| YouTube Channel

ष्ठिवु (SThivu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ष्ठिव्
मूलधातुः:
ष्ठिवु
धात्वर्थः:
निरसने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
ष्ठीवति
धातुः:
ष्ठिव्
मूलधातुः:
ष्ठिवु
धात्वर्थः:
निरसने
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
ष्ठीव्यति
धातुप्रदीपः
Sanskrit
ष्ठिवुँ ष्ठिवु निरसने
- ष्ठीवति ष्ठिवेरभ्यासस्य तो वेति तन्त्रान्तरीयम् टिष्टेव ।तिष्ठेव ।ष्ठ्यूत्वा ।ष्ठेवित्वा मधुलिट् ष्ठीवति (71) इवन्तत्वादिड् विकल्पः-तिष्ठेविषति। तिष्ठ्यूषति। निष्ठेवनम् निष्ठीवनम् ।।561।।
ष्ठिवुँ ष्ठिवु निरसने
- ष्ठीव्यति तिष्ठेव तुष्ठ्यूषति तिष्ठेविषति तेष्ठीव्यते ष्ठीवतीति भ्वादिपाठात् 4
क्षीरतरङ्गिणी
Sanskrit
ष्ठिवुँ ष्ठिवु निरसने
- सुब्धातुष्टिवुष्वक्कीनाम (तु0 6164 वा0) इति धात्वादेः षः सो नास्ति, ष्ठिवुक्लम्वाचमां शिति (तु0 7375) इति दीर्घः-ष्ठीवति ल्युटि वा गुणः- ष्ठेवनम्, ष्ठीवनम् ष्ठ्यूत्वा, ष्ठीवित्वा टिष्ठेव षकारात् परस्थकारोऽयमित्येके तिष्ठेव 548
धातुवृत्तिः
Sanskrit
ष्ठिवुँ ष्ठिवु (अर्थः) निरसने
[ सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेध] इति प्रतिषेधः सत्वस्य अस्य द्वितीयस्थकारष्ठकारो वेति वृत्तिः, आचार्येण शिष्येभ्य उभयथा प्रतिपादानात् उभयमपि प्रमाण मिति व्याख्यातारः ( वीवति ) "ष्ठिवुल्लमुचमां शिति'' इति दीर्घः ( तिष्ठेव तिष्ठिवतुः अभ्यासे खयः शेषः ( ष्ठेविता ष्ठेविष्यति ष्ठीवतु आशिषि ष्ठीव्यात् ) "हलि च'' इति दीर्घः ( अष्ठेवीत् तिष्ठेविषति तुष्ठयूषति ) "सनीवन्तर्द्ध'' इति सनः पक्षे इडागमः, अन्यदा "हलन्ताच्च'' इति सनः कित्त्वे वलि लोपं बाधित्वा "च्छ्वोः शूठ'' इति ऊठि णादेशे द्विवर्चनम् अत्र वर्णमात्राश्रयत्वेन चान्तरङ्गे यणि कर्त्तव्ये बाह्मप्रकृतिप्रत्ययाश्रयत्वेन बहिरङ्गस्योठोऽसिद्धत्वंन भवति "नाजानन्तर्ये' इति निषेधात् ( तेष्ठीव्यते ष्ठेवयति अतिष्ठिवत् ) ऊङ्भाविनां वकारान्तानां यङ्लुङ्नास्तीति तेवतावुक्तम् ठकारपक्षे सार्वत्राभ्यासे टकार उदाहायः ( टिष्ठेवेत्यादि ष्ठयवित्वा ष्ट्यूत्वा ) उदित्त्वादिङ्विकल्प इति "नक्त्वासेट्'' इति कित्त्वनिषेधाद्गुणः, अन्यदा तु कित्त्वादूठि यणादेशः ष्ठ्यतः ष्ठ्यतिः "यस्य विभाष'' "सितुत्र'' इत्यनिट्तृवम् ( ष्ठीवनम् ष्ठेवनम् ) पृषोदरादित्वात्पक्षे दीर्घः, तथा चान्द्रसूत्रम् "ष्टिवुसिवोर्दीर्घश्च'' इति अयं दिवादावपि 553
ष्ठिवुँ ष्ठिवु (अर्थः) निरसने
(ष्ठीव्यति) इत्यादि सीव्यतिवत् ( तिष्ठेव ) इत्यादौ अभ्यासे खयश्शेषः अत्र वक्तव्यं भूवादौ ष्ठेवतावुक्तम् "सुब्धातुष्ठिवुष्वष्कतीनाम्'' इति षः सकारनिषेधः अमुं धातुमात्रेयादयः पठन्ति अन्ये तु पठन्ति यदाह "धात्वादेष्षस्स'' इत्यत्र न्यासकारः ष्ठिवुं दिवादिष्वपि केचिदधीयते इति4
कृदन्तरूपमाला
Sanskrit
1 {@“ष्ठिवु निरसने”@} 2 ‘ष्ठीवति ष्ठीव्यतीत्येते स्यातां निरसने ष्ठिवेः।’ 3 इति देवः।
4 ष्ठेवकः-विका, ष्ठेवकः-विका, 5 6 तिष्ठेविषकः-तुष्ठ्यूषकः-षिका, ठिष्ठेविषकः-टुष्ठ्यूषकः-षिका, 7 तेष्ठेवकः- टेष्ठेवकः-विका
ष्ठेविता-त्री, ष्ठेवयिता-त्री, तिष्ठेविषिता-तुष्ठ्यूषिता-टुष्ठ्यूषिता-टिष्ठेविषिता-त्री, तेष्ठेविता-टेष्ठेविता-त्री
इत्यादीनि रूपाणि दीव्यतिवत् 8 बोध्यानि।
9 ष्ठीवन्-निष्ठीवन्, 10 निष्ठीवनम्-ष्ठेवनम्, 11 निष्ठीवः, 12 ष्ठेवित्वा-ष्ठ्यूत्वा, 13 निष्ठ्यूतम्, निष्ठ्यूतिः, इति विशेषरूपाणि।
प्रासङ्गिक्यः
01
=>
(१८७७)
02
=>
(१-भ्वादिः-५६०। सक। सेट्। पर।)
03
=>
(श्लो। १६२)
04
=>
[[९। ‘सुब्धातुष्ठिवु--’ (वा। ६-१-६४) इति सकारादेशप्रतिषेधः। ‘ष्ठिवु’ इत्यत्र ठकारः औपदेशिकः, थकारो वा इत्यत्र उभयथा मतमेदः। थकारपक्षे ष्टुत्वेन सकारस्य षकारश्रवणम् इति विशेषः।]]
05
=>
[पृष्ठम्१३६३+ २७]
06
=>
[[१। इवन्तत्वात् ‘सनीवन्त--’ (७-२-४९) इति इडागमविकल्पः। इट्पक्षे द्विर्व- चनादिकेषु ‘शर्पूर्वाः--’ (७-४-६१) इति खयः शेषः। हलादिशेषापवादः। इडभावपक्षे ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे, वलि लोपं बाधित्वा ‘च्छ्वोः शूठ्--’ (६-४-१९) इति ऊठि यणादेशे, पश्चात् द्विर्वचनम्। प्रतिपदोक्तविधित्वात्, अन्तरङ्गत्वात् वा प्रथमं ऊठ्। विस्तरस्तु माधवीये द्रष्टव्यः। ‘ष्ठिवु’ इत्यत्र ठकार औपदेशिकः इति पक्षे टिष्ठेविषकः--टुष्ठ्यूषकः-षिका इति रूपम्। अत्र न्यासकारः-- “केचिद् आचार्येण शिष्याः ‘ठकारोऽयम्’ इत्युपदिष्टाः। अपरे पुनः ‘थकारोऽयम्। ष्टुत्वेन ठकारः श्रुयते’ इतीममर्थं ग्राहिताः। उभयञ्चैतत् प्रयोजनम्। अन्ये पुनराहुः-- ‘ष्ठिवुर्दिवादिष्वपि पुनरधीयते, तत्र एकस्य द्वितीयस्थकारः, अपरस्य तु ठकारः’ इति” इति (६-१-६४)।]]
07
=>
[[२। यङन्तेऽपि थकारपक्षे तेष्ठेवकः इति, ठकारपक्षे टेष्ठेवकः इति रूपम्।]]
08
=>
(८३८)
09
=>
[[३। शतरि, ‘ष्ठिवुक्लमु--’ (७-३-७५) इति दीर्घः।]]
10
=>
[[४। ल्युटि पृषोदरादित्वात् (६-३-१०९) पाक्षिक उपधादीर्घः इति माधवादयः। चान्द्रास्तु ‘ष्ठिवुसिवोर्दीर्घश्च’ इति ल्युड्विषये सूत्रमेव पठन्ति।]]
11
=>
[[५। घञ्यपि पृषोदरादित्वात् दीर्घः इति चान्द्राः। ल्युटि घञि पृषोदरादित्वादेव दीर्घ इति शब्दकल्पद्रुमः।]]
12
=>
[[६। उदित्त्वात् इड्विकल्पः। इडभावपक्षे ऊठ्।]]
13
=>
[[७। निष्ठायामिण्निषेधः। ऊठ्। निष्ठ्यूतम् = उद्गीर्णम्। एवं क्तिन्यपि ऊठ्।]]
1 {@“ष्ठिवु निरसने”@} 2 दैवश्लोकः पूर्वधातौ द्रष्टव्यः।
केचिदमुं धातुं पठन्ति इति न्यासकार- संवादपुरस्सरं माधवीये प्रतिपादितम्।
ष्ठीव्यन्-न्ती-ती इति शतरि विशेषः।
विशेषरूपाणि सर्वाण्यपि पूर्वधातौ द्रष्टव्यानि।
दैवादिकदीव्यतिवत् 3 बोध्यानि।
4
प्रासङ्गिक्यः
01
=>
(१८७८)
02
=>
(४-दिवादिः-१११०। सक। अनि। पर।)
03
=>
(८३८)
04
=>
[पृष्ठम्१३६४+ ३०]