| YouTube Channel

ष्ट्यै (STyai)

 
शब्दसागरः
English
ष्ट्यै r. 1st cl. (स्त्यायति)
1. To sound.
2. To crowd or swarm.
3. To
envelope.
4. To spread about
also स्त्यै
Yates
English
ष्ट्यै स्त्यायति 1.
a. To sound, to
swarm
to envelope.
Wilson
English
ष्ट्यै r. 1st cl. (स्त्यायति)
1 To sound.
2 To crowd or swarm.
3 To envelope.
Monier Williams Cologne
English
ष्ट्यै See स्त्यै.
Monier Williams 1872
English
ष्ट्यै ष्ट्यै। See rt. स्त्यै।
Benfey
English
ष्ट्यै ष्ट्यै, see स्त्यै।
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्त्यै
मूलधातुः:
ष्ट्यै
धात्वर्थः:
शब्द-सङ्घातयोः
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
स्त्यायति
शब्दकल्पद्रुमः
Sanskrit
ष्ट्यै, संहतौ ध्वनौ इतिकविकल्पद्रुमः
(भ्वा०पर०-अक०-अनिट् ।) अन्तःस्थाद्ययुक्तदन्त्य-वर्गाद्यमध्यः षयोगात् टः तेन तष्ट्यौ तष्ट्या-सति ताष्ट्यायते संहतिः समूहः ष्ट्यायतिलोकः एकत्र समूहायते शब्दायते वा इत्यर्थः
दन्त्यविधौ ष्ट्यैष्वक्कष्ठिवां वर्ज्जनान्न दन्त्यः इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
ष्ट्यै संहतौ ध्वतौ अक०
भ्वा०
पर०
अनिट् स्त्यायति ।अस्त्यासीत् इत्येके षत्यायति इत्येवेति
क्षीरतरङ्गिणी
Sanskrit
ष्ट्यै
मानकरूपान्तरम् - स्त्यै
स्त्यै शब्द, संघातयोः
- ष्ट्यायति स्त्यायति उभयोरुपदेशे उपादानाद् धात्वादेः षः सः (6164) नास्ति सत्यः प्रपूर्वस्य (6123) इति सम्प्रसारणम्, प्रस्त्योऽन्यतरस्याम् (8254) इति वा निष्ठानत्वम्-प्रस्तीतः प्रस्तीमः श्यास्त्या (उ0 246) इतीनच् स्त्येनः स्तेनयतेः (10279) स्तेनः स्त्यातेर्ड्रट् ( उ04165) स्त्री 880, 881
कृदन्तरूपमाला
Sanskrit
1 {@“ष्ट्यै शब्दसंघातयोः”@} 2 ‘शब्दसंघातयोर्धात्वोः स्त्यायत्येकस्य सो षः।’ 3 इति देवः।
4 प्रस्तीमः-प्रस्तीतः, प्रस्तीमवान्-प्रस्तीतवान्, 5 प्रसंस्तीतः, 6 स्त्यातः-संस्त्यानः, 7 स्त्री, इति विशेषरूपाणि।
सामान्यरूपाणि भौवादिककायतिवत् 8 बोध्यानि।
9
प्रासङ्गिक्यः
01
=>
(१८७३)
02
=>
(१-भ्वादिः-९११। अक। अनि। पर।)
03
=>
(श्लो। ७)
04
=>
[[४। प्रपूर्वकस्यास्य निष्ठायाम्, ‘स्त्यः प्रपूर्वस्य’ (६-१-२३) इति यकारस्य सम्प्रसारणे, पूर्वरूपे, दीर्घे च, ‘प्रस्त्योऽन्यतरस्याम्’ (८-२-५४) इति निष्ठातकारस्य मकारादेश- विकल्पः। मकारादेशाभावपक्षे ‘संयोगादेरातो धातीर्यण्वतः’ (८-२-४३) इति निष्ठानत्वं भवति
\n\n सम्प्रसारणस्य नित्यत्वात्, सम्प्रसारणे कर्तव्ये निष्ठानत्वस्यासिद्धत्वात्।]]
05
=>
[[५। ‘प्रस्त्यः’ इत्येव वक्तव्ये ‘स्त्यः प्रपूर्वस्य’ (६-१-२३) इति वचनम्--प्रशब्दो यस्मात् धातूपसर्गसमुदायात् पूर्वः, तस्मादपि प्रसारणं भवतीति ज्ञापनार्थम्। तेन प्रसंस्तीतः इत्यत्रापि सम्प्रसारणादिकम्।]]
06
=>
[[६। प्रभिन्नोपसर्गोपपदस्य शुद्धस्य धातोः सम्प्रसारणादिकम्। अत्र ‘संयोगादेरातो धातोर्यण्वतः’ (८-२-४३) इति निष्ठानत्वम्। अत्र सर्वत्रापि स्त्याधातुग्रहणेषु ‘ष्ट्यै’ इत्यस्य ‘स्त्यै’ इत्यस्य ग्रहणं सर्वसम्मतम्। यदाह वामनः ‘सम्प्रसारणविधौ षोपदेशोऽप्ययं स्त्यारूपो गृह्यते’ (६-१-२३) इति।]]
07
=>
[[७। ‘स्त्यायतेर्ड्रट्’ (पञ्च। उ। ४-१६५) इति ड्रट्प्रत्यये डित्त्वाट्टिलोपे वलि लोपे, टित्त्वात् ङीपि स्त्री इति सम्पद्यते।]]
08
=>
(२६३)
09
=>
[पृष्ठम्१३५६+ २८]