| YouTube Channel

ष्वञ्ज (SvaJja)

 
Wilson
English
ष्वञ्ज r. 1st cl. (स्वजते) To embrace.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्वज्
मूलधातुः:
ष्वञ्ज
धात्वर्थः:
परिष्वङ्गे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
स्वजते
कृदन्तरूपमाला
Sanskrit
1 {@“ष्वञ्ज परिष्वङ्गे”@} 2 3 4 प्रतिष्वजमाणः, 5 परिष्वजमाणः-निष्वजमाणः-विष्वजमाणः, 6 परिष्वङ्गः, 7 स्वङ्- क्त्वा-स्वक्त्वा, परिष्वज्य, 8 परिषिष्वङ्क्षमाणः, 9 सस्वजिवान्, इति विशेषरूपाणि।
सामान्यरूपाणि दंशतिवत् 10 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८८९)
02
=>
(१-भ्वादिः-९७६। सक। अनि। आत्म।)
03
=>
[पृष्ठम्१३६८+ २९]
04
=>
[[१। शानचि शपि ‘दंशसञ्जस्वञ्जां शपि’ (६-४-२५) इत्यनुनासिकलोपः। चवर्गपञ्चमत्वेन श्रूयमाणत्वेऽपि नोपधोऽयं धातुः। तदुक्तम्--‘नकारजावनुस्वारपञ्चमौ झलि धातुषु’ इति। ‘उपसर्गात् सुनोति… स्वञ्जाम्’ (८-३-६५) इति षत्वम्।]]
05
=>
[[२। अत्र ‘परिनिविभ्यः सेव… स्वञ्जाम्’ (८-३-७०) इति षत्वम्।]]
06
=>
[[३। निष्ठायामनिट्त्वात् घञि, ‘चजोः--’ (७-३-५२) इति कुत्वम्।]]
07
=>
[[४। ‘जान्तनशां विभाषा’ (६-४-३२) इति नकारलोपो विकल्पेन भवति। तेन रूपद्वयम्।]]
08
=>
[[५। ‘स्थादिष्वभ्यासेन चाभ्यासस्य’ (८-३-६४) इति षत्वम्।]]
09
=>
[[६। ‘श्रन्थिग्रन्थिदम्भिस्वञ्जीनां च’ (वा। १-२-६) इति लिटः कित्त्वात् लिडादेशे क्वसावपि कित्वम्। तेनोपधानकारलोपे, द्विर्वचनादिके च, ‘वस्वेकाजाद्--’ (७-२-६७) इति इडागमे रूपमेवम्।]]
10
=>
(८१७)