| YouTube Channel

षोडशारं (SoDazAraM)

 
शब्दकल्पद्रुमः
Sanskrit
षोडशारं,
क्ली,
(षोडश अराणि इव दलानियस्य ।) षोडशदलपद्मम् यथा, तन्त्रे ।“आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूलेललाटेद्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्द्धेचतुष्के ।वासान्ते वादिलान्ते ड-फ-क-ठ-सहिते कण्ट-देशे स्वरणांहक्षौ कोदण्डमध्ये सकलदलगतं वर्णरूपंनमामि
”जलाशयोत्सर्गीयवेदिकोपरिकर्त्तव्यचक्रम् यथा, मत्स्यपुराणे ।“रजसा मण्डलं कुर्य्यात् पञ्चवर्णेन तत्त्ववित् ।षोडशारं भवेच्चक्रं पद्मगर्भं चतुर्म्मुखम्
चतुरस्रन्तु परितो वृत्तं मध्ये गुणोत्तरम् ।वेद्याश्चोपरि तत् कृत्वा ग्रहाल्लोकपतींस्तथा ।विन्यसेन्मन्त्रतः सर्व्वान् प्रतिदिक्षु विचक्षणः
”इति जलाशयोत्सर्गतत्त्वम्