| YouTube Channel

सत्त्री (sattrI)

 
Kridanta Forms
Sanskrit
सद् (ष॒दॢँ꣡ विशरणगत्यवसादनेषु - भ्वादिः - अनिट्)
ल्युट् = सदनम्
अनीयर् = सदनीयः - सदनीया
ण्वुल् = सादकः - सादिका
तुमुँन् = सत्तुम्
तव्य = सत्तव्यः - सत्तव्या
तृच् = सत्ता - सत्त्री
क्त्वा = सत्त्वा
ल्यप् = प्रसद्य
क्तवतुँ = सन्नवान् - सन्नवती
क्त = सन्नः - सन्ना
शतृँ = सीदन् - सीदन्ती
सद् (ष॒दॢँ꣡ विशरणगत्यवसादनेषु - तुदादिः - अनिट्)
ल्युट् = सदनम्
अनीयर् = सदनीयः - सदनीया
ण्वुल् = सादकः - सादिका
तुमुँन् = सत्तुम्
तव्य = सत्तव्यः - सत्तव्या
तृच् = सत्ता - सत्त्री
क्त्वा = सत्त्वा
ल्यप् = प्रसद्य
क्तवतुँ = सन्नवान् - सन्नवती
क्त = सन्नः - सन्ना
शतृँ = सीदन् - सीदन्ती / सीदती
शब्दकल्पद्रुमः
Sanskrit
सत्त्री, [न्]
पुं,
(सत्त्रमस्त्यस्येति इनिः ।)गृहपतिः इत्यमरः
द्वे गृहस्थे सत्त्रं सदादानं विद्यतेऽस्य सत्त्री इन् सदेस्त्रं सत्त्रंद्वितकारम् सत्त्रमाच्छादने यज्ञे सदा दाने चकैतवे इति विश्वः गृहस्य पतिर्गृहपतिः ।इति भरतः
नित्यप्रवृत्तान्नदानः यथा विष्णुः ।नाशौचं राज्ञां राजकर्म्मणि व्रतिनां व्रते नसत्त्रिणां सत्रेन कारुणां स्वकर्मणि राजाज्ञा-कारिणां तदिच्छया देवप्रतिष्ठाविवाहयोःपूर्व्वसंवृतयोः इति सत्त्रिणां नित्यप्रवृत्तान्न-दानानां सत्त्रेऽन्नदाने इति शुद्धितत्त्वम्
(यज्ञान्धिते, त्रि यथा, महाभारते १४ ।“सन्यमेतद्भवानाह मां जानाति सत्त्रिणम् ।कथयस्व तदेतन्मे क्व नु सम्प्रति नारदः
”)