रेण पूजयेत् । अत्र षष्ठ्यादिषु तत्तत्-कर्म्मविधानात् षष्ठीसमेतेत्यस्य न विषयः ।कालिकापुराणे भक्तं प्रति सूर्य्यवाक्यम् ।“अदृष्ट्वा मां न भुञ्जीत विण्मूत्रं नैव दर्शयेत् ॥
”तथा ।“मदर्च्चाधृतनिर्म्माल्यं शरीरे न तु धारयेत् ॥
”अर्च्चा प्रतिमा ॥
* ॥
अथ विधानसप्तमी ।कृत्यचिन्तामणौ ।“अर्काग्रं शुचि गोमयं सुमरिचं तोयं फलञ्चाश्नुतेमूलं नक्तमुपोषणञ्च विधिवत् कृत्वैकभक्तं नरः ।क्षीरं वाय्वशनं घृताशनमिति प्रोक्तान्यमूनिक्रमात्कृत्वा द्वादश सप्तमीर्दिनकृतः प्राप्नोत्यभीष्टंफलम् ॥
”अत्र चार्काग्रादीतरभोजननिवृत्तिरवसीयते ।तपस्त्वात् । तथा च मत्स्यपुराणम् ।“तपोभिः प्राप्यतेऽभीष्टं नासाध्यं हि तपस्यतः ।दुर्भगत्वं वृथा लोको वहते सति साधने ॥
”तपसः क्लेशस्वभावत्वं तत्रैवोक्तम् ।“उमेऽतिचपला पुत्त्रि न क्षमं तावकं वपुः ।सोढुं क्लेशस्वभावस्य तपसः सौम्यदर्शने ॥
”व्यक्तमुक्तं यथा, --“अर्कपत्राङ्कुरमात्रमन्तरीक्षगृहीतकम् ।कपिलाविड्यवमात्रं मञ्जुलं मरिचं जलम् ॥
कदलीफलमध्यन्तु कणामात्रमपक्वकम् ।कुशमूलं यवमात्रं स्वच्छायाद्विगुणे क्षणे ॥
भक्ष्यं मितौदनं नक्तं शुद्धोपवसनं तथा ।एकभक्तं मयूराण्डप्रमाणं भोजनं मतम् ॥
अर्द्धप्रसृतिभात्रन्तु कपिलादुग्धभक्षणम् ।स्नात्वा सम्पूज्य मार्त्तण्डं प्राङ्मुखो वायुमा-शयेत् ॥
वृतं स्वल्पं पौषमासे माघादब्दं समाचरेत् ।ब्राह्मणान् भोजयेद्भक्त्या गुडक्षीरनिरामिषैः ॥
विप्राय दक्षिणा देया विभवस्यानुरूपतः ।अष्टम्यां पारणं कुर्य्यात् कट्वम्लरहितेन च ॥
मुद्गमाषतिलादीनि घृतञ्चैव विविर्ज्जयेत् ।एकसिद्धं भक्ष्यमुक्तमर्कतन्त्रानुसारतः ॥
” * ॥
एतद्व्रतस्य माधादिभासविशेषविहितकर्म्मत्वेनमलमासेतरकर्त्तव्यत्वं आह वशिष्ठलिङ्गपुरा-णम् ।“प्रारब्धे तु व्रते पश्चात् सम्प्राप्ते त्वधिमासके ।पूर्व्वमानेन तं त्यक्त्वा कार्य्यं द्वादशमासिकम् ॥
”पूर्व्वमानेन मलिम्लुचशून्याब्दमानेन । तं मल-मासम् । द्वादशमासेकं द्वादशमासेष्वेव कार्य्यंन मलमास इत्यर्थः । यत्तु ।“मासे मलिम्लुचेऽप्येवं यजेद्देवीं सशङ्कराम् ।किन्तु नोद्यापनं कार्य्यमित्याह भगवान्शिवः ॥
”हति विष्णुरहस्यवचनम् ॥
तन्मासविशेषानङ्कितमासमात्रकत्तव्यामावास्या-दिव्रतकर्त्तव्यतापरम् । उद्यापनं प्रतिष्ठा ।एवमारम्भोऽपि निषिद्धः । गार्ग्यः ।“अस्तं गते गुरौ शुक्रे बाले वृद्धे मलिम्लु चे ।उपायनमुपारम्भं व्रतानां नैव कारयेत् ॥
”उपायनं प्रतिष्ठा । उपारम्भमारम्भम् । एनच्चकालाशुद्धिमात्रपरं तत्तन्मात्रविधिकल्पने गौर-वात् ॥
* ॥
भविष्ये ।“भाद्रे मासि सिते पक्षे सप्तम्यां नियमेन या ।स्नात्वा शिवं लेखयित्वा मण्डले च सहाम्बिकम्पूजयेच्च तदा तस्या दुष्प्रापं नैव विद्यते ॥
”इदं कुक्कुटीव्रतत्वेन ख्यातम् ॥
* ॥
भविष्ये ।“सूर्य्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी ।अरुणोदयवेलायां तस्यां स्नानं महाफलम् ॥
माघे मासि सिते पक्षे सप्तमी कोटिभास्करा ।दद्यात् स्नानार्घ्य दानाभ्यामायुरारोग्यसम्पदः ॥
अरुणोदयवेलायां शुक्ला माघस्य सप्तमी ।गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥
”कोटिभास्करा कोटिसप्तमीतुल्या । सूर्य्यग्रहण-फलं स्नानजं सन्निहिते बुद्धिरन्तरङ्गेति न्यायात्तेन बहुशतसूर्य्यग्रयणकालीनगङ्गास्नानजन्य-फलसमफलप्राप्तिः फलमत्र ज्ञेयम् । अत्र बहु-शतसूर्य्यग्रहाणां प्रत्येकाधिकरणतासंसर्गेणान्व-यात् कालानां स्नानानां तत्फलानामपि बहु-शतत्वं लभ्यते अतो नाप्रसिद्धिः । पूर्णसप्तम्यांपूर्व्व परयोर्यत्रारुणोदयकाले सप्तमी पूर्व्व दिनेतत्काले स्नानम् ।“चतस्रो घटिका प्रातररुणोदय उच्यते ।यतीनां स्नानकालोऽयं गङ्गाम्भःसदृशः स्मृतः ॥
त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम् ।नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते ॥
”इति काललाधवीयधृतब्रह्मवैवर्त्तीयेन पूर्व्वस्यतत्कालस्य पूर्व्वतिथिसम्बन्धिदिनकर्त्तव्यकर्म्माङ्गत्वेन इतरस्य चेतराङ्गत्वेनाभिधानात् अतएवदक्षेण तत्कालमारभ्याह्निककृत्यमभिहितम् ।अत्रारुणोदयकाले मुहूर्त्तान्यू नतिथिलाभ एवस्नानम् ।“व्रतोपवासस्नानादौ घटिकैका यदा भवेत् ।उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी ॥
”इति विष्णुधर्म्मोत्तरात् ।प्रत्र घटिका मुहूर्त्तं श्राद्धयोग्यकालानुरोधात्इति वक्ष्यते । ब्रह्मवैवर्त्तवचने घटिका दण्ड-रूपा परवचने नाडीनामाद्यन्तचतुष्टयमित्येक-वाक्यत्वात् ॥
* ॥
ये तु सूर्य्योदयात् प्रागपिप्रातःस्नानविधानात् तत्रैव माघसप्तम्याख्य-गुणफलविधिर्लाघवादित्याहुस्तच्चिन्त्यम् । प्रक-रणान्यत्वे प्रयोजनान्यत्वं इति जैमिनिसूत्रेणप्रकरणभेदे गुणविध्यसिद्धेः । अतएव कल्पतरु-रत्नाकरयोः ।“य इच्छेद्विपुलान् भोगान् चन्द्रसूर्य्यग्रहोप-मान् ।प्रातःस्नायी भवेन्नित्यं द्वौ मासौ माघफाल्-गुनौ ॥
”इति विष्णुस्मृतौ नित्यस्नानप्रकरणात् प्रकरणा-न्तरास्नानात् प्रकरणान्तराधिकरणन्यायेनकाम्यस्नानान्तरमिदमित्युक्तं न तु गुणफल-विधिः । किन्तु काम्यकरणे प्रसङ्गान्नित्यसिद्धि-रिति । अत्र माघमासनिमित्तकमाघसप्तमी-निमित्तककाम्यस्नानयोः प्रातर्व्विधानात् नैमि-त्तिकत्वेन प्रायश्चित्तवत् सकृदनुष्ठानम् ।“प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः ।तदङ्गस्याक्रियायान्तु नावृत्तिर्न च तत्क्रिया ॥
”इति कात्यायनवचनात् ॥
“न स्नानगाचरेद्भुक्त्वा नातुरो न महानिशि ।न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥
”इति मनुवचनेनैकदाजस्रस्नाननिषेधाच्च ।“धर्म्मविन्नाचरेत् स्नानमाह्निकञ्च पुनःपुनः ।”इति मनुवचनाच्च ।अतएव नान्दीमुखप्रकरणशेषे प्रधानानामपिकाम्यानां तत्तद्देशकालविहितानां तन्त्रेणैवसिद्धिरिति श्राद्धचिन्तामणिः । निष्कामविष्णु-प्रीतिकामयोः सुतरां सकृदनुष्ठानं गुणतार-तम्यात् फलतारतम्यं इति न्यायेन फलंबोध्यम् । तत्तु इक्षुक्षीरगुडादिमाधुर्य्यभेदव-न्निर्द्देष्टु मशक्यम् ।“पक्षान्तरेऽपि कन्यास्थे रवौ श्राद्धं प्रशस्यते ।कन्यागते पञ्चमे तु विशेषेणैव कारयेत् ॥
”इति हेमाद्रिधृतादित्यपुराणोक्तवत् । एतद्व-चनप्रागर्द्धं कार्त्तिकमलमासाब्दविषयम् ।“देशकालाश्रमक्षेत्रद्रव्यदातृमनोगुणाः ।सुकृशस्यासि दानस्य फलातिशयहेतवः ॥
”इति ब्रह्मपुराणोक्तवच्च ।तीर्थभेदे त्वेकदापि नानास्नानम् ।“विषुवद्दिवसे प्राप्ते पञ्चतीर्थी विधानतः ।”इति ब्रह्मपुराणादिवचनात् तीर्थभेदे तन्त्रप्रस-ङ्गयोरसम्भवाच्च । अतएव गङ्गावाक्यावली-श्राद्धचिन्तामेण्योः । यत्तु प्रयागे त्र्यहस्नान-क्रोडीकृतेऽपि माघसप्तमीस्नानादावसाधारण-सङ्कल्पेन पुनस्तथैव प्रातःस्नानाचरणं तद-युक्तम् । तदा सकृत्स्नानस्यैव विहितत्वात्अन्यथा तत्त्र्यहफलकामनायां तदानन्त्यापत्ते-रित्युक्तम् । * । स्नाने पारपाटीमाह कृत्य-कल्पलतायां विष्णुः । सप्तवदरपत्राणि सप्तार्क-पत्राणि च शिरसि निधाय ।“यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु ।तन्मे रोकञ्च शोकञ्च माकरी हन्तु सप्तमी ॥
”इत्यच्चार्य्य स्नायादिति शेषः । रोकं छिद्रम् ।तिथिकृत्यस्य पौर्णमास्यन्तमासाङ्गकत्वान्माक-रीति पदं मकरार्कारब्धचान्द्रमासीयतिथिपरम्“तिथिकृत्ये च कृष्णादिं व्रते शुक्लादिमेव च ।विवाहादौ च सौरादिं मासं कृत्ये विनिर्द्दि-शेत् ॥
”इति ब्रह्मपुराणात् ॥
मन्वन्तरादित्वेन तथा युक्तत्वाच्च । यथा, मत्स्य-पुराणे ।“यस्मान्मन्वन्तरादौ तु रथमापुर्दिवाकराः ।माघमासस्य सप्तम्यां तस्मात् सा रथसप्तमी ।अरुणोदयवेलायां तस्यां स्नानं महाफलम् ॥
”अतएव नारसिंहे रथ्याख्यायामित्युक्तम् । यथा, “महानवम्यां द्वादश्यां भरण्यामपि चैव हि ।तथाक्षयतृतीयायां शिष्यान्नाध्यापयेद्बुधः ।माघमासे तु सप्तम्यां रथ्याख्यायान्तु वर्जयेत् ॥
”द्बादश्यां शयनोत्थानद्वादश्याम् । भरण्यां शक्र-ध्वजपातभरण्याम् । इति कल्पतरुः । अत्रमहानवम्यादिसाहचर्य्याद्गौणचान्द्रत्वं प्रती-यते । अतएव चतुर्द्द शमन्वन्तरादिगणने क्वापिन राश्युल्लेखः । यथा, भविष्यमात्स्ययोः ।“अश्वयुक्शुक्लनवमी द्वादशी कार्त्तिकी तथा ।तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥
फाल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा ।आषाढस्यापि दशमी तथा माघस्य सप्तमी ॥
श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा ।कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशीसिता ।मन्वन्तरादयस्त्वेता दत्तस्याक्षयकारिकाः ॥
”अत्रामावास्याष्टमीव्यतिरिक्ताः शुक्लाः । पुनःपुनस्तथापदोपादानात् उपक्रमोपसंहारयोःशुक्लत्वकीर्त्तनाच्च । अत्र कामधेनौ तृतीयाचैव माघस्येति । कल्पतरौ तु तृतीया चैत्र-मासस्येति लिखितम् । अत्र पाठद्वैधे श्रीपति-रत्नमालायाम् । अश्वयुजि शुक्लनवमी द्वाद-श्यूर्ज्जे मधौ तृतीया चेति पाठाच्चैत्रतृतीयैवग्राह्या । श्रीदत्तोऽप्येवम् । माघसप्तम्याश्चान्द्रत्वंसौरागमेऽपि ।“अर्कपत्रैः सवदरैर्दूर्व्वाक्षतसचन्दनैः ।अष्टाङ्गविधिना चार्घ्यं दद्यादादित्यतुष्टये ॥
माघेऽथ फाल्गुने वापि भवेद्वै माघसप्तमी ।माकरीति च यत् प्रोक्तं तत् प्रायोवृत्तिदर्श-नात् ॥
”अटाङ्गविधिना ।“योऽष्टाङ्गमर्घ्य मापूर्य्य भानोर्मूद्ध्नि निवेदयेत् ।ताम्रपात्रार्घ्यदानेन पुण्यं दशगुणं स्मृतम् ॥
”इति विष्णुपुराणीयेन । आदित्यपुराणे ।“ऋक्षराशिविशेषेण यत् कर्म्म विहितं नरैः ।दैवं वाप्यथवा पैत्रं तदन्यत्रापि दृश्यते ॥
”अर्घमन्त्रस्तु ।“जननी सर्व्वभूतानां सप्तमी सप्तसप्तिके ।सप्तव्याहृतिके देवि नमस्ते रविमण्डले ॥
”प्रणाममन्त्रस्तु ।“सप्तसप्तीवह प्रीत सप्तलोकप्रदीपन ।सप्तम्यां हि नमस्तुभ्यं नमोऽनन्ताय वेधसे ॥
”सप्तिरश्वः । इति तिथ्यादितत्त्वम् ॥
* ॥
सप्तमी-व्रतविशेषा यथा, --ब्रह्मोवाच ।“भगवत् भवसंसारसागरोत्तारकारकम् ।किञ्चिद्व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम् ॥
श्रीभगवान् उवाच ।शौरधर्म्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम् ।विशोकसप्तमीं तद्वत् फलदां पापनाशिनीम् ॥
शर्करासप्तमीं पुण्यां तथा कमलसप्तमीम् ।मन्दारसप्तमीं पुण्यां तथैव शुभसप्तमीम् ॥
सर्व्वाः सर्व्वफलाः प्रोक्ताः सर्व्वदेवर्षिपूजिताः ।विधानमासां वक्ष्यामि यथावदनुपूर्व्वशः ॥
यदा तु शुक्लसप्तभ्यामादित्यस्य दिनं भवेत् ।सा तु कल्याणिनी नाम विजया तु निगद्यते ॥
”आसां इतिकर्त्तव्यताकालौ च मत्स्यपुराणे६९ अध्यायावधि ७५ अध्यायपर्य्यन्तं द्रष्टव्यौ ॥
* ॥
सा सूर्य्यमूर्त्तिप्रकाशिका तिथिः । यथा, --“एवमुक्तस्तदा देवैः सौम्यां मूर्त्तिमथाकरोत् ।प्रकाशत्वं जगामाशु देवतानां महाप्रभः ॥
एतत् सर्व्वं सुराणान्तु दहनं शामितं पुरा ।सप्तम्यां खलु सूर्य्येण मूर्त्तिञ्च कृतवान् भूवि ॥
”इति वाराहे सुर्य्योत्पत्तिनामाध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
