| YouTube Channel

षिवु (Sivu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सिव्
मूलधातुः:
षिवु
धात्वर्थः:
तन्तुसन्ताने, बीजसन्ताने
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
सीव्यति
धातुप्रदीपः
Sanskrit
षिवुँ षिवु तन्तुसन्ताने
- सीव्यति सिषेव सिसेविषति सिस्यूषति सीवनं (2) सेवनम् स्यूतः स्यूतिः सेवित्वा स्यूत्वा स्यौतिकः स्योनः 2
क्षीरतरङ्गिणी
Sanskrit
षिवुँ षिवु तन्तुसन्ताने
- सीव्यति सिषेव परिनिविभ्यः (8370) इति षत्वम्-[परिषीव्यति] निषीव्यति, विषीव्यति सिवादीनां वा (8371) इति पर्यसीव्यत सुस्यूषति सिसेविषति, स्तौतिण्योः (8361) इति नियमात् षत्वं नास्ति स्यूत्वा सेवित्वा स्यूतम् स्तन्भुसिवुसहां चड्युपसर्गात् (तु0 83116 वा0)-पर्यसीषिवत् सिवः किद् इति चट्-सूचः, सूची सिविमुच्योष्टेरू (उ0 4163)-सूत्रम् सिवुष्ठिवोर्ल्युटि वा दीर्घः-सीवनम्, सेवनम् प्रसेवको भस्रादिः 2
धातुवृत्तिः
Sanskrit
षिवुँ षिवु (अर्थः) तन्तुसन्ताने
(परिषीव्यति, निषीव्यति, विषीव्यति, ) "परिनिविभ्यः'' इत्यादिना षत्वम्, "सात्पदाद्योः'' इति निषेधापवादः ( परिषिषेव ) इत्यादौ "स्थादिष्वभ्यासेन चाभ्यासस्य'' इत्यत्राभ्यासस्येति योगविभागेन स्थादीनामेवाभ्यासस्य "उपसर्गात्'' इत्यादिना षत्वमिति क्रियमाणे नियमस्तत्र प्राक्सितादित्यनुवर्तनाद् इहाप्राक्सितीयेनेत्यभ्यासस्य षत्वं भवत्येव परस्यापि "इण्कोः'' "आदेशप्रत्यययोः'' इति षत्वम् उपपादितं चैतदेवं सहतौ स्थादिसूत्रार्थः सेधतौ व्यक्तमुक्तः अत्रात्रेयोऽभ्यासस्य षत्वं नेत्याह तत्सहतावेव दूषितम् ( सेविता सेविष्यति सीव्यतु पर्यषीव्यत्, पर्यसीव्यत्, )"सिवादीनां वाड्व्यवायेऽपि'' इति वा षत्वम् एवं निविभ्यामपि ( सीव्येत्, सीव्येतात् ) आशिषि, ( सीव्यात् पर्यषेवीत्, पर्यसेवीत् पर्यषेविष्यत्, पर्यसेविष्यत्, ) पूर्ववत् षत्वविकल्पः ( परिषिसेविषति, परिषिस्यूषति, ) "सनीवन्त'' इतीड्विकल्पः, इडभावे "हलन्ताच्च'' इति सनः कित्त्वादूठ् पूर्ववत् "स्थादिषु''इति नियमाभावादभ्यासस्य षत्वम् एवं निविभ्यां परस्य तु भवति "स्तौतिण्योरेव'' इति नियमात् ( सेषीव्यते सेवयति पर्यसीषिवत् ) इत्यादौ "स्तम्भुसिवुसहां चङि'' इत्यभ्यासस्य "परिनिविभ्यः'' इति प्राप्तस्य षत्वस्य निषेधः ( स्यूत्वा, सेचित्वा, ) उदित्त्वादिड्विकल्पः ( स्यूतः ) "यस्य विभाषा'' ( स्यूतिः ) "तितुत्र'' इतीण्णिषेधः ( सेवनं, सीवनं ) पृषोदरादित्वाद्वा दीर्घः तथा चान्द्राः "ष्ठिवुसिवोर्दीर्धश्च'' इति प्रसीव्यन्ति तमिति ( प्रसेवकः, ) "अकर्तरि कारके'' इति घञन्तात्संज्ञायां कन् वीणाप्रान्ते वक्रकाष्ठमुच्यते "हलश्च'' इति वा घञन्तात्कन् द्रष्टव्यः ( सूनः ) "सिवेष्टेरूच'' इति नप्रत्यये टेरूकारः दीर्घोच्चारणसामर्थ्यान्न गुणः स्योनशब्दस्तु बाहुलकान्नप्रत्यये ऊठि यणि गुणे ( सूत्रम् ) "सिविमुच्योष्टेरू '' इति ष्ट्रन्, टेरुकारश्च टित्त्वात् स्त्रियां ( सूत्री ) अभ्यासार्थं तन्तुः 2
कृदन्तरूपमाला
Sanskrit
1 {@“षिवु तन्तुसन्ताने”@} 2 3 परिषीव्यन्-निषीव्यन्-विषीव्यन्, 4 परिषिषेविषकः-परिषिस्यूषकः-षिका, 5 स्यूत्वा- सेवित्वा, 6 स्यूतः-अनुस्यूतः, अनुस्यूतिः, 7 सेवनम्-सीवनम्, 8 प्रसेवकः, 9 ‘स्योनं ते सदनं कृणोमे’ 10 सूत्रम्, 11 सूची, 12 स्यूमः इति विशेषरूपाणि।
सामान्यरूपाणि दैवादिकदीव्यतिवत् 13 बोध्यानि।
14
प्रासङ्गिक्यः
01
=>
(१८४१)
02
=>
(४-दिवादिः-११०८। सक। सेट्। पर।)
03
=>
[[१। शतरि ‘हलि च’ (८-२-७७) इति उपधादीर्घः। ‘परिनिविभ्यः सेव--’ (८-३-७०) इति षत्वम्।]]
04
=>
[[२। इवन्तत्वेन ‘सनीवन्तर्व--’ (७-२-४९) इति इड्विकल्पः। अभ्यासे षत्वम्
\n\n इडभावपक्षे ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वात् ‘च्छ्वोः श्ठ्--’ (६-४-१९) इति वकारस्य ऊठ्। यण्।]]
05
=>
[[३। उदित्त्वात् क्त्वायामिड्विकल्पः। इडभावपक्षे ऊठ्, यणादेशः। इट्पक्षे सेवित्वा इति रूपम्। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणः।]]
06
=>
[[४। क्त्वायाम्, सनि च, इड्विकल्पात् निष्ठायामिण्निषेधः। ऊठ्यणादेशौ।]]
07
=>
[[५। ल्युटि सेवनम् इति रूपम्। ‘चान्द्राः भोजीयाश्च ल्युटि बाहुलक्रादुपधादीर्घ- मिच्छन्ति ष्ठिवुसिवुधात्वोः’ इति माधवः। तेन सीवनम् इत्यपि यथालक्ष्यं साधु।]]
08
=>
[[६। प्रसीव्यन्ति तमिति प्रसेवः। ‘अकर्तरि कारके--’ (३-३-१९) इति संज्ञायां घञ्। तदन्तात् संज्ञायां कन्प्रत्ययः। ‘प्रसेवकः = वीणाप्रान्ते वक्रकाष्ठम्’ इति माधवः।]]
09
=>
[[७। औणादिके (द। उ। ५-४१) नप्रत्यये ऊठि यणादेशे रूपम्। छान्दसोऽयं प्रयोगः। सीव्यन्त्यनेनेति स्योनः = रश्मिः।]]
10
=>
[[८। ‘सिविमुच्योः--’ (द। उ। ८-८३) इति ष्ट्रन्प्रत्ययः, टेरूकारश्च। सूत्रम् = तन्तुः।]]
11
=>
[[९। औणादिकोऽयं कर्तरि निष्यन्नः। सूची = शलाका।]]
12
=>
[[१०। औणादिके (द। उ। ७-४०) मन्प्रत्यये रूपमेवम्। स्यूमः = मूत्रतन्तुः।]]
13
=>
(८३८)
14
=>
[पृष्ठम्१३४६+ २७]