| YouTube Channel

सत्यलोकः (satyalokaH)

 
शब्दकल्पद्रुमः
Sanskrit
सत्यलोकः,
पुं,
(सत्यो लोकः ।) सप्तलोकान्तर्गत-लोकविशेषः यथा, --“षड्गुणेन तपोलोकात् सत्यलोको विराजते ।अपुनर्मारका यत्र ब्रह्मलोको हि स्मृतः
”इति विष्णुपुराणे अंशे अध्यायः
जनलोकापेक्षयैव षड्गुणेन द्वादशकोट्युच्छ्रा-येण तपोलोकानन्तरं सत्यलोकः तु तपो-लोकात् षड्गुणेनेति मन्तव्यम् तथा सत्यष्ट-चत्वारिंशत्कोट्युच्छ्रायत्वेन ब्रह्माण्डे तस्याव-काशाभावात् सूर्य्याण्डगोलयोरन्तःकोट्यः स्युःपञ्चविंशतिरिति शुकोक्तेः सत्यलोक एव कक्षा-भेदेन ब्रह्मधिष्ट्यात् परं वैकुण्ठलोकादि ज्ञेयम् ।एवञ्च भूतलादूर्द्ध्वं पञ्चदशलक्षोत्तरास्त्रयोविं-शतिः कोट्यो भवन्ति सत्यलोकादूर्द्ध्वञ्च पञ्च-दशलक्षोनकोटिद्वयादण्डकटाह इति ज्ञेयम् ।अपुनर्मारकाः पुनर्म्मृत्युशून्याः इति तट्टीका