षदॢ (SadlR)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुप्रदीपः
Sanskritषदॢँ षदॢँ विशरण, गति, अवसादनेषु
- सीदति । निषीदति । विषीदति । ससाद । निषसाद । विषसाद । सेदतुः । सत्ता । असदत् । सादः, सदः । भावे घञ्-अवसादः । उपसेदिवान् । सद्रुः । निषद्वरः-नौ सदेः (उण्, 2/280) इति ष्वरच् ।। 857 ।।
षदॢँ षदॢँ विशरणे
- सीदति ससाद सत्ता असदत् सिषत्सति सीदती सीदन्ती सादः सद इति ज्वलादिपाठात् (26) 153
क्षीरतरङ्गिणी
Sanskritषदॢँ षदॢँ विशरण, गति, अवसादनेषु
- (अर्थविवरणम्) विशरणम् शातनम्
, (अर्थविवरणम्) अवसादोऽनुत्साहः
इतो रुहान्ताः (1598) पञ्चानिटः परस्मैपदिनश्च पाघ्राध्मा (7378) इति सदेः सीदः-सीदति सिषत्सति असदत् सदेरप्रतेः (तु0 8366) इति षत्वम्-परिषीदति, प्रतिषीदति सदिस्वञ्ज्योः परस्य लिटि (83118) निषसाद लुपसचर (32121) इति भावगर्हायां यङ्-सासद्यते सत्सूद्विष (3261) इति क्विप्, पूर्वपदाद् (83106) इति षत्वम्-शुचिषत्, परिषत् उपनिषत्, निषण्णः सादी निषादी वसिवपि (उ0 4124) इतीञ् सादिः णः-निषादः घञ् विषादः सदोऽचि नौ सदेः (उ0 2122) इति ष्वरच्-निषद् वरः पङ्कः असुन् (द0 उ0 949) सदः सभाः गुधृवीपचिवचि (उ0 4167) इति त्रन्-सत्त्रम् संज्ञायां समज (3399) इति क्यप्-निषद्या विपणिः सादकारयोः कृत्रिमे (63122 वा0) दीर्घः- प्रासादः दाधेट्सि (32159) इति रुः -सद्रुः 825
षदॢँ षदॢ विशरण, गति, अवसादनेषु
- सीदति सदे
सीदादेशः (द्र0 7378) सीदती, सीदन्ती सिषत्सति असदत् सत्ता एतयोर्भ्वादौ पठितयोः (1595, 594) द्विःपाठे फलं नोत्पश्यामः विकरणस्वरे विशेष इति वाभ्यूह्यम् 147
धातुवृत्तिः
Sanskritषदॢँ षदॢ (अर्थः) विशरण, गति, अवसादनेषु
अयं शदिक्रशी चानुदात्ता उदात्तेतः(सीदति) ( सूत्रम्) पाघ्राध्मास्थाम्रादाण्दृश्यर्त्तिशर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसिदा (इति सूत्रम्) इति शिति प्रतृयये परे यथासंख्यात् सदेःसीदादेशः ( ससाद सेदतुः ससत्थ सेदिथ ) थलि भारद्वाजनियमादिट्पक्षे "थलि च सेटि'' इत्येत्वाभ्यासलोपौ (सेदिव सेदिम ) क्रादिनियमान्न्त्यिमिट् ( सत्ता सत्स्यति असीदत सीदेत् सद्यात् असदत् ) लृदित्त्वादङ् ( सिषत्सति सासद्यते ) भावगर्हायां "लुषसद्'' इति यङ् ( सासत्ति ) लङिसिपि "दश्च'' इति वारुत्वम्, (असासः सदयति असीषदत् निषीदति ) ( सूत्रम्) सदिरप्रतेः (इति सूत्रम्) इति प्रतेरिणन्तादुपसर्गात् परस्य षत्त्वे (न्यषीदत् ) "प्राक् सितादङ्व्यवायेपि'' इति षत्वम् (निषिषत्सति ) न्यषीददित्यत्र "स्थादिष्वभ्यासेन च'' इत्युभयत्र षत्वम् यद्वाभ्यासस्य "सदिरप्रतेः'' "प्राक् सितादङ्व्यवायेपि'' इति षत्वम् उत्तरस्य तु''इण्को'' इति (निषसादेत्यत्र ) तु "सदिष्वञ्योः परस्य लिटि'' इति उत्तरखण्डस्य षत्वनिषेधः (निषदतुरित्यादौ) अभ्यासस्य लोपे सति अभ्यासात् परतृवाभावान्नायं निषेधः (सेदिवान् ) ( सूत्रम्) भाषायां सदवसश्रूवः (इति सूत्रम्) इति भूतसमान्ये वा लिट्, तस्य च क्कसुः अस्मादेव वचनात् भूतसासान्ये सदादिभ्यो लिडनुमीयते इदं चानुमानं विकल्पेन, अस्य च लिटो नित्यं क्कसुरिति न तिङां श्रवणं नापि लुङो धातुसमान्यविहितस्य सदादिविशेषविहितेनानेन बाधः न च सदादौ भूतसामान्ये सावकाशस्यास्य लिटः "अनद्दतने लङ्'' "परोक्षेलिट्'' इति भूतविशेषविहिताभ्यां बाधः, तद्विधानेष्यस्यानुवर्त्तनादिति भाष्यादौ स्थितम् क्रादिनियमादिट्, उगित्वान्नुम् ( सूत्रम्) सान्तमहतः (इति सूत्रम्) इति असंबुद्धौ सर्वनामस्थाने दीर्घे सोः "हल्ङ्याब्भ्यः'' इति लोपः सकारस्य संयोगान्तत्वात् लोपः भसंज्ञायां वसोः संप्रसारणे "संप्रसारणाच्च'' इति पूर्वत्वे परस्य (आसेदुष इत्यादि), सम्प्रसारणविषये नेडागमः प्रवर्तते पश्चात् निमित्तविघातो भविष्यतीति, हलादौ "वसुस्त्रंस्त्रु'' इत्यादिना दत्वे ( आसेदिवद्भ्यामिति परिषत् ) परिषत् ) "सत्सूद्विष''इति क्किप् पर्षच्छब्दस्तु पृषोदरादित्वाद् परेरिकारलोपे, परिषदा कृतं (पारिषदम् ) ( सूत्रम्) कुलालादिभ्यो वुञ् (इति सूत्रम्) इति तेन कृतमिति विषये वुञ् परिषद इदं (पारिषदम्) "पत्राध्वर्युपरिषदश्च''इति तस्येदमर्थे ञः (परिषद्वलः) "रजःकृष्यासुतिपरिषदो वलच्''इति मत्वर्थे वलच् परिषदं समवैति, तत्र साधुर्वा(परिषद्यः) ( सूत्रम्) परिषदो ण्यः (इति सूत्रम्) इति योगाभ्यां समावैति तत्र साधुरिति विषये ण्यः एकदेशविकृतस्यानन्यत्वात् कृतेकारलोपस्याप्येते प्रत्यया भवन्ति तथा च भाष्ये "एवोङ्'' इत्यत्र पार्षदकृतिरेषा तत्र भवतामिति, तथा सम्प्रति पर्षद्वलोक्तमिति भारते वलच् भट्टिकाव्ये पर्षद्वल इति वलच् दृश्यते (दिविषत् ) पूर्ववत् क्किप्, "तत्पुरुपे कृति बहुलम्''इति अलुक् सुषामादिपाठात षत्वम् बहुलग्रहणात् लुकि (द्युसत्) "दिव उत्''इति पदत्वे उत्वम् (सदः सादः ) निषीदत्यस्मिन् पापमिति (निषादः) "हलश्च''इति अधिकरणे घञ् "उपसर्गस्य घञि''इति दीर्घस्तत्रैव"अमनुष्य'' इति प्रतिषेधाच्च भवति निषादस्यापत्यं, (नैषादकिः), "अत इञ्'' "सुधातृव्यासवरुडनिषाद'' इति अकङादेशः (सद्रः ) "दाधेट्सिशदसदौ रुः'' इति तच्छीलादौ रुः (निषद्या ) "संज्ञायां समज'' इत्यादिना स्रियामकर्त्तरि क्यप् (सदः) असुन् सत्रं, "गृधुहवपचिवचियमिसदिभ्यश्च'' इति ज्ञप्रत्ययः पापं चिकीर्षति, (सत्रायते ) "सत्रकक्ष'' इत्यादिनाकण्वचिकीर्षायां, क्यङ् कण्वं पापं, सत्रादयो वृत्तिविषये पापाथां इत्युक्तम् ( निषद्वरः कामकर्दमौ, ) "नौ सद'' इति वरच् (सह्म) मनिन् सूकरसह्मन इमे (सौकरसज्ञाः) "नान्तस्य टिलोपः'' इत्यादिना अन्निति प्रकृतिभावापवादः टिलोपः ( सादिः ) "वपिवदिराजिधृषिसहिनिवाशिषदिवृञ्भ्यः'' इतीञ् प्रत्ययः अयं तुदादावपि उभयत्र पाठे प्रयोजनं उञ्छतिवन्नेयम् चुरादौ चायम् 839
षदॢँ षदॢ (अर्थः) विशरण, गति, अवसादनेषु
एवं धनपालः विसरणइत्यात्रेयमैत्रेयौ दुर्गश्च, शिति"पाघ्रा'' इत्यादिना सीदादेशः (सीदति) इत्यादि, अन्यत्र ( इत्यादि सर्वं भौवादिकवत् इह पाठे प्रयोजनं सीदति सीदन्तीति नुम्विकल्पः एवं तर्ह्येतेनैव रूपद्वये सिद्धे तत्रास्य पाठोऽनर्थक इति केचित् ज्वलितिकसन्तेभ्यो णार्थः सीद इति स्वरश्च भिद्यते, शपि सीदतीत्यत्र शप्तिपोः पित्त्वादनुदात्तत्वं धातुरुदात्तः शे तु प्रत्ययस्वरेणोदात्ते मध्योदात्तत्त्वम् 143
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
कृदन्तरूपमाला
Sanskrit1 {@“षदॢ विशरणगत्यवसादनेषु”@} 2 ज्वलादिः।
‘ज्वलादेश्च तुदादेश्च सीदेद् विशरणादिके।
पद्यतेरर्थ आसीदेद् आसादयति चाङि यौ।।’ 3 देवः।
“-- ‘विशमृशणुदप्रवेशामर्शक्षेपेषु षदॢ विशरणार्थः।’ इति च श्लोकधातु- पाठः।” इति पुरुषकारः।
सादकः-दिका, सादकः-दिका, सिषत्सकः-त्सिका, 4 सासदकः-दिका
5 सत्ता-सत्त्री, सादयिता-त्री, सिषत्सिता-त्री, सासदिता-त्री
इत्यादीनि समस्तान्यपि रूपाणि भौवादिकखदतिवत् 6 ज्ञेयानि।
7 निषीदन्-प्रतिसीदन्-न्ती, 8 9 निषादः, सादः-सदः, 10 प्रासादः, 11 उपनिषत्-परिषत्-शुचिषत्-द्युसत्-दिविषत्, 12 बृसी, 13 विषण्णः-विषण्णवान्, 14 निषिषत्सुः, 15 सेदिवान्, 16 सद्रुः, 17 निषद्या, 18 सादी, 19 सेदिः
20 सदः, 21 निषद्वरः, 22 सादिः, 23 24 सत्त्रम् इतीमानि विशेषरूपाणि।
01 (१८१४)
02 (१-भ्वादिः-८५४-सक। अनिट्। पर।)
03 (श्लो। १०८)
04 [[६। ‘लुपसद--’ (३-१-२४) इति भावगर्हायां यङ्। भावगर्हा = धात्वर्थे कुत्साविशिष्ट- त्वम्। गर्हितं सीदति सासद्यते। अयं यङ् ‘धातोरेकाचः--’ (३-१-२२) इति औत्सर्गिकयङोऽपवादः इति प्राञ्चः। नेति नव्याः।]]
05 [[७। धातोरनिट्त्वम्। दकारस्य चर्त्वेन तकारः। एवं तव्यदादिष्वपि।]]
06 (३३८)
07 [[८। शतरि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छ- धौशीयसीदाः’ (७-३-७८) इति सीद इति सर्वादेशः। ‘सदिरप्रतेः’ (८-३-६६) इति इणन्तादुपसर्गात् परस्य सदिसकारस्य षत्वे रूपमेवम्। ‘अप्रतेः’ इत्युक्तत्वात् प्रतिसीदन् इत्यत्र न षत्वम्। उपसर्गप्रकरणात् ‘नि’ इति कर्मप्रवचनीयस्य न षत्वम्।]]
08 [पृष्ठम्१३३६+ ३३]
09 [[१। ‘ज्वलितिकसन्तेभ्यः--’ (३-१-१४०) इति कर्तरि णः। निषादः वन्यजातिविशेषः। पक्षे पचाद्यचि सदः इत्यपि साधुः। माधवस्तु “निषीदत्यस्मिन् पापमिति निषादः। ‘हलश्च’ (३-३-१२१) इति अधिकरणे घञ्” इत्याह। संज्ञाऽत्रेति विशेषः।]]
10 [[२। ‘अकर्तरि च कारके संज्ञायाम्’ (३-३-१९) इत्यधिकरणे घञ्। प्रसीदन्ति धनिनो- स्मिन् इति प्रासादः धनिनां वासः। ‘उपसर्गस्य घञि--’ (६-३-१२२) इति ‘प्र’ इत्यस्य दीर्घः। संज्ञायामेव मनुष्यभिन्नेऽपि स्थले दीर्घः
\n\n अन्यत्र न
\n\n ततश्च ‘प्रसादः’ इत्यत्र न।]]
11 [[३। उप निषीदन्ति, उप निषादयन्ति वा इति उपनिषत्। स्त्रियां सम्पदादित्वात् (वा। ३-३-१०८) क्विपि षत्वे च रूपमेवम्। एवं परिषत् इत्यादयोऽपि। द्युसत्, दिविषत्, शुचिषत् इत्यादयस्तु ‘सत्सूद्विष--’ (३-२-६१) इत्यादिना क्विपि सम्पद्यन्ते। पर्षत् इति तु पृषोदरादित्वात् (६-३-१०९) परेरिकारलोपे साधुः। दिविषत् इत्यत्र ‘तत्पुरुषे कृति--’ (६-३-१४) इति सप्तम्या अलुक्। सुषामादित्वात् (८-३-९८) षत्वम्। ये स्त्रीलिङ्गशब्दाः संसत् इत्यादयः, ते सम्पदादिक्विबन्ताः
\n\n ये तु पुंंल्लिङ्गशब्दाः, ते ‘सत्सू--’ (३-२-६१) इति निष्पन्नाः इति वैयाकरणसम्प्रदायः।]]
12 [[४। ब्रुवन्तः सीदन्त्यस्यामिति बृसी = मुनीनामासनम्। पृषोदरादित्वात् ब्रुवच्छब्दस्य ‘बृ’ इत्यादेशः। सदेरधिकरणे डट्प्रत्ययः। टित्त्वात् स्त्रियां डीप्।]]
13 [[५। ‘रदाभ्यां--’ (८-२-४२) इति निष्ठातकारस्य धातुदकारस्य च नकारः। षत्वम्, णत्वं च।]]
14 [[६। सन्नन्तादुप्रत्ययः। ‘स्थादिष्वभ्यासेन चाभ्यासस्य’ (८-३-६४) इति पूर्वोत्तरखण्डयोः षत्वम्।]]
15 [[७। लिटः ‘भाषायां सदवस--’ (३-२-१०८) इति क्वसुप्रत्ययः
\n\n एत्वाभ्यासलोपः। ‘वस्वेकाच्--’ (७-२-६७) इतीडागमः।]]
16 [[८। ‘दाधेट्सिशदसदो रुः’ (३-२-१५९) इति तच्छीलादिषु कर्तृषु रुप्रत्ययः।]]
17 [[९। स्त्रियां ‘संज्ञायां समजनिंषद--’ (३-३-९९) इत्यादिना अकर्तरि क्यप्प्रत्ययः। निषद्या = वासस्थानम्।]]
18 [[१०। साधुकारिणि णिनिप्रत्ययः। सादी = अश्वस्योपरि स्थित्वा युघ्यमानः।]]
19 [[११। ‘सदादिभ्यो दर्शनात्’ (वा। ३-२-१७१) इति वचनात् भाषायां किप्रत्ययः। छन्दस्येवायम्। प्रत्ययस्य लिड्वद्भावात् एत्वाभ्यासलोपौ।]]
20 [[१२। औणादिकेऽसुन्प्रत्यये रूपम्। सदः सभा।]]
21 [[१३। ‘नौ सदेः’ (द। उ। ८-४८) इति वरच्प्रत्ययः। निषद्वरः = कामः, कर्दमश्च।]]
22 [[१४। ‘इण् अजादिभ्यः’ (वा। ३-३-१०८) इति इण्। सादिः अश्वस्थो योद्धा।]]
23 [पृष्ठम्१३३७+ २९]
24 [[१। औणादिके (द। उ। ८-८९) त्रप्रत्यये रूपम्। धातुदकारस्य चर्त्वेन तकारः। सत्त्रम् = यागविशेषः, अन्नशाला च।]]
1 {@“षदॢ विशरणगत्यवसादनेषु”@} 2 शतरि नुम्विकल्पे सीदन्ती-सीदती इति द्वे रूपे।
तदर्थमेव भौवादिकेषु पठि- तस्यास्यात्र तुदादौ पुनः पाठः।
‘स्वरार्थं पुनः पाठः’ इति केचित्।
केचिन्नै- वामुमत्र पठन्ति।
सर्वाण्यपि रूपाणि भौवादिकसीदतिवत् 3 बोध्यानि।
01 (१८१६)
02 (६-तुदादिः-१४२७। सक। अनि। पर।)
03 (१८१५)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
