| YouTube Channel

श्रौतः (zrautaH)

 
शब्दकल्पद्रुमः
Sanskrit
श्रौतः, त्रि, (श्रुतौ भवः श्रुति + अण् ।) श्रुति-विहितधर्म्मादिः यथा, --“धर्मज्ञैर्विहितो धर्म्मः श्रौतः स्मार्त्तो द्विधा द्विजैःदानाग्निहोत्रसम्बन्धमिज्या श्रौतस्य लक्षणम्
स्मार्त्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः ।पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्षयोऽब्रुवन्
ऋचो यजूंषि सामानि ब्रह्मणोऽङ्गानि सा श्रुतिःमन्वन्तरस्यातीतस्य स्मृत्वा तन्मनुरब्रवीत्
ततः स्मार्त्तः स्मृ तो धर्मो वर्णाश्रमविभागशः ।एवं वै द्विविधो धर्म्मः शिष्टाचारः उच्यते
इज्यावेदात्मकः श्रौतः स्मार्त्तो वर्णाश्रमात्मकः
इति मात्स्ये १२० अध्यायः
अपि अधिकरणमालाकृन्माधवाचार्य्य-धृतपराशरभाष्ये शातातपः ।“श्रौतं कर्म्म स्वयं कुर्य्यादन्योऽपि स्मार्त्तमाचरेत्अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारमन्ततः
”इति तिथ्यादितत्त्वम्