| YouTube Channel

ष्वन्ज (Svanja)

 
धातुप्रदीपः
Sanskrit
ष्वन्जँ ष्वन्ज परिष्वङ्गे
- स्वजते परिष्वजते परिषस्वजे परिषस्वञ्जे परिष्वङ्क्ता पर्य्यस्वजत पर्य्यष्वजत अभिषिष्वङ्क्षते सिष्वञ्जयिषति ।। 984 ।।
शब्दकल्पद्रुमः
Sanskrit
ष्वन्ज, ञि आलिङ्गे इति कविकल्पद्रुमः
(भ्वा०-आत्म०-सक०-अनिट् ।) वकारयुक्तादिः ।आलिङ्ग आलिङ्गनम् औ, स्वङ्क्ता ञि, स्वक्तोऽस्ति ङ, स्वजते युवतीं युवा परि-ष्वजति पाञ्चाली मध्यमं पाण्डुनन्दनमितिगणकृतानित्यत्वात् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ष्वन्ज आलिङ्गने
भ्वा०
आ० स० अनिट् स्वजते अस्वङ्क्त
क्षीरतरङ्गिणी
Sanskrit
ष्वन्जँ ष्वन्ज परिष्वङ्गे
- दंशसन्जस्वन्जां शपि (तु0 6425) इति लोपः, उपसर्गात् सुनोति (8365) इति षत्वम्-परिष्वजते सदिस्वन्जोः परस्य लिटि (तु0 83118) इति षत्वं नास्ति, श्रन्थिग्रन्थिदम्भिस्वञ्जीनां (द्र0 126 का0) इति कित्त्वम्- परिषस्वजे प्राक् सितादड्व्यवायेऽपि (8366) इति षत्वम्- पर्यष्वजत सिवादीनां वाड्व्यवायेऽपि (8371) इति षत्वं वा- पर्यस्वजत अस्वङ् क्थाः, इडपीष्टः- अस्वञ्जिष्ठाः जान्तनशां विभाषा (6432) क्त्वि लोपः-स्वङ् क्त्वा, स्वक्त्वा 947
धातुवृत्तिः
Sanskrit
ष्वन्जँ ष्वञ्ज (अर्थः) परिष्वङ्गे
स्वजते "दंशसञ्जस्वञ्जां शपि'' इति अनुनासिकलोपः ( सस्वजे, सस्वञ्जे सस्वजिषे सस्वञ्जिषे सस्वजिवहे ) "इन्धिभवतिभ्याम्'' इत्यत्र "श्रन्थिग्रन्थिदम्भिस्वञ्जीनां वा'' इति वक्तव्यमिति लिटः कित्वविकल्पनात् पक्षेऽनुनासिकलोपः तथा "सदिस्वञ्ज्योः'' इत्यत्र वृत्तिव्याख्यानेषु स्वञ्जेः संयोगान्तादपि लिटो विभाषा कित्त्वमिच्छन्तीति ( स्वङ्क्ता स्वङ्क्ष्यते स्वजताम् अस्वजत स्वङ्क्षीष्ट अस्वङ्क्त सिस्वङ्क्षते ) "स्तौतिण्योरेव'' इत्यषत्वम् ( सास्वज्यते सास्वङिक्त सास्वञ्जीति सास्वक्तः सास्वजति )लोटि हौ ( सास्वक्धि ) लङि तिप्सिपोर्हल्ङ्_यादिलोपे संयोगान्तलोपे ( असास्वन् स्वञ्जयति असस्वञ्जत्, प्रतिष्वजते ) "उपसर्गात् सुनोति'' इत्यादिना षत्वं, (प्रत्यष्वङ्क्त) "प्राक् सितादड्व्यवायेऽपि''इति षत्वं (परिष्वजते निष्वजते विष्वजते ) "परिनिविभ्यः'' इत्यादिना षत्वम् "उपसर्गात् सुनोति'' इत्यादिनैव सिद्धे स्तुस्वञ्ज्योरुपादानं "सिवादीनां वाङ्व्यवायेऽपि'' इति परिनिविभ्यः परत्वे अङ्व्यवाये सिवादिदित्वादनयोः षत्वविकल्पोऽयं यथा स्यादिति तेन पर्यष्वजत पर्यस्वजत इत्याद्युभयं भवति प्रतिसस्वजे इत्यादौ "स्थादिष्वभ्यासेन'' इत्यभ्यासात् परस्य प्राप्तं षत्वं "सदिस्वञ्ज्योः परस्य लिटि'' इति निवार्यते 957