श्वित्रं (zvitraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishशब्दकल्पद्रुमः
Sanskritश्वित्रं, (श्वेतते इति । श्वित शौक्ल्ये +“स्फायितञ्चिवञ्चीति ।” उणा० २ । १३ । इतिरक् ।) श्वेतकुष्ठम् । तत्पर्य्यायः । कुष्ठम् २ ।वत्यमरः ॥
श्वेतम् ३ श्वेत्रम् । इति तट्टीका ॥
(यथा, भागवते । ७ । १ । १८ ।“शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् ।श्विनं न जातं जिहायां नान्धं विविशतुस्तमः ॥
”)अथ त्वगृष्टिसाम्यात् कुष्ठभेदत्वच्चात्रैव श्वित्र-माह ।“कुष्ठैकसम्भवं श्वित्रं किलासञ्चारुणं भवेत् ।निर्द्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ॥
”कुष्ठैकसम्भवं कुष्ठोन सह एकस्तुल्यः सम्भवोनिदानं यस्य तत् । श्वित्रस्य भेदानाह ।किलासं चारुणं भवेत् । श्वित्रमेव रक्तमांसा-श्रयात् किलासमरुणं भवेत् इत्यन्वयः । ननुकुष्ठस्य श्वित्रस्य को भेदः इत्यत आह । निर्दिष्ट-मपरिस्रावीति । श्वित्रमपरिस्रावि भवतिकुष्ठन्तु स्रावि अथच त्रिधातूद्भवसंश्रयमितित्रयो धातवो वातपित्तकफास्तेभ्यः पृथग्भूतेभ्यउद्भवो यस्य तत् । अथ च त्रयो धातवो रक्त-मांसमेदांसि संश्रयोऽधिष्ठानं यस्य तत् । कुष्ठंसान्निपातिकं सर्व्वधातुगतञ्च भवति इतिभेदः ॥
दोषभेदेन लक्षणभेदमाह ।“वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत् ।सदाहं रोमविध्वंसि कफाच्छेतं घनं गुरु ॥
सकण्डूकं क्रमात् रक्तं मांसमेदः स चादिशेत् ।वर्णेनैवेदमुभयं कष्टं तच्चोत्तरोत्तरम् ॥
”अरुणमीषल्लोहितम् । कमलपत्रवत् इत्यनेनमध्ये श्वेतभन्ते लोहितं बोधयति ।“घनं पुष्टं क्रमाद्रक्तं मांसमेदासु चादिशेत् ।”तथा च चरकः ।“अरुणं रक्तगे वाते ताम्रं पित्ते पलङ्गते ।श्वेतं श्लेष्मणि मेदःस्थे श्वित्रं कुष्ठं परं परम् ॥
”इति ॥
उभयं द्विविधमपि श्वित्रं वर्णेन ईदृगेव । अरुणंताम्रं श्वेतञ्च दोषभेदात् । द्विविधं दोषजंव्रणजञ्च । तथा च भोजः ।“श्वित्रञ्च द्विविधं विद्याद्दोषजं ब्रणजं तथेति ॥
”श्वित्रं साध्यमसाध्यमाह ।“अशुक्लरोमावहलमसंसृष्टं मिथो नवम् ॥
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ॥
”अवहलं तनु । अन्यच्च ।“गुह्यपाणितलौष्टेषु जातमप्यचिरन्तनम् ।वर्ज्जनीयं विशेषेण किलासं सिद्धिमिच्छता ॥
”मुह्य मेहनं भगञ्च । तलमत्र पादतलम् ।सुश्रुतेनान्ते जातमिति सामान्यतो निर्द्दिष्ट-त्वात् ॥
* ॥
अथ श्वित्रस्य चिकित्सा ।“विभीतकत्वङ् मलपूजटानांक्वाथेन कृत्वा गुडसंयुतेन ।अवल्गुजं बीजमपाकरोतिश्वित्राणि कृच्छ्राण्यपि पुण्डरीकम् ॥
”मलपूः कटुवरी । अवल्गुजः वाकुची ॥
१ ॥
“कुडवावल्गुजबीजं हरितालं तच्चतुर्थांशम् ।मनःशिला तालकार्द्धा गुञ्चाफलमग्निमूलञ्च ॥
मूत्रेण गवां पिष्टं सवर्णताकारकं श्वित्रस्या ।” २ ।“श्वित्रकुष्ठं व्रजत्यस्तं पक्षार्द्धेनाधिकेन वा ।गिरिकर्ण्याः सितायाश्च मूलेन परिलेपितम् ॥
”गिरिकर्णी नीलापराजिता । धन्वन्तरौतिलोके ॥
३ ॥
“काथः सवाकुचीचूर्णं धात्रीखदिरसारयोः ।शङ्खेन्दुकुन्दधवलं श्वित्रं संसेवितो हन्ति ॥
४ ॥
मथितेन पिबेच्चूर्णं काकोदुम्बरवल्गुर्जम् ।तैलाक्तं घर्म्मसेवी स्यात्तक्राशी श्वित्रहृद्भवेत् ॥
”मथितं निर्जलं विलोडितं दधि । तक्रं चतुर्थांशजलयुक्तं वस्त्रपुतं दधि ॥
५ ॥
“खदिरस्य पलान्यष्टौ सोमराज्याः पलद्वयम् ।त्रिफला पिचुमर्द्दश्च दारुदार्व्यथ पर्पटः ॥
पृथक् फलान् समुद्धृत्य सिंहिकायाः पलद्वयम्जलाढकद्वये साध्यं यावत् पादावशेषितम् ॥
क्वाथ्यमानञ्च मृद्वग्नौ घृतप्रस्थं विपाचयेत् ।चतुःपलं सोमराज्याः खदिरस्य पलं तथा ॥
पटोलमूलत्रिफलात्रायमाणा दुरालभा ।कषार्द्धं कटुकञ्चापि कार्षिकान् सूक्ष्मपेवितान् ॥
पलद्वयं कौषिकस्य शुद्धस्यात्र प्रदापयेत ।सिद्धं सर्पिरिदं श्वित्रं हन्यादम्भ इवानलम् ॥
अष्टादशानां कुष्ठानां परमं वै तथौषधम् ।सोमराजीघृतं नाम निर्म्मितं ब्रह्मणा पुरा ॥
लोकानामुपकाराय श्वित्रकुष्ठादिरोगिणाम् ॥
”इति सोमराजीघृतम् ॥
६ ॥
“महौषधं महामेदां निम्बपत्राणि सर्षपाः ।मनःशिला च सिन्दूरं पद्मवारिण्यवल्गुजम् ॥
हरिद्रे हरितालञ्च त्रिफला पीतगन्धकान् ।एतानि समभागानि विषार्द्धांशानि योजयेत् ॥
सर्पिषश्च पलान्य ष्टौ देवदारुरसं शुभम् ।हिगुणं त्रिगुणं क्षीरं गोमूत्रञ्च चतुर्गुणम् ॥
ताम्रपात्रे तु संस्थाप्य शनैर्म्मृद्वग्निना पचेत् ।चतुर्भागावशेषन्तु सकल्कमवतारयेत् ॥
अग्नौ क्षिप्तन्तु निःशब्दं जलमुक्तं विचक्षणः ।अभ्यङ्गपानयोगात्तदाशु सर्व्वान् गदान् जयेत्अष्टादशानां कुष्ठानां दद्रूणां श्वित्रिणां तथादुष्टनाडीषु मर्त्यानां स्राविणां कीटिनां तथा ।असृक्सावपरीता ये ये च त्यक्तभिषक्क्रियाःसर्व्वग्रहवियुक्तानां शीर्णाङ्गानां विशेषवः ॥
सर्व्वधातुगते कुष्ठे पतितभ्रूशिरोरुहम् ।घर्घराव्यक्तघोषाणां तथा सर्व्वाङ्गवातिनाम् ॥
पानेऽभ्यङ्गे तथा नस्ये वस्तिकर्म्मणि नित्यशः ।सप्तरात्रप्रयागेण सर्व्वकुष्ठानि नाशयेत् ॥
द्विसप्ताहप्रयोगेण पूर्णचन्द्रनिभाननः ।जातकेशनखश्मश्रुर्भाति षोडशवर्षवत् ॥
अनङ्गसहितं साक्षात् सर्व्वामयविनाशनः ।एतद्घृतं महाश्रेष्ठं भार्गवेणावतारितम् ॥
मनुष्याणां हितार्थाय सर्व्वव्याधिहरं परम् ।महामार्त्तण्डकमिदं घृतं सर्व्वामरार्च्चितम् ॥
७ ॥
इति भावप्रकाशः ॥
अपि च ।“धात्रीखदिरयोः क्वाथं पीत्वा च जम्बुसंयुतम् ।शङ्केन्दुधवलश्वित्रं हन्ति तूर्णं न संशयः ॥
”इति गारुडे १७५ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
