| YouTube Channel

ष्णिह (SNiha)

 
Wilson
English
ष्णिह (ऌ ऊ) r. 4th cl. (स्निह्यति) To bear affection to, love, to
regard, to be kind to or pleased with. r. 10th. cl. (स्नेहयति) To be
unctuous, to be bland or greasy.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्निह्
मूलधातुः:
ष्णिह
धात्वर्थः:
प्रीतौ
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
स्निह्यति
अनुबन्धादिविशेषः:
पुषादिः, रधादिश्च
धातुः:
स्निह्
मूलधातुः:
ष्णिह
धात्वर्थः:
स्नेहने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
स्निह्यति-ते
शब्दकल्पद्रुमः
Sanskrit
ष्णिह, ञि प्रीतौ इति कविकल्पद्रुमः
(दिवा०-पर०-अक०-वेट् ।) ऊ, स्नेहिष्यतिस्नेक्ष्यति य, स्निह्यति बन्धुः ऌ, अस्नि-हत् ञि, स्निग्धः स्नीढोऽस्ति इति दुर्गा-दासः
ष्णिह, स्रेहने इति कविकल्पद्रुमः
(चुरा०पर-अक०-सेट् ।) स्नेहनं स्निग्धीभावः क, स्नेहयति वर्त्तिका तैलेन इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ष्णिह प्रीतौ दि०
पर०
सक०
उदन वट् स्निह्यति ऌदित्अस्नेहत् स्नेहिता स्नेढा--भ्नेग्धा
ष्णिह स्नेहयुक्तभवने
चु०
उभ०
अक० सेट् स्नेहयति ते असिष्णिहत्
कृदन्तरूपमाला
Sanskrit
1 {@“ष्णिह प्रीतौ”@} 2 रधादिः।
‘स्नेहने स्नेहयेत्, प्रीतौ स्निह्येत्--।’ 3 इति देवः।
‘स्निह--’ इति केचित्।
तद् भाष्यादिविरोधादुपेक्ष्यम्।
स्नेहकः-हिका, स्नेहकः-हिका, 4 सिस्निहिषकः-सिस्नेहिषकः-सिस्निक्षकः-क्षिका, 5 सेष्णिहकः-हिका
6 स्नेहिता-स्नेग्धा-स्नेढा-ढ्री, स्नेहयिता-त्री, सिस्निहिषिता- सिस्नेहिषिता-सिस्निक्षिता-त्री, सेष्णिहिता-त्री, इत्यादीनि रूपाणि दैवादिक- 7 द्रुह्यतिवत् 8 बोध्यानि।
9 स्निहित्वा-स्नेहित्वा-स्निग्ध्वा-स्नीढ्वा, 10 स्निग्धः-स्नीढः, 11 उष्णिक्-उष्णिहा, 12 स्निहितिः, 13 स्नेहुः, इति विशेषरूपाणि।
प्रासङ्गिक्यः
01
=>
(१८८१)
02
=>
(४-दिवादिः-१२००। अक। वेट्। पर।)
03
=>
(श्लो। १९८)
04
=>
[[८। ‘रधादिभ्यश्च’ (७-२-४५) इतीड्विकल्पः। ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। षत्वम्। तेन रूपत्रयम्। इडभावपक्षे ‘वा द्रुहमुहष्णुहष्णिहाम्’ (८-२-३३) इति घकारविकल्पः, तस्य चर्त्वेन ककारः। पक्षे हकारस्य ढकारे, तस्य ककारेऽपि तुल्यं रूपम्।]]
05
=>
[[९। यङन्तेऽभ्यासे गुणः। उत्तरखण्डे षत्वम्।]]
06
=>
[[१०। रधादित्वात् (७-२-४५) इड्विकल्पः। ‘वा द्रुहमुहष्णुहष्णिहाम्’ (८-२-३३) इति घत्वविकल्पः। घत्वपक्षे धत्वे स्नेग्धा। ढत्वपक्षे धत्वढत्वष्टुत्वढलोपदीर्घेषु स्नेढा इति रूपम्। एवं तव्यदादिष्वपि रूपत्रयं बोध्यम्।]]
07
=>
[पृष्ठम्१३६६+ २८]
08
=>
(८८५)
09
=>
[[१। इड्विकल्प-घत्वविकल्प-कित्त्वविकल्पाः। तेन चातूरूप्यम्।]]
10
=>
[[२। निष्ठायामिण्निषेधः। घत्वपक्षे ढत्वपक्षे रूपद्वयम्।]]
11
=>
[[३। ‘ऋत्विग्दधृक्स्रग्दिगुष्णिग्--’ (३-२-५९) इत्यत्र निपातनात् उत्पूर्वकादस्मात् क्विन्, उपसर्गान्त्यलोपः, षत्वं च। उष्णिक् = छन्दोविशेषः। ‘क्रुञ्चा उष्णिहा देवविशा’ इति भाष्यकारप्रयोगात् अजादित्वेन स्रियां टापि उष्णिहा इत्यपि साधुः। उत्स्निह्यतीति उष्णिक् उष्णिहा वा।]]
12
=>
[[४। निगृहीतिः निपठितिः इत्यादिष्विव ‘तितुत्रेष्वग्रहादीनाम्’ (वा। ७-२-९) इति पर्युदासात् इट् इति प्रक्रियासर्वस्वम्। एतच्च पाक्षिकम्
\n\n तेन स्निर्धिः स्नीढिः इत्यपि भवत्येव।]]
13
=>
[[५। औणादिके (द। उ। १-९५) उप्रत्यये स्नेहुः = चन्द्रमाः।]]
1 {@“ष्णिह स्नेहने”@} 2 ‘स्निट’ इति ‘स्मिट’ इति पाठभेदौ।
पूर्वधातुवद्रूपाण्यूह्यानि।
प्रासङ्गिक्यः
01
=>
(१८८२)
02
=>
(१०-चुरादिः-१५७२। सक। सेट्। उभ।)