श्वस (zvasa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Yates
EnglishWilson
Englishधातुपाठः (Krishnacharya)
Sanskrit श्वस्
श्वस
प्राणने
अदादिः
अकर्मकः
सेट्
परस्मैपदी
श्वसिति
रुदादिः
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुप्रदीपः
Sanskritश्वसँ श्वस प्राणने
- श्वसिति । शश्वास । श्वसिता । अश्वसीत् । विश्वासः । श्वस्तः । श्वसितः । श्वसनः । क्षमूष् सहन इति घटादिपाठेनैव सिद्धे षित्त्वं ज्ञापकमनित्यं गणकार्य्यमिति तेन न विश्वसेत् पूर्वविरोधितस्येति शपो लुङ् न भवतीति व्याचक्षते । भट्टिकाव्ये च प्रयोगो दृश्दते-''आश्वसेयुर्निशाचराः'' इति ।। 60 ।।
शब्दकल्पद्रुमः
Sanskritश्वस, घ लु प्राणने । इति कविकल्पद्रुमः ॥
(अदा०पर०-अक०-सेट् ।) “वकारयुक्तादिः । घ लु, श्वसिति लोकः जीवतीत्यर्थः । आश्वसेयुर्निशा-चरान् । इति भट्टौ । न विश्वसेत् पूर्व्वविरो-धितस्येति । पञ्चतन्त्रे ।‘तविखसेदविश्वस्तं विश्वस्ते नातिविश्वसेत् ।’इत्यादौ च गणकृतमनित्यमिति न्यायात् शपःस्थितौ साध्यम् । अथवा हादेराकृतिगणत्वात्तत्र दष्टव्यम् । वस्तुतस्तु “पचादित्वादनि श्वसइवाचरतीति क्वौ साध्यम् ।” इति दुर्गादासः ॥
वाचस्पत्यम्
Sanskritक्षीरतरङ्गिणी
Sanskritश्वसँ श्वस प्राणने
-(अर्थविवरणम्) प्राणनं जीवनम्
इतो वष्ट्यन्ता (282) द्वादश सेटः श्वसिति अश्वसीत्, अश्वसत् लुङि-अतो हलादेर्लघोः (727) वा वृद्धिः-अश्वसीत्, अश्वासीत् श्याद्व्यध (31141) इति णः-श्वासः काशकृत्स्ना अस्य निष्ठायाम् अनिट्त्वमाहुः-आश्वस्तः, विश्वस्तः चलनशब्दार्थाद् (32148) युच् श्वसनः 57
धातुवृत्तिः
Sanskritश्वसँ श्वस (अर्थः) प्राणने
इतः प्रभृति शास्यन्ता उदात्ता उदात्तेतः ( श्वसिति, श्वसितः, श्वसन्ति, श्वसिषि, श्वसिमि ) "रुदादिभ्य'' इतीडागमः (शश्वास, शश्वसतुः, शश्वसिथ, शश्वस, शश्वास, शश्वसिव श्वसिता श्वसिष्यति श्वसितु, श्वसिहि, श्वसानि अश्वसीत्, अश्वसत्, अश्वसिताम्, अश्वसीः, अश्वसः, अश्वसम्, अश्वसिव, ) "रुदश्चपञ्चभ्यः'' "अङ्गार्ग्य'' इतीडटावपृक्तस्य ( श्वसेत्, श्वसेतां, श्वसेयुः, श्वसेः, श्वसेयम्, ) अत्र गणकार्यस्यानित्यत्वज्ञापनात् शपो लुङ् न भवति अनित्यत्वं च क्षमूषो घटादिपाठात् "घटादयिष्यत' इत्येव षित्वे सिद्धे पुनष्षित्करणात् ज्ञायते, एवं च "न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्' न विश्वसेत्पूर्वविरोधितस्य' "आश्वसेयुर्निशाचराः' "प्रत्ययादाश्वसन्त्य' इत्यादयः प्रयोगा उपपद्यन्ते (अश्वस्यात्) इत्याद्यपि भवति आशिषि, (श्वस्यात्, श्वस्यास्ताम्) इत्यादि (अश्वसत्, अश्वसिष्टाम्, अश्वसीः, अश्वसिषम्) "ह्म्यन्तक्षणश्वस'' इति "अतो हलादेः'' इति वृद्धिनिषेधः ( शिश्वसिषति शाश्वस्यते शाश्वसीति, इत्यादि रुदिवत् ( श्वासयति अशिश्वसत् श्वसनः ) नन्द्यादित्वाल्ल्युः ( श्वासः ) "श्याद्व्यध'' इत्यादिना णः कर्तरि (आश्वस्तः) निष्ठायामिटं नेच्छन्ति काशकृत्स्ना इति स्वामिकाश्यपौ "आदितश्च'' इत्यत्र वृत्तिकारश्च "चकारस्यानुक्तसमुच्चयार्थत्वाद् अनिट्त्वम्' इति आत्रेयमैत्रेयौ तु आश्वसित इतीटं चाहतुः 59
कृदन्तरूपमाला
Sanskrit1 {@“श्वस प्राणने”@} 2 ‘प्रत्ययादा 3 श्वसन्त्यः’, 4 श्वासः, 5 श्वसनः, 6 आश्वस्तः-आश्वसितः।
इतराणि सर्वाण्यपि रूपाणि आदादिकास्तिवत् 7 बोध्यानि।
01 (१८०२)
02 (२-अदादिः-१०६९। अक। सेट्। पर।)
03 [[१। अत्र नुम् न शास्त्रसम्मतः। परं तु ‘गणकार्यमनित्यम्’ (परि। ९६) इति साधयन्ति। एवं ‘न विश्वसेदविश्वस्तं विश्वस्ते नातिविश्वसेत्’ ‘न विश्वसेत् पूर्वविरोधितस्य’ इत्याद्यपि भौवादिकवत् रूपाणि गणकार्यस्यानित्यत्वेन साधयन्ति। परे तु ‘प्रत्ययादाश्वसत्यः’ इत्येव नुम्रहितं पाठमादृत्य, ‘विश्वसेत्’ इत्यादि- स्थलेषु आर्षत्वात् समाधानं च वदन्ति।]]
04 [[२। ‘श्याऽऽद्व्यधास्रुसंस्रवतीणवसावहृलिहश्लिषश्वसश्च’ (३-१-१४१) इति कर्तरि]]
05 [[३। नन्द्यादित्वात् कर्तरि ल्युप्रत्ययः। श्वसनः = वायुः।]]
06 [[४। ‘आदितश्च’ (७-२-१६) इत्यत्र चकारस्यानुक्तसमुच्चयार्थकत्वात् ‘आश्वस्तः’ णप्रत्ययः। इत्यत्रापि अनिट्त्वम्--इति काशिका। “निष्ठायामिटं नेच्छन्ति काशकृत्स्नाः’ इति स्वामिकाश्यपौ। आत्रेयमैत्रेयौ तु ‘आश्वसितः’ इतीटं चाहतुः” इति धातुवृत्तिः। अतश्चोभयथाऽप्यस्माभिः प्रदर्शितं रूपम्।]]
07 (५२)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
