| YouTube Channel

सत्यतपाः (satyatapAH)

 
शब्दकल्पद्रुमः
Sanskrit
सत्यतपाः, [स्]
पुं,
(सत्यं तपो यस्य ।) मुनि-विशेषः तु पुरा व्याध आसीत् ततस्तपःकृत्वा दुर्व्वाससो वरेण वेदादिसर्व्वशास्त्रज्ञोभूत्वा एतन्नामा बभूव यथा, --“तमस्थिशेषं व्याधन्तु क्षुधादुर्ब्बलतां गतम् ।उवाच वेदाः साङ्गास्ते सरहस्यपदक्रमाः ।ब्रह्मविद्यापुराणानि प्रत्यक्षाणि भवन्तु ते
एवं प्रादाद्वरं तस्य दुर्व्वासा नाम चाकरोत् ।भवान् सत्यतपा नाम ऋषिराद्यो भविष्यति
”इति वाराहे सत्यतपौपख्याननामाध्यायः