| YouTube Channel

श्लिष (zliSa)

 
Wilson
English
श्लिष r. 4th cl. (ञि ओऌ) श्लिषॢ (श्लिष्यति) r. 1st and 10th
cls. (श्लेषति श्लेषयति)
1 To embrace.
2 To adhere or cling to.
3 To unite, to join or connect. (उ) श्लिषु r. 1st cl. (श्लिपति) To
burn.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
श्लिष्
मूलधातुः:
श्लिष
धात्वर्थः:
आलिङ्गने
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
श्लिष्यति
अनुबन्धादिविशेषः:
पुषादिः
धातुः:
श्लिष्
मूलधातुः:
श्लिष
धात्वर्थः:
श्लेषणे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
श्लेषयति-ते
धातुप्रदीपः
Sanskrit
श्लिषँ श्लिष आलिङ्गने
- श्लिष्यति शिश्लेष श्लेष्टा श्लेक्ष्यति अश्लिक्षत् कन्याम् (19) समाश्लिषज्जतु काष्ठम् व्यत्यश्लिक्षत विश्लेषः 80
श्लिषँ श्लिष आलिङ्गने
- श्लेषयति 42
शब्दकल्पद्रुमः
Sanskrit
श्लिष, दाहे इति कविकल्पद्रुमः
(भ्वा०-पर०सक०-सेट् क्त्वावेट् ।) अन्तःस्थतृतीययुक्तः ।उ, श्लेषित्वा श्लिष्ट्वा इति दुर्गादासः
श्लिष, ञि श्लषे इति कविकल्पद्रुमः
(दिवा०-पर०-सक०-अनिट् ।) अन्तःस्थतृतीय-युक्तादिः श्लेष्टा य, श्लिष्यति ऌ, अश्लिषत् आलिङ्गने तु अश्लिक्षत् ञि श्लिष्टो-ऽस्ति श्लेष आलिङ्गनम् तच्च बाहुभ्यामेवरूढम् श्लिष्यति कामपीति जयदेवः प्राप्ता-वप्ययम् श्लिष्यति वृक्षं लता इति दुर्गा-दासः
श्लिष, श्लेषे इति कविकल्पद्रुमः
(चुरा०-पर०सक०-सेट् ।) अन्तःस्थतृतीययुक्तः क, श्लेष-यति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
श्लिष दाहे
भ्वा०
पर०
सक०
सेट् उदित् क्त्वा वेट् श्लेषति श्लेषीत्
श्लिष आलिङ्गने संसर्गे
सक०
दि० अनिट् श्लिष्यतिऌदित् अश्लिषत् आलिङ्गने तु अश्लिक्षत्
श्लिष श्लेषणै
चु०
उभ०
सक०
सेट् श्लेषयति ते अशिश्लेषत्
क्षीरतरङ्गिणी
Sanskrit
श्लिषँ श्लिष आलिङ्गने
- श्लिष्यति, अश्लिषत् श्लिष आलिङ्गने (3146) श्लिषः प्राण्याश्लेष एव च्लेः क्सः-आश्लिक्षत् कन्याम्, नेह समाश्लिषज्जतु काष्ठं श्लेष्टा श्याद्व्यध (31141) इति णः-श्लेषः गत्यर्थाकर्मक (3472) इति क्तः[कर्तरि]-आश्लिष्टः कन्यां चैत्रः श्लिषरेच्चोपधायाः (उ0 3 19)-श्लक्ष्णम् मनिन् (द0 उ0 673)-श्लेष्मा भ्वादौ (1463) दाहार्थः-श्लेषति चुरादौ श्लिष श्लेषणे (1033)-श्लेषयति 74
श्लिषँ श्लिष श्लेषणे
- श्लेषयति भ्वादौ (1463) श्लेषति, दिवादौ (477) श्लिष्यति 37
धातुवृत्तिः
Sanskrit
श्लिषँ श्लिष (अर्थः) आलिङ्गने
( श्लिष्यति शिश्लेष श्लेष्ट श्लेष्यति श्लिष्यतु अष्लिष्यत् श्लिष्येत्, श्लिष्यात् ) लिङौ ( अश्लिक्षत् कन्यां देवदत्तः ) "श्लिष आलिङ्गने'' इति अङपवादः क्सः आलिड्गनं परिष्वङ्गः अन्यत्र पुषादित्वादङ्, समश्लिषज्जतु काष्ठम् इति अथात्मनेपदेषु कथं भवितव्यम्, समाश्लेषि कन्या देवदत्तेन समाश्लिक्षातां समाश्लिक्षन्त इति "शल इगुपधात्'' इति क्सो भविष्यति एकवचने तु परत्वाच्चिण् यद्येवमनालिङ्गनेऽपि क्सः प्राप्नोति, इष्यते सिच् समश्लिक्षत जतूनि काष्ठैरिति एवं तर्हि"श्लिषः क्सः'' इति योगविभागः अयं पुरस्तादपवादन्यायेन अङं बाधते, चिणम् तत "आलिङ्गने'' इति द्वितीयः नियमार्थमिदं वचनम् अनेन योगविभागसामर्थ्यात् "श्लिष'' इति वा "शल इगुपधात्'' इति वा क्सस्य या प्राप्तिः सा सर्वा नियम्यते आलिङ्गन एवेति तेन अनालिङ्गने परस्मैपदात्मनेपदयोः यथायोगमङ्सिचावेव भवतः ( श्लेष्मा, ) मनिम् श्लेषतीति, शपि 78
श्लिषँ श्लिष (अर्थः) श्लेषणे
( श्लेषयति अशिश्लिषत् ) श्लेषतीति दाहे शपि श्लिष्यतीत्यालिङ्गने श्यनि 40
कृदन्तरूपमाला
Sanskrit
1 {@“श्लिष आलिङ्गने”@} 2 ‘श्लिष्यत्यालिङ्गने, दाहे श्लेषति श्लेषते, णिचि।।
श्लेषयेत्--’ 3 इति देवः।
आश्लेषः--नक्षत्रविशेषः, आलिङ्गनं च।
संज्ञायां, करणे वा घञ् अत्र।
आश्लेषी--णिनिः।
4 श्लेषः--अलंकारविशेषः।
आश्लिष्टः कन्यां देवदत्तः
‘गत्यर्थाकर्मक--’ 5 इत्यादिना कर्तरि क्तः।
श्लेष्मा--औणादिकः 6 मनिन्प्रत्ययः।
रोगविशेषस्य, तज्जनक- शारीरकपदार्थविशेषस्य नाम।
इतराणि सर्वाण्यपि रूपाणि दैवादिक- तुष्यतिवत् 7 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७८६)
02
=>
(४-दिवादिः-११८६। सक। अनि। पर।)
03
=>
(श्लो। १७५-६)
04
=>
[[१। ‘श्याद्व्यधाश्रुसंस्रूवतीणवसावहृलिहश्लिष--’ (३-१-१४१) इति कर्तरि णप्रत्ययः।]]
05
=>
(३-४-७२)
06
=>
(द। उ। ६-७३)
07
=>
(७५८)
1 {@“श्लिष श्लेषणे”@} 2 सर्वाण्यपि रूपाणि चौरादिककीटयतिवत् 3 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७८७)
02
=>
(१०-चुरादिः-१५७४। सक। सेट्। उभ।)
03
=>
(१९४)