| YouTube Channel

श्रथि (zrathi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
श्रन्थ्
मूलधातुः:
श्रथि
धात्वर्थः:
शैथिल्ये
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
श्रन्थते
धातुप्रदीपः
Sanskrit
श्रथिँ श्रथि शैथिल्ये
- श्रन्थते श्रन्थ्यते शश्रन्थे शश्रन्थाते अशश्रन्थत् शाश्रन्थ्यते ।। 34 ।।
क्षीरतरङ्गिणी
Sanskrit
श्रथिँ श्रथि शैथिल्ये
(अर्थविवरणम्) शैथिल्यमगाढता
श्रन्थते, श्रन्थेश्चेति वक्तव्याद् (काशिका 64122) एत्वाभ्यसलोपौ स्तः, तत्र हि श्रन्थिरूपोपादानेन श्रन्थ ग्रन्थ सन्दर्भे (तु0945) इत्यस्य ग्रहणम् - शश्रन्थे, अन्येऽत्राप्याहुः इदित्त्वादनुनासिकलोपाभावः, श्रेथे इति तूदाहरन् वृत्तिकृद् भ्रान्तः नोपधात् थफान्ताद् वा (1223) इति क्त्वा वा कित् - श्रन्थित्वा, श्रथित्वा शिथिलः (द्र0उ0153) श्लथः 34
धातुवृत्तिः
Sanskrit
श्रथिँ श्रथि (अर्थः) शैथिल्ये
(अर्थविवरणम्) शैथिल्यं विश्लिष्टता गाधता
इदित्त्वं नुमर्थम् अत एव किति नलोपाभावः ( श्रन्थते शश्रन्थे श्रन्थिष्यते श्रन्थिता अश्रन्थत श्रन्येत् आशिषि श्रन्थिषीष्ट अश्रन्थिष्ट अश्रन्थिष्यत) भावे ( श्रन्थ्यते ) इत्यादि ( शिश्रन्थिषते शाश्रन्थ्यते शाश्रन्थीति शाश्रन्थि ) "खरि च'' इति चर्त्वं लङि तिप्सिपोर्हल्ङयादिलोपे संयोगान्तलोपे ( अशाश्रन्श्रन्थयति श्रन्थयते अशश्रन्थत् श्रन्था )"गुरोश्च हलः'' इत्यकारः, "ण्यासश्रन्थो युच्'' इत्यत्र लाक्षणिकत्वान्नास्य ग्रहः ( प्रश्रथः हिमश्रथः ) "अवोदैधोह्मप्रश्रथहिमश्रथाः'' इति घञि नलोपवृद्धयभावयोर्निपातनम् गणान्तरपठितस्य वा निपातनम् श्रन्थ विमोचनप्रतिहर्षयोरिति क्रयादिः श्रान्थ ग्रन्थ सन्दर्भ इति च, इमावाघृषीयावपि, श्राथ प्रयत्न इति चुरादिः दौर्बल्ये कथादिराघृषीयो मोक्षणे 35
कृदन्तरूपमाला
Sanskrit
1 {@“श्रथि शैथिल्ये”@} 2 3 प्रश्रथः, हिमश्रथः, 4 श्रन्था।
इतराणि सर्वाण्यपि रूपाणि भौवादिककन्दतिवत् 5 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७६९)
02
=>
(१-भ्वादिः-३५। अक। सेट्। पर।)
03
=>
[[१। ‘अवोदैधौद्मप्रश्रथहिमश्रथाः’ (६-४-२९) इति घञि निपातनात् नलोपः, वृद्ध्यभावश्च। हिमं श्रथ्यतेऽस्मात् इति हिमश्रथः = चन्द्रः।]]
04
=>
[[२। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्ययः। ‘ण्यासश्रन्थः--’ (३-३-१०७) इति युच् तु क्रैयादिकश्रन्थधातोरिति माधवादयः।]]
05
=>
(१६३)