| YouTube Channel

षड्रसः (SaDrasaH)

 
Wordnet
Sanskrit
Synonyms:
षड्रसः
noun
रसाणां षट्कम्।
"मधुरलवणतिक्तकषायाम्लकटवः इत्येते षड्रसाः सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
षड्रसः,
पुं,
(षट्प्रकारो रसः ।) मधुरादि-षट्प्रकाररसः यथा, --“मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।सन्तीति रसनीयत्वादन्नाद्ये षडमी रसाः
”एषां नामलक्षणे ।“मधुरं गौल्यमित्याहुरिक्ष्वादौ लक्ष्यते ।लवणस्तु पटुः प्रोक्तः सैन्धवादौ दृश्यते
तिक्तस्तु पिचुमर्द्दादौ व्यक्तमासाद्यते रसः ।कषायस्तुवरस्तूक्तः पूगीफलादिषु ।कटुस्तु क्षारसंज्ञः स्यान्मरीचादौ चेष्यते
”इति राजनिर्घण्टः
एषां गुणास्तत्तच्छब्दे द्रष्टव्याः