| YouTube Channel

श्रीः (zrIH)

 
Chandas
Sanskrit
सम-वृत्तम्,
अक्षराणि-
4,
पादेऽक्षराणि-
1
मात्राः - 2
मात्रा-विन्यासः
दा
लक्षणम् - श्रीः
लक्षण-मूलम् - वृत्तरत्नाकरः
उदाहरणम् - श्रीस्तत्तैलम्‌
सम-वृत्तम्,
अक्षराणि-
44,
पादेऽक्षराणि-
11
मात्राः - 16
सङ्ख्याजातिः - त्रिष्टुभ्
मात्रा-विन्यासः
दा दा दा। दा दा
यतिः -
लक्षणम् - पञ्चरसैर्श्रीर्भतनगगैः स्यात्‌ ४१ पंचभिः षड्भिर्यतिर्यथा कुड्मलदंतीत्येके
लक्षण-मूलम् - वृत्तरत्नाकरः
उदाहरणम् - द्रव्यविमोहाज्जलनिधियानं संगरभूमौ त्यजति देहम्‌ कृत्यमकृत्यं गणयति नैव श्रीरसलुब्धो ध्रुवमिह जन्तुः ४१
Hindi
Hindi
धन
Wordnet
Sanskrit
Synonyms:
रुक्मिणी, ईः, रमा, सिन्धुजा, सामा, चला, हीरा, चठ्चला, वृषाकपायी, चपला, इन्दिरा, लक्ष्मीः, पदमालया, पद्मा, कमला, श्रीः, हरिप्रिया
noun
कृष्णस्य राज्ञी वैदर्भपुत्री च।
"रुक्मिणेः गर्भात् प्रद्युम्नः जातः।"
Synonyms:
सरस्वती, प्रज्ञा, भारती, वागीश्वरी, वाग्देवी, वीणावादिनी, शारदा, हंसवाहिनी, गिरा, इला, ब्राह्मी, इरा, ज्ञानदा, गीर्देवी, ईश्वरी, वाचा, वचसामीशा, वर्णमातृका, गौः, श्रीः, वाक्येश्वरी, अन्त्यसन्ध्येश्वरी, सायंसन्ध्यादेवता, गौरी
noun
विद्यायाः वाण्यः अधिष्ठात्री देवता।
"सरस्वत्याः वाहनं हंसः अस्ति।"
Synonyms:
धनम्, वित्तम्, विभवः, अर्थः, वैभवम्, सम्पत्तिः, द्रविणम्, द्रव्यम्, राः, रिक्थम्, ऋक्थम्, हिरण्यम्, द्युम्नम्, स्वापतेयम्, भोग्यम्, घसु, स्वापतेयम्, वसु, द्युम्नम्, काञ्चनम्, लक्ष्मीः, सम्पत्, वृद्धिः, श्रीः, व्यवहार्यम्, रैः, भोगः, स्वम्, रेक्णः, वेदः, वरिवः, श्वात्रम्, रत्नम्, रयिः, क्षत्रम्, भगः, मीलुम्, गयः, द्युम्नः, इन्द्रियम्, वसु, रायः, राधः, भोजनम्, तना, नृम्णम्, बन्धुः, मेधाः, यशः, ब्रह्म, श्रंवः, वृत्रम्, वृतम्
noun
सुवर्णरुप्यकादयः।
"साधु कार्यार्थे एव धनस्य वियोगः करणीयः।"
Synonyms:
लक्ष्मीः, रमा, कमला, नारायणी, पद्महस्ता, श्रीः, विष्णुप्रिया, मा, माया, हरिप्रिया, पद्मा, पद्मालया, भार्गवी, चञ्चला, इन्दिरा, अब्जवाहना, अब्जा, अब्धिजा, अम्बुजासना, अमला, ईश्वरी, देवश्री, पद्ममालिनी, पद्मगुणा, पिङ्गला, मङ्गला, श्रिया, श्रीप्रदा, सिन्धुजा, जगन्मयी, अमला, वरवर्णिनी, वृषाकपायी, सिन्धुकन्या, सिन्धुसुता, जलधिजा, क्षीरसागरसुता, दुग्धाब्धितनया, क्षीरसागरकन्यका, क्षीरोदतनया, लोकजननी, लोकमाता
noun
धनस्य अधिष्ठात्री देवता या विष्णुपत्नी अस्ति इति मन्यते।
"धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।"
Synonyms:
कमलम्, अरविन्दम्, सरसिजम्, सलिलजम्, राजीवम्, पङ्कजम्, नीरजम्, पाथोजम्, नलम्, नलिनम्, अम्भोजम्, अम्बुजन्म, अम्बुजम्, श्रीः, अम्बुरुहम्, अम्बुपद्मम्, सुजलम्, अम्भोरुहम्, पुष्करम्, सारसम्, पङ्कजम्, सरसीरुहम्, कुटपम्, पाथोरुहम्, वार्जम्, तामरसम्, कुशेशयम्, कञ्जम्, कजम्, शतपत्रम्, विसकुसुमम्, सहस्रपत्रम्, महोत्पलम्, वारिरुहम्, पङ्केरुहम्
noun
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्ति ख्यातश्च।
"बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।"
शब्दकल्पद्रुमः
Sanskrit
श्रीः,
स्त्री,
(श्रयतीति श्रि + “क्विप्वचिप्रच्छीति ।”उणा० ५७ इति क्विप् दीर्घश्च ।) लक्ष्मीः(यथा, विष्णुपुराणे १३ ।“श्रियञ्च देवदेवस्य पत्नी नारायणस्य या
”लवङ्गम् इत्यमरः
वेशरचना शोभा ।(यथा, रामायणे ९४ १० ।एवमादिभिराकीर्णः श्रियं पुष्यत्रयं गिरिः
”)सरस्वती सरलवृक्षः त्रिवर्गः सम्पत्तिः ।(यथा, --“न दातुं नोपभोक्तुं वा शक्नोति कृपणःश्रियम्
”)विधा डपकरणम् विभूतिः मतिः इतिमेदिनी
अधिकारः प्रभा कीर्त्तिः इतिधरणिः
वृद्धिः सिद्धिः इति शब्दरत्नावली
वृत्तार्हन्माता इति हेमचन्द्रः
कमलम् ।विल्ववृक्षः वृद्धिनामौषधम् इति राज-निर्घण्टः
*
देवादिनाम्नः पूर्व्वं श्रीशब्द-प्रयोगः कर्त्तव्यः यथा, --“देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् ।सिद्धं सिद्धाधिकारांश्च श्रीपूर्व्वं समुदीरयेत्
”इति राघवभट्टधृतप्रयोगसारदर्शनात् स्वर्ग-गामित्वादिना सिद्धोऽधिकारो येषां नराणांइत्यनेन जीवतां श्रीशब्दादित्वं नाम्रः तुमृतानां तथेति शिष्टाचारः इति संस्कार-तत्त्वम्
*
पत्रपृष्ठे श्रीशब्ददानप्रमाणं पत्र-शब्दे द्रष्टव्यम्
(एकाक्षरच्छन्दोविशेषः ।यथा छन्दोमञ्जर्य्याम् “ग्श्रीः ।” उदा-हरणम् “श्रीस्ते [सास्ताम्
”)
श्रीः,
पुं,
(श्रि + क्विप् दीर्घश्च ।) रागविशेषः सतु हनुमन्मते षड्रागान्तर्गतपञ्चमरागः ।पृथिव्या नाभितो निर्गतः अस्य जातिःसम्पू र्णा तस्य स्वरावलिः धनि अस्य गृहं षड्जस्वरः हेमन्तर्त्तौ अप-राह्णे गानसमयः रागमालायां अस्याकारः ।सुन्दरपुरुषः शुक्लवस्त्रपरीधानः मतान्तरेरक्तवस्त्रपरीधानः स्फाटिकपद्मरागमणि-मालागलः पद्मपुष्पहस्तः विचित्रसिंहा-सनारूढः अस्य संमुखे गायन्ति गायकाः
हनुमन्मते अस्य भार्य्याः पञ्च यथा प्रथमामालश्रोः [तस्याः सम्पूर्णजातिः अस्याःस्वरावलिः नि अस्या गृहंषड्जस्वरः हिमर्त्तौद्वितीयप्रहरदिवसे गान-समयः रागमालायां तस्याः स्वरूपम् रक्त-वर्णा स्त्री कोमलाङ्गी पीतवस्त्रपरीधाना ।कौतुकाद्भ्रमन्ती सती नायकादभिन्ना सखी-गणेन सह हास्ययुक्ताम्रतरुतलोपविष्टा
द्वितीया मारवा अथवा मालवा अस्याःषाडवजातिः अस्याः स्वरावलिः गम नि अस्या गृहं षड्जस्वरः हिमर्त्तौशेषवेलायां गानसमयः रागमालायां तस्याःस्वरूपं यथा स्वर्णवस्त्रपरीधाना पुष्पमाल्य-धरा नायकमेलनार्थमेकाकिनीसङ्केतस्थानोप-विष्टा
तृतीया धनाश्रीः अस्याः षाडव-जातिः अस्याः स्वरावलिः नि ऋग गृहं षड्जस्वरः हिमर्त्तौ द्वितीयप्रहर-दिवसे शेषवेलायां वा गानसमयः राग-मालायां तस्याः स्वरूपम् वियोगिनी नारी ।रक्तवस्त्रपरीधाना वियोगजसन्तापेन दुःखि-तातिकृशा एकाकिनी रोरुद्यमाना बकुल-तरुतलोपविष्टा
चतुर्थी वसन्तरागिणी ।अस्याः सम्पूर्णा जातिः अस्याः स्वरावलिः ।ष नि अस्या गृहं षड्जस्वरः ।हिमर्त्तौ मध्याह्ने वसन्तर्त्तौ दिवा मात्रे गान-समयः रागमालायां तस्याः स्वरूपम् ।सुन्दरपुरुषाकृतिः कस्यचिन्मते श्यामवर्णा ।रक्तवसना मयूरपुच्छशिखा आम्रमुकुल-हस्ता यौवनमदनमदमत्ता पुष्पमाल्यगल-देशा पुष्पोद्याने सह नर्त्तकीसुस्वरगायनीभिःसुखेन रागरङ्गयुता वामहस्तधृतताम्बूल-वीटिका स्त्रीगणसहितहास्यकौतुकक्रीडा-नृत्यगीतवाद्यासक्ता रागमालान्तरे उक्तगुणं-युक्ता श्रीकृष्णमूर्त्तिसदृशमूर्त्तिर्लिखिता
पञ्चमी आशावरी अस्या औडवजातिः ।अस्याः स्वरावलिः नि अस्याःगृहं धैवतस्वरः हिमर्त्तौ द्वितीयप्रहरदिवसेगानसमयः रागमालायां अस्याः स्वरूपम् ।श्यामवर्णा स्त्री कोमलाङ्गी श्वेतशाटीपरि-धाना कर्पूरानुलेपना हस्तपदयोर्बृहत्सर्प-वेष्टिता केशैर्बद्धचूडा जलमध्यस्थपर्वतगुहा-यामुपविष्टा रागमालान्तरे उक्तगुणयुक्तावृक्षपत्रबद्धकटिदेशा नग्ना लिस्विता
*
अस्य पुत्त्रा अष्टौ यथा सिन्धुः मालवः २गौँडः अथवा गोण्डः अस्य स्थाने केचित्कल्याणः इति केचिच्च हामीर इति पठन्ति ।नुण सागरः कुम्भः गम्भीरः शङ्करःअथवा आगडः विहागरः
*
कल्लि-नाथमते श्रीरागः प्रथमरागः अस्य भार्य्या षट् ।यथा गौरी गौलाहली धवली ३रुद्राणी मालकौश अर्थात् कौशिकी देव-गान्धारी तन्मते पुत्त्रा अष्टौ हनुमन्मत-तुल्याः किन्तु गौँडशङ्करविहागरस्थानेकल्याण आगडा विगडा लिखिताः
*
सोमेश्वरमतेऽपि प्रथमरागोऽयम् अस्यरागिण्यः षट् यथा मालवी अथवा मरवा १त्रिवेणी अथवा तिरवनी गौरी केदारा ४मधुमाधवी पाहाडिका अथवा पाहाडी ।अस्य पुत्त्राः पूर्व्वोक्तमतद्वयतुल्याः तन्मतेअस्य रागस्य रागिणीसहितस्य शिशिरर्त्तौगानममयः
*
भरतमते पञ्चमरागोऽयम् ।अस्य रागिण्यः पञ्च यथा सिन्धुवी काफी२ ठुमरी पूर्व्वदेशे विस्तार इति ख्याता ।विचित्रा शिरहटी अथवा सोरहठी ५तन्मते अस्याष्ट पुत्त्राः यथा श्रीरमणः १कोलाहलः सामन्तः शङ्करणः राके-श्वरः खटरागः वडहंसः देशकारः ।तेषां भार्य्या यथा विय्या धाय्या कुम्भा ३सुहनी शरदा क्षेमा शशरेखा सुर-सती इति नानासङ्गीतशास्त्रतः संगृही-तम्