| YouTube Channel

षन्ज (Sanja)

 
धातुप्रदीपः
Sanskrit
षन्जँ षन्ज सङ्गे
- सजति अभिषजति ससञ्ज ससञ्जतुः सङ्क्ता सङ्क्ता सङ्क्ष्यति अभ्यषजत् सिसङ्क्षति अभिषिङ्क्षति सिषञ्जयिषति अभिषङ्गः ।। 995 ।।
शब्दकल्पद्रुमः
Sanskrit
षन्ज, ञि सङ्ग्रे इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-अनिट् ।) औ, असाङ्क्षीत् ञि, सक्तोऽस्ति सजति वपुषि वासः इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
षन्ज सङ्गे सम्बन्धे
भ्वा०
पर०
सक०
अनिट् सजति असाङ्क्षीत्
क्षीरतरङ्गिणी
Sanskrit
षन्जँ षन्ज सङ्गे
- दन्शसन्जस्वन्जां शपि (तु0 6425) नलोपः, उपसर्गात् सुनोति (8365) इति षत्त्वम् व्यतिषजति स्थादिष्वभ्यासे चाभ्यासस्य (8364) अभिषषञ्ज जान्तनशां विभाषा (6432) क्त्वि नलोपः सक्त्वा, सङ्क्त्वा उत्सङ्गोऽङ्कः प्रासङ्गः निषङ्गस्तूणी असिसञ्जिभ्यां क्थिन् (उ0 3154) सक्थि 958
धातुवृत्तिः
Sanskrit
षन्जँ षञ्ज (अर्थः) सङ्गे
( सजति ) "दंशसञ्जस्वञ्ज'' इत्यनुनासिकलोपः (ससञ्ज ससञ्जतुः ससङ्क्थ ससञ्जिथ ससञ्जिव ) "असंयोगाल्लिट्कित्'' इति कित्त्वनिषेधात् "अनिदिताम्'' इत्युपधालोपो भवति (सङ्क्ता सङ्क्षयति सजतु असजत् सजेत्) आशिषि कित्वादुपधालोपे ( सज्यात् असाङ्क्षीत् असाङ्क्ताम् ) "वदव्रज'' इति वृद्धिः तत्र इल्ग्रहणं हल्समुदायप्रतिपत्त्यर्थं, ( सिसङ्क्षति ) "स्तौतिण्योरेव'' इत्यषत्वम् (अभिषजति) "उपसर्गात्'' इति षत्वम् अभ्यषजदित्यादौ तु "प्राक्सितादड्व्यवायेऽपि'' इति षत्वम्, अभिषिषङ्क्षतीत्यत्र "स्तौतिण्योरेव'' इति नियमं बाधित्वा "स्थादिष्वभ्यासेन च'' इत्यादीना परस्य षत्वं, पूर्वस्य तु "उपसर्गात्'' इत्यनेनैव सिद्धम् अङ्गुलौ संगोऽस्याः अङ्गुलिषङ्गा यवागूः "समासेऽङ्गुलेः'' इति षत्वम् ( अभिषजति ) "उपसर्गात्'' इति षत्वम् ( प्रासङ्गं वहति, प्रासङ्ग्यः ) "तद्वहति रथयुगप्रासङ्गम्'' इति द्वितीयान्तात् वहतीत्यर्थे यत् प्रासङ्गो युगाद्यासङ्गः (निषङ्गः) "नौ सञ्जेर्घञ्'' इति घञ् प्रत्ययः घित्त्वात् कुत्वम् ( सक्थि )"असिसञ्जिभ्यः क्थन्'' इति क्थन् अजादौ विभक्तौ "इकोऽचि'' इति नुमि सक्थ्नीत्यादि तृतीयाद्यजादौ तु "अस्थिदधिसक्थि'' इत्यादिना ङित्वादन्त्यस्य अनङादेशे "अल्लोपोऽनः'' इत्यल्लोपे सक्थ्नेत्यादि सप्तम्येकवचने अल्लोपस्य "विभाषा ङिश्योः'' इति विकल्पितत्त्वात् सक्थिन सक्थिनीत्युभयं भवति अङ्गाधिकारे तदन्तविधेरभ्युपगमात् प्रियसक्थ्नेत्यादावप्यनङ् भवति यदानङ्विधौ नपुंसकेत्यनुवृत्तं तदस्थ्यादीनां विशेषणं नाङ्गस्येति प्रियसक्थना शुनेत्यादौ लिङ्गान्तरेऽपि भवति नपुंसकानुवृत्तिस्तु यदृच्छाशब्दानां पुल्लिङ्गानामस्थ्यादीनामनङ् मा भूदिति अस्थिर्नाम कश्चिदित्यादि नन्वत्र
"अभिव्यक्तपदार्था ये प्रसिद्धा लोकविश्रुताः शास्त्रार्थस्तेषु कर्त्तव्यः शब्देषु तदुक्तिषु
इति नास्ति प्रसङ्ग इति चेत्तर्हि मन्दधियामनुग्रहायैवानुवृत्तिराश्रिता, अत्रादाहरणे सक्थिशब्दोऽस्वाङ्गवाची द्रष्टव्यः स्वापङ्गवाचिनस्तु "बहुव्रीहौ सक्थक्ष्णोः स्वाङ्गात् षच्''इति षच् समासान्तः प्रियसक्थ इति, स्वमङ्गं चेह स्वाङ्गं तु पारिभाषिकम्, उत्तरसक्थं, मृगसक्थं, पूर्वसक्थम्, "उत्तरमृगपूर्वाच्च सक्थनः'' इति तत्पुरुषे टच् समासान्तः अत्र चकारेणोपमानादित्यनुवृत्तौ फलकमिव सक्थि फलकसक्थमित्यत्रापि भवति अस्मादेव ज्ञापकात् असामान्यवचनेनापि सक्थिशब्देन उपमानस्य समासः विद्यते सक्थि यस्य असक्थि, असक्थः "नञ् दुस्सुभ्यो हलि सक्थ्योरन्यतरस्याम्'' इति पक्षेऽच् समासान्तः एवं सुदुरोरुदाहार्यम् एवं सुसक्थः गौर्याः सक्थीव सक्थि यस्य गौरिषक्थः, "बहुव्रीहौ सक्थ्यक्ष्ण्योः'' इति षच् यदा गौर्याः सक्थीति षष्ठीसमासस्तदा "अच् प्रत्य0'' इत्यत्र अजिति योगविभागादजुभयत्र, सुषामादिषु गौरिसक्थः संज्ञायादिति पाठात् षत्वं पूर्वपदस्य ह्रस्वत्वं 967
कृदन्तरूपमाला
Sanskrit
1 {@“षन्ज सङ्गे”@} 2 3 सजन्-अभिषजन्-न्ती, 4 अङ्गुलिषङ्गा यवागूः, 5 प्रासङ्गः-उत्सङ्गः-निषङ्गः, 6 अभिषिषङ्क्षुः, 7 सक्तः-सक्तवान्, 8 सक्त्वा-सङ्क्त्वा, 9 सक्थि, इति विशेष- 10 रूपाणि।
इतराणि सर्वाण्यपि रूपाणि कत्थतिवत् 11 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८१७)
02
=>
(१-भ्वादिः-९८७। सक। अनि। पर।)
03
=>
[[२। शतरि, ‘दंशसञ्जस्वञ्जां शपि’ (६-४-२५) इति अनुनासिकलोपः। धातुरयमुप- देशे नोपधः
\n\n ‘नकारजावनुस्वारपञ्चमौ झलि धातुषु’ इति अभियुक्तोक्तेः। अभिषजन् इत्यत्र ‘उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेध- सिचसञ्जस्वञ्जाम्’ (८-३-६५) इति षत्वम्।]]
04
=>
[[३। सञ्जेर्घञि कुत्वे सङ्गः। अङ्गुलौ सङ्गोऽस्या यवाग्वाः अङ्गुलिसङ्गा। ‘समासेऽङ्गुलेः सङ्गः’ (८-३-८०) इति षत्वम्।]]
05
=>
[[४। प्रपूर्वकाद् धातोर्घञि ‘चजोः--’ (७-३-५२) इति कुत्वे रूपमेवम्। ‘उपसर्गस्य घञि--’ (६-३-१२२) इति दीर्घः। प्रासङ्गः = युगम्। निपूर्वकात् घञि निषङ्गः = तूणीरम्। उत्सङ्गः = अङ्कः।]]
06
=>
[[५। अभिपूर्वकात् सञ्जतेस्सन्नन्तादुप्रत्यये, ‘स्तौतिण्योरेव--’ (८-३-६१) इति नियमं बाधित्वा ‘स्थादिष्वभ्यासेन चाभ्यासस्य’ (८-३-६४) इति षत्वम्। ‘स्थादिषु’ इत्यनेन सञ्जेः ग्रहणम्।]]
07
=>
[[६। ‘अनिदिताम्--’ (६-४-२४) इत्युपधानकारलोपः। जकारस्य चर्त्वेन चकारः।]]
08
=>
[[७। धातोर्जान्तत्वात्, ‘जान्तनशां विभाषा’ (६-४-३२) इति उपधानकारलोप- विकल्पः
\n\n तेन रूपद्वयम्।]]
09
=>
[[८। ‘असिसञ्जिभ्याम्--’ (द। उ। १-१०) इति क्थिन्प्रत्ययः, कित्त्वात् नकारलोपः। सक्थि = ऊरुः।]]
10
=>
[पृष्ठम्१३३८+ २६]
11
=>
(१६०)