| YouTube Channel

संवरारिः (saMvarAriH)

 
शब्दकल्पद्रुमः
Sanskrit
संवरारिः,
पुं,
(संवरस्य अरिः ।) कामदेवः इत्य-मरः २३
“संवरस्य दैत्यविशेषस्य अरिः ।‘क्लीवन्तु संवरं नीरबौद्धव्रतविशेषयोः ।विशेषे पुंसि दैत्यस्य मत्स्यस्य हरिणस्य
’इति दन्त्यादौ रभसः संवरणं संवरः भावेऽल् ।इन्द्रियसंयमः संवरस्तस्यारिरिति वा तदुक्तंसाहित्यकल्पतरुणा रुद्रस्य सम्बरारिश्च पुष्प-वतीनां कुसुमधन्वेति तदयं संवरारिरिहतालव्यादिर्दन्त्यादिश्च
इति भरतः