सत्ययुगं (satyayugaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritसत्ययुगं, (सत्यं युगम् ।) चतुर्युगानां प्रथम-युगम् । यथा, --“कृतं सत्ययुगं त्रेताग्नायी द्वापरयज्ञियौ ।कलिर्झर्झरकः कर्म्मयुगं पापन्तु पातकम् ॥
”इति त्रिकाण्डशेषः ॥
* ॥
तस्य कृतनामकारणं यथा, --“तदुपाधिकृतः कालो ब्रह्मणो जन्ममृत्युकृत् ।शतसंवत्सरे ब्रह्मा लयं प्राप्नोति हि त्वयि ॥
लयान्ते तन्नाभिमध्यादुत्थितः सृजति प्रभुः ।ततः कृतयुगान्तेऽहं कालं सद्धर्म्मपालकम् ॥
कृतकृत्याः प्रजा यत्र तन्नाम्ना मां कृतं विदुः ॥
”इति कल्किपुराणे १९ अध्यायः ॥
* ॥
तद्धर्म्मा यथा, --“धर्म्मश्चतुष्पादमवत् कृते पूर्णे जगत्त्रयम् ।देवा यथोक्तफलदाश्चरन्ति भुवि सर्व्वतः ॥
सर्व्वशस्या वसुमती हृष्टपुष्टजनावृता ।शाठ्यचौर्य्यानृतैर्हीना आधिव्याधिविवर्ज्जिता ॥
विप्रा वेदविदह् सुमङ्गलयुता नार्य्यस्तु चर्य्याव्रतैःपूजाहोमपराः पतिव्रतधरा यागोद्यताःक्षक्षियाः ।वैश्या वस्तुषु धर्म्मतो विनिमयैः श्रीविष्णुपूजा-पराःशूद्रास्तु द्विजसेवनाद्धरिकथालापाः सपर्य्या-पराः ॥
”इति कल्किपुराणे २८ अध्यायः ॥
* ॥
तद्युगमानं यथा, “चत्वारि त्रीणि द्वे चैकं कृत्यादिषु यथाक्रमम्संख्यातानि सहस्राणि द्विगुणानि शतानि च ॥
”इति श्रीभागवते १२ स्कन्धे ४ अध्याये २ श्लोक-टीकायां श्रीधरस्वामी ॥
तस्योत्पत्त्यादिर्यथा ।वैशाखशुक्लपक्षे तृतीयायां रविवारे सत्य-युगोत्पत्तिः । तत्रावतारचतुष्टयं मत्स्यकूर्म्म-वराहनृसिंहाः । पूर्णं पुण्यम् । पापं नास्ति ।कुरुक्षेत्रं तीर्थम् । ग्रहांशो ब्राह्मणः । मज्जा-गताः प्राणाः । इच्छामृत्युः । एकविंशति-हस्तपरिमितो मानवदेहः । लक्षवर्षं परमायुः ।सुवर्णनिर्म्मितभोजनपात्रम् । सत्ययुगाब्दाः१७२८००० । सत्ययुगस्य राजा बलिः वेणःमान्धाता पुरोरवा धुन्धुमारिकः कार्त्तवीर्य्यःएते षट् चक्रवर्त्तिनः ॥
सत्ययुगस्य लक्षणम् ।“सत्यधर्म्मरतो नित्यं तीर्थानाञ्च सदाश्रयम् ।नन्दन्ति देवताः सर्व्वाः सत्ये सत्यपरा नराः ॥
”तत्र तारकब्रह्मनाम यथा, --“नारायणपरा वेदा नारायणपराः क्षराः ।नारायणपरा मुक्तिर्नारायणपरा गतिः ॥
”इति मुद्राङ्कितपञ्जिकातः संगृहीतम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
