| YouTube Channel

संवर्त्तः (saMvarttaH)

 
शब्दकल्पद्रुमः
Sanskrit
संवर्त्तः,
पुं,
(सं + वृत् + घञ् ।) प्रलयः इत्य-मरः
(यथा, भागवते १५ २६ ।“दहन्निव दिशो दिग्भिः संवर्त्ताग्निरिवो-त्थितः
”)मुनिविशेषः (यथा, मार्कण्डेये १३० ११ ।“ऋत्विक् तस्य तु संवर्त्तो बभूवाङ्गिरसः सुतः ।भ्राता बृहस्पतेर्विप्र महात्मा तपसां निधिः
”अयं हि धर्म्मशास्त्रप्रयोजकानामन्यतमः
)कर्षफलवृक्षः इति मेदिनी
मेघः इतिशब्दरत्नावली
(यथा, हरिवंशे १२० ९० ।“शुश्रुवे सुमहान् शब्दः सवर्त्तनिनदो यथा
”)मेघनायकांवशेषः तस्य विवरणं यथा, --“त्रियुते शाकवर्षे तु चतुर्भिः शेषिते क्रमात् ।आवर्त्तं विद्धि संवर्त्तं पुष्करं द्रोणमम्बुदम्
आवर्त्तो निर्जलो मेघः संवर्त्तश्च बहूदकः ।पुष्करो दुष्करजलो द्रोणः शस्यप्रपूरकः
”इति ज्योतिस्तत्त्वम्
संपूर्व्वकान्तःस्थवकारादिवृतधातोः घञ्प्रत्ययेननिष्पन्नत्वादनुस्वारमध्यः मकारमध्योऽप्य-यम्