| YouTube Channel

सङ्गीतं (saGgItaM)

 
शब्दकल्पद्रुमः
Sanskrit
सङ्गीतं,
क्ली,
(सं + गे + क्तः ।) प्रेक्षणार्थनृत्य-गीतवाद्यम् यथा, हेमचन्द्रः ।“गीतवाद्यनृत्यत्रयं नाट्यं तौर्य्यत्रिकञ्च तत् ।सङ्गीतं प्रक्षणार्थेऽस्मिन् शास्त्रोक्ते नाट्य-धर्म्मिका
”नृत्यगीतवाद्यस्य शास्त्रम् तत्तु सोमेश्वरभरत-हनूमत्कल्लिनाथमतभेदात् चतुर्व्विधम् अधुनाहनूमन्मतं प्रचलितम् तस्य अध्यायाः सप्त ।स्वराध्यायः रागाध्यायः तालाध्यायः ३नृत्याध्यायः भावाध्यायः कोकाध्यायः ६हस्ताध्यायश्च इति सङ्गीतशास्त्रम्
*
सङ्गीतावसाने ताम्बूलदानप्रमाणं यथा, --“ता वासुदेवोऽप्यनुरक्तचित्तःसंनृत्य गीताभिनयैरुदारैः ।नरेन्द्रसूनो परितोषितेनताम्बूलयोगेन वराप्सरोभिः
तदागताभिर्नृवराहृतास्तुकृष्णेप्सया मानमयास्तथैव ।फलानि गन्धोत्तमवन्ति वीरा-श्छालिक्यगान्धर्व्वमथाहृतञ्च
कृष्णेच्छया त्रिदिवान्नृदेवअनुग्रहार्थं भूवि मानुषाणाम् ।स्थितञ्च रम्यं हरितेजसेवप्रयोजयामास रौक्मिणेयः ।छालिक्यगान्धर्व्वमुदारबुद्धि-स्तेनेव ताम्बूलमथ प्रयुक्तम्
”इति हरिवशे भानुमतीहरणे जलक्रीडायाम्१४८ अध्यायः