| YouTube Channel

सन्धिः (sandhiH)

 
Apte Hindi
Hindi
सन्धिः
पुं*
- सम् + धा + कि
"मेल, संगम, सम्मिश्रण, सम्बन्ध"
सन्धिः
पुं*
- सम् + धा + कि
"संविदा, करार"
सन्धिः
पुं*
- सम् + धा + कि
"मित्रता, संघट्टन, मैत्री, मेल-मिलाप, सन्धिपत्र सुलहनामा "
सन्धिः
पुं*
- सम् + धा + कि
"जोड़, सन्धान"
सन्धिः
पुं*
- सम् + धा + कि
तह
सन्धिः
पुं*
- सम् + धा + कि
"छेद, विवर, दरार"
सन्धिः
पुं*
- सम् + धा + कि
"विशेषतया सुरंग, या सेंध जो चोर किसी मकान में घुसने के लिए बनाते हैं"
सन्धिः
पुं*
- सम् + धा + कि
"पार्थक्य, प्रभाग"
सन्धिः
पुं*
- सम् + धा + कि
"संहिता, उच्चारण की सुगमता के लिए ध्वनिपरिवर्तन की प्रवृत्ति, वर्णविकार"
सन्धिः
पुं*
- सम् + धा + कि
"अन्तराल, विश्राम"
सन्धिः
पुं*
- सम् + धा + कि
संकटकाल
सन्धिः
पुं*
- सम् + धा + कि
उपयुक्त अवसर
सन्धिः
पुं*
- सम् + धा + कि
युगांत-काल
सन्धिः
पुं*
- सम् + धा + कि
प्रभाग या जोड़
सन्धिः
पुं*
- सम् + धा + कि
"भग, स्त्री की जननेन्द्रिय"
सन्धिः
पुं*
- सम्+धा+कि
भूखंड जो मन्दिर के लिए धर्मार्थ दिया गया हो
Wordnet
Sanskrit
Synonyms:
सन्धिः, संहिता
noun
व्याकरणशास्त्रे वर्णद्वयस्य सङ्गतत्वेन एकस्य वा उभययोः स्थाने जायमानः आदेशः।
"रमा तथा ईश इत्यत्र आकारेकारयोः गुणरूपः सन्धिः।संहितैकपदे नित्या नित्या धातूपसर्गयोः।"
Synonyms:
सन्धिः, पर्व, अस्थिसन्धिः, कोरः, ग्रन्थिः
noun
शरीरे अवयवानाम् अस्थ्नां योगः येन अवयवानाम् उन्नमनम् उपनमनम् वा शक्यं भवति।
"अहम् अङ्गुलीनां संधिषु वेदनाम् अनुभवामि।"
Synonyms:
सन्धिः
noun
राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस्य आश्वासनम्।
"तयोः देशयोः सन्धिः अभवत् यत् उभौ अपि परस्पराणाम् आन्तरिकविवादविषयाणां पोषणं कृत्वा तद्विषये औदासीन्यवृत्तिः आचरणीया।"
Synonyms:
एकता, एकत्वम्, ऐक्यम्, संयोगः, योगः, सन्धिः, सङ्गः, सम्भूति
noun
एकस्य भावः।
"देशस्य एकतायाः तथा अखण्डतायाः रक्षणं अस्माकं परमं कर्तव्यम्।"
Synonyms:
सन्धिः, मध्यस्थावलंबननियमः
noun
समयं कृत्वा परस्परं स्वाभियोगात् किञ्चिदपासनम्।
"कश्मीरविषये भारतस्य पाकिस्तानस्य सन्धिः आवश्यकः। / शत्रूणां हि संदध्यात्सुश्लिष्टेनापि सन्धिना।"
Synonyms:
सन्धिः
noun
एका देवता
"सन्धिः योगे वसति"
Tamil
Tamil
ஸந்தி4: : சேருமிடம், கலப்பு, ஒப்பந்தம், நட்பு.
शब्दकल्पद्रुमः
Sanskrit
सन्धिः,
पुं,
(सन्धानमिति सं + धा + किः ।)राजादीनां षड्गुणान्तर्गतगुणविशेषः तुस्वर्णादिदानेन बन्धुभिः प्रीत्युत्पादनात् मित्री-करणम् मेल इति ऐक्य इति भाषा ।तद्विवरणं यथा, --“पनबद्धो भवेत् सन्धिः स्वयं हीनस्तमाचरेत् ।मर्य्यादोल्लङ्घनं नास्ति यदि शत्रोरिति स्थितिः
मर्य्यादोल्लङ्घनं यत्र शत्रौ संशयितं भवेत् ।न तं संशयितं कुर्य्यादित्युवाच बृहस्पतिः
बलवद्विगृहीतः सन् नृपोऽनन्यप्रतिश्रयः ।आपन्नः सन्धिभावेन विदध्यात् कालयाप-नाम्
ये दैवेनोपहता राष्ट्रं येषाञ्च दुर्गतम् ।बहवो रिपवो येषां तेषां सन्धिर्विधीयते
दुर्म्मन्त्रो भिन्नमन्त्रश्च नीचधर्म्मरतश्च यः ।एतैः सन्धिं कुर्व्वीत विशेषात् पूर्वपीडितैः ।सन्धिं हि तादृशैः कुर्व्वन् प्राणैरपि हि हीयते
”इति भोजराजकृतयुक्तिकल्पतरुः
*
षोडशविधसन्धिर्यथा, --“बलीयसाभियुक्तस्तु नृपो नान्यप्रतिक्रियः ।आपन्नः सन्धिमन्विच्छेत् कुर्व्वाणः कालयापनम्कपाल उपहारश्च सन्तानः सङ्गत-४स्तथा ।उपन्यासः प्रतीकारः संयोगः पुरुषा-न्तरः
अदृष्टनर आदिष्ट १० आत्मादिष्ट ११उपग्रहः १२ ।परिक्रय-१३ स्तथोच्छिन्न-१४ स्तथा चपरभूषणः १५
स्कन्धोपनेयः १६ सन्धिश्च षोडशैते प्रकीर्त्तिताःइति षोडशकं प्राहुः सन्धिं सन्धिविचक्षणाः
”तेषां लक्षणानि यथा, --“कपालसन्धिर्विज्ञेयः केवलं समसन्धितः ।सम्प्रदानाद्भवति उपहारः उच्यते
सन्तानसन्धिर्विज्ञेयो दारिकादानपूर्व्वकः ३सद्भिस्तु सङ्गतः सन्धिर्म्मैत्रीपूर्व्वं उदाहृतः
यावदायुःप्रमाणस्तु समानार्थप्रयोजनम् ।सम्पत्तौ वा विपत्तौ वा कारणैर्यो भिद्यते
सङ्गतः सन्धिरेवायं प्रकृष्टत्वात् सुवर्णवत् ।तथान्यैः सन्धिकुशलैः काञ्चनः उदाहृतः
द्रव्यात्मा कार्य्यसिद्धिस्तु समुदिश्य क्रियेत यः ।स उपन्यासकुशलैरुपन्यास उदाहृतः
मयास्योपकृतं पूर्व्वं ममाप्येष करिष्यति ।इति यः क्रियते सन्धिः प्रतीकारः उच्यते
”अन्यच्च ।“उपकारं करोम्यस्य ममाप्येष करिष्यति ।अयञ्चापि प्रतीकारो रामसुग्रीवयोरिव
एकार्थां सम्यगुद्दिश्य क्रियां यत्र हि गच्छति ।समं हि तत्प्रमाणेन संयोग उच्यते
आवयोर्य्योधमुख्यैस्तु मदर्थः साध्यतामिति ।यस्मिन् पणस्तु क्रियते सन्धिः पुरुषान्तरः
८त्वयैकेन मदीयोऽर्थः संप्रसाध्यस्त्वसाविति ।यत्र शत्रुः पणं कुर्य्यात् सोऽदृष्टपुरुषः स्मृतः
यत्र भूम्येकदेशेन पणेन रिपुवर्ज्जितः ।सन्धीयते सन्धिविद्भिः चादिष्ट उदाहृतः
१०
स्वसैन्येन तु सन्धानमात्मादिष्ट उदाहृतः ११ ।क्रियते प्राणरक्षार्थं सर्व्वदानादुपग्रहः
१२
कोषांशेनार्द्धकोषेण सर्व्वकोषेण वा पुनः ।शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः
१३
भुवां सारवतीनान्तु दानादुच्छिन्न उच्यते १४ ।भूम्युत्थफलदानेन सर्व्वेण परभूषणः
१५
प्रतिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते ।स्कन्धौपनेयं तं प्राहुः सन्धिं सन्धिविच-क्षणाः
१६
परस्परोपकारस्तु मैत्रीसम्बन्धकस्तथा ।उपहारश्च विज्ञेयाश्चत्वारश्चैव सन्धयः
”इति विण्षुशर्म्मकृतहितोपशे सन्धिर्नाम चतुर्थ-कथासंग्रहः
संयोगः तत्पर्य्यायः श्लेषः ।इत्यमरभरतौ
(यथा, मनुः २४८ ।“तडागान्यु दपानानि वाप्यः प्रस्रवणानि ।सीमासन्धिषु कार्य्याणि देवतायतनानि
”)सुरुङ्गा भगम् सङ्घट्टनम् रूपकाणांसुखाद्यङ्गम् सावकाशः इति मेदिनी
भेदः ।इति विश्वः
(साधनम् यथा, रघुः १९ १६ ।“तस्य सावरणदृष्टसन्धयःकाम्यवस्तुषु नरेषु सङ्गिनः ।वल्लभामिरुपसृत्य चक्रिरेसाभिमुक्तविषयाः समागमाः
”)व्याकरणमते वर्णद्वयस्य मेलनम् (यथा, कथासरित्सागरे ११३ -- ११७ ।“अथैका तस्य महिषी राज्ञः स्तनभरालसा ।शिरीषसुकुमाराङ्गी क्रीडन्ती क्लममभ्यगात्
सा जलैरभिषिञ्चन्तं राजानमसहा सती ।अब्रवीन्मोदकैर्देव परिताडय मामिति
तच्छ्रुत्वा मोदकान् राजा द्रुतमानाययन् बहून्ततो विहस्य सा राज्ञी पुनरेवमभाषत
राजन्नवसरः कोऽत्र मोदकानां जलान्तरे ।उदकैः सिञ्च मा त्वं मामित्यक्तं हि मया तव
सन्धिमात्रं जानासि माशब्दोदकशब्दयोः ।न प्रकरणं वेत्सि मूर्खस्त्वं कथमीदृशः
”)तस्य लक्षणादिर्यथा अर्द्धमात्रोच्चारणकालेना-व्यवहितयोर्व्वर्णयोर्द्रुततरोच्चारणं सन्धिः अतएव श्लोकार्द्ध्वयोर्मन्त्रार्द्धयोर्व्वा सन्धिः तत्रअर्द्धमात्रोच्चारणकालव्यवधानस्योचितत्वादितिप्राञ्चः स्वमते तु सन्ध्यध्यायसूत्रविहितकार्य्यंसन्धिरिति सन्धिलक्षणम् तेन पिपक्षादि-शब्दानां संयोगान्तलुपि लुपि सन्ध्याद्यविधीइति निषेधेऽपि सन्धिग्रहणात् सन्धिलुप्येव नसन्धिरिति नियमात् झपझसोरित्यनेन चप-जपौ पिपक् पिपग् इति भिन्नपदे तु सन्धि-र्व्विभाषयेति बोध्यम् तथा ।“सन्धिरेकपदे नित्यो नित्यो धातूपसर्गयोः ।सूत्रेषु भवेन्नित्यः सैवान्यत्र विभाषया
”इति प्राञ्चः ।एकपदे इति स्वभावादेकपदे समासेऽपि ।यथादानं भवेत् नद्यौ इत्यादि समासे मुरारिःहृषीकेशः त्र्यम्बकः गवीशः इत्यादि धातू-पसर्गयोस्तु अधीते उपेत्य इत्यादि अन्यत्रअत्र अम्भः अत्राम्भः इह इन्दुः इहेन्दुःइत्यादि धातूपसर्गयोः समासस्य नित्यत्वादेक-पदग्रहणेनैवेष्टसिद्धौ तयोः पुनरुपादानं अनित्य-समासे कदाचिदेकपदेऽपि सन्धिर्विभाष्यते इतिज्ञापनार्थम् तेन उच्चारितरुचिरऋचां चान-नानां चतुर्णां इत्यादि सिद्धिः इति मुग्ध-बोधव्याकरणटीकायां दुर्गादासः
*
सर्व्वा-ङ्कुरसन्धिर्म्मासत्रयेण भवति गात्रसन्धिः सप्त-मासैर्भवति इति सुखबोधः
युगसन्धिर्युग-शब्दे देहसन्धिर्म्मर्म्मशब्दे द्रष्टव्यः
कृदन्तरूपमाला
Sanskrit
1 {@“धेट् पाने”@} 2 ‘धेटो धयति पानार्थे, धाञो धत्ते दधात्यपि।’ 3 इति देवः।
4 5 धायकः-यिका, 6 धापकः-पिका, 7 धित्सकः-त्सिका, 8 देधीयकः-यिका
9 प्रणिधाता-त्री, धापयिता-त्री, धित्सिता-त्री, देधीयिता-त्री
10 प्रणिधयन्-न्ती, 11 धापयन्-न्ती, धित्सन्-न्ती
-- प्रणिधास्यन्-न्ती-ती, धापयिष्यन्-न्ती-ती, धित्सिष्यन्-न्ती-ती
-- -- धापयमानः, धापयिष्यमाणः, -- देधीयमानः, देधीयिष्यमाणः
12 धाः-धौ-धाः
-- -- -- 13 धीतम्-धीतः-धीतवान्, धापितः, धित्सितः, देधीयितः-तवान्
14 उद्धयः 15 -धयः, 16 नासिकन्धयः- 17 स्तनन्धयः, स्तनन्धयी, 18 नाडिन्धयः- 19 20 मुष्टिन्धयः, 21 शुनिन्धयः, 22 घटिन्धयः-खारिन्धयः-खरिन्धयः- 23 वातन्धयः, 24 धारुः, 25 26 धात्री, 27 पुष्पन्धयः, 28 मुञ्जन्धयः-कूलन्धयः-आस्यन्धयः, 29 क्षीरधाः, धापः, धित्सुः, देध्यः
धातव्यम्, धापयितव्यम्, धित्सितव्यम्, देधीयितव्यम्
प्रणिधानीयम्, धापनीयम्, धित्सनीयम्, देधीयनीयम्
प्रणिघेयम्, धाप्यम्, धित्स्यम्, देधीय्यम्
30 ईषद्धानः-दुर्धानः-सुधानः
-- -- धायः, 31 सन्धिः, धापः, धित्सः, देधीयः
धातुम्, धापयितुम्, धित्सितुम्, देधीयितुम्
32 धीतिः, 33 सुधा, धापना, धित्सा, देधीया
धयनम्, धापनम्, धित्सनम्, देधीयनम्
धीत्वा, धापयित्वा, धित्सित्वा, देधीयित्वा
प्रधाय, प्रधाप्य, प्रधित्स्य, प्रदेधीय्य
धायम् धीत्वा धापम् धापयित्वा धित्सम् धित्सित्वा देधीयम्
देधीयित्वा
34 धेनुः।
प्रासङ्गिक्यः
01
=>
(९२२)
02
=>
(१-भ्वादिः-९०२। सक। अनि। पर।)
03
=>
(श्लो। ६)
04
=>
[पृष्ठम्०८१२+ २५]
05
=>
[[१। ‘आदेच उपदेशेऽशिति’ (६-१-४५) इत्यात्त्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञि णमुल्यपि ज्ञेयम्।]]
06
=>
[[२। ण्यन्ते सर्वत्र आत्त्वे, आदन्तलक्षणः पुगागमो ज्ञेयः।]]
07
=>
[[३। धारूपत्वेनास्य धुसंज्ञकत्वात्, ‘सनि मीमाघु--’ (७-४-५४) इत्यादिना इस्। ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। ‘सः स्यार्धधातुके’ (७-४-४९) इति तकारः। एवं सन्नन्ते सर्वत्र प्रक्रिया।]]
08
=>
[[४। यङन्ते सर्वत्र, ‘घुमास्था--’ (६-४-६६) इत्यादिना ईत्वे, अभ्यासे गुणः।]]
09
=>
[[५। ‘नेर्गदनदपतपदघु--’ (८-४-१७) इत्यादिना नेर्णत्वम्।]]
10
=>
[[६। शतरि, ‘एचोऽयवायावः’ (६-१-७८) इत्ययादेशः।]]
11
=>
[[७। ‘न पादम्याङ्--’ (१-३-८९) इत्यत्र, ‘धेट उपसंख्यानम्’ (वा। १-३-८९) इति वचनात् उभयपदित्वमस्य
\n\n तेन ण्यन्तात् शतृशानचौ।]]
12
=>
[[८। क्विपि, आत्त्वे रूपमेवम्।]]
13
=>
[[९। निष्ठायाम्, ‘घुमास्था--’ (६-४-६६) इति ईत्त्वे, रूपम्। एवम्, क्त्वाप्रमृति- ष्वपि ज्ञेयम्।]]
14
=>
[[१०। सोपसृष्टात्, निरुपसृष्टादपि, ‘पाघ्राध्माधेद्दृशः शः’ (३-१-१३७) इति शप्रत्यये, शित्त्वेन सार्वधातुकत्वात् शप्प्रत्यये, पररूपे, अयादेशे रूपमेवम्। केचित्तु निरुपसृष्टादेवायं प्रत्यय इति साधयन्ति।]]
15
=>
[[आ। ‘ध्वनीनामुद्धमैरेभिर्मधूनामुद्धयैर्मृशम्।’ भ। का। ६। ७८।]]
16
=>
[[११। ‘नासिकास्तनयोर्घ्माघेटोः’ (३-२-२९) इति खश्प्रत्ययः। ‘खित्यनव्ययस्य’ (६-३-६६) इति ह्रस्वः, ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। घेटष्टि- त्त्वात् अवयवेऽचरितार्थस्य टित्करणस्य समुदाय उपयोगात् स्त्रियां ङीप्।]]
17
=>
[[B। ‘सत्त्वमेजयसिंहाढ्यान् स्तनन्धयसमत्विषौ।’ भ। का। ६। ९५।]]
18
=>
[[१२। ‘नाडीमुष्ट्योश्च’ (३-२-३०) इति खशू। पूर्ववत् मुम्।]]
19
=>
[पृष्ठम्०८१३+ २८]
20
=>
[[आ। ‘किमत्र बहुना भजद्भवपयोधिमुष्टिन्धयः त्रिविक्रम भवत्क्रमः क्षिपतु मङ्क्षु रङ्गद्विषः।।’ अभीतिस्तवे २७।]]
21
=>
[[१। ‘खश्प्रकरणे--वातशुनीतिलशर्धेषु अजघेट्तुदजहातीनां खश उपसंख्यानम्’ (वा। ३-२-२८) इति वार्तिकात् खश्। ‘खित्यनव्ययस्य’ (६-३-६६) इति ह्रस्वः।]]
22
=>
[[२। ‘घटीखारीखरीषु--’ (वा। ३-२-३०) इति खश्। वार्तिकमिदं भाष्ये दृश्यते। ‘नाडीमुष्ट्योश्च’ (३-२-३०) इत्यत्र विद्यमानश्चकारोऽनुक्तसमुच्चयार्थकः इति मत्वा सिद्धान्तकौमुद्यादिषूक्तः स्यात्।]]
23
=>
[[३। अत्रापि, बाहुलकात् खश्। वातन्धयः = सर्पः।]]
24
=>
[[४। ‘दाधेट्सिशदसदो रुः’ (३-२-१५९) इति ताच्छीलिको रुप्रत्ययः।]]
25
=>
[[B। ‘श्रद्धालुं भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम्।।’ भ। का। ७। २१।]]
26
=>
[[५। ‘धः कर्मणि ष्ट्रन्’ (३-२-१८१) इति कर्मण्यर्थे ष्ट्रन्। षित्त्वात् स्त्रियां ङीष्। ‘तत्र बाला धयन्त्येनामिति धात्र्युपमातरि। भैषज्यार्थं दधत्येनामिति स्यादामलक्यपि।।’ इति प्र। सर्वस्वे।]]
27
=>
[[६। पुष्पशब्द उपपदे धातोरस्य खश्प्रत्ययविधानाभावात् पृषोदरादित्वेन वा, ‘नाडी- मुष्ट्योश्च’ (३-२-३०) इत्यत्र अनुक्तसमुच्चयार्थकचकारेण वा साधुत्वमिति ज्ञेयम्। एवमेव मुञ्जन्धय इत्यादिष्वपि। पुष्पन्धयः = भ्रमरः। कूलन्धयः = नदी- वेगः। मुञ्जन्धयः = क्रिमिविशेषः। आस्यन्धयः = कामुकः।]]
28
=>
[[C। ‘चक्राङ्गीमदपश्यतोहरचलच्छम्पासमुन्मेषणः पुष्पत्केतकगन्धसिन्धुविलुठत्पुष्पन्धयान्धीकृतैः।’ च। भारते ३। ५३।]]
29
=>
[[७। क्षीरं धयतीति क्षीरधाः। ‘आतो मनिन्--’ (३-२-७४) इति विट्।]]
30
=>
[[८। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्।]]
31
=>
[[९। ‘उपसर्गे घोः किः’ (३-३-९२) इति किप्रत्यये, ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपे रूपमेवम्।]]
32
=>
[पृष्ठम्०८१४+ २५]
33
=>
[[१। ‘आतश्चोपसर्गे’ (३-३-१०६) इति स्त्रियामङ्।]]
34
=>
[[२। ‘धेट इच्च’ (द। उ। १-१४५) इति नुप्रत्यये इकारश्चान्तादेशः। धेनुः = नवप्रसू- ता गौः।]]