| YouTube Channel

श्रवणं (zravaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
श्रवणं,
क्ली,
(श्रूयतेऽनेनेति श्रु + करणे ल्युट् ।)कर्णः इत्यमरः
स्त्रियां श्रवणः कर्णः ।इति हेममाली इति तट्टीकायां भरतः
षण्मासाभ्यन्तरे श्रवणयोश्छिद्रं भवति इतिसुखबोधः
श्रुतिः सा तु कर्णेन्द्रियज्ञानम् ।इति मेदिनी
शोना इति भाषा
(यथा, मनुः ७४ ।“समक्षद्रर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति
”तत्तु नीतिशास्त्रोक्तधीगुणानामन्यतमम् यथा, कामन्दकीये २२ ।“शुश्रूषा श्रवणञ्चैव ग्रहणं धारणं तथा ।ऊद्वोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणाः
”)वड्विधलिङ्गैरशेषवेदान्तानामद्वितीये वस्तुनितात्पर्य्यावधारणम् लिङ्गानि तु उपक्रमोप-संहाराभ्यासापूर्व्वता फलार्थवादोपपत्त्या-ख्यानि इति वेदान्तसारः