| YouTube Channel

शोणृ (zoNR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शोण्
मूलधातुः:
शोणृ
धात्वर्थः:
वर्ग-गत्योः
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
शोणति
धातुप्रदीपः
Sanskrit
शोणृँ शोणृ वर्णगत्योः
- शोणति अशुशोणत् ।शोणा शोणी ।। 454 ।।
क्षीरतरङ्गिणी
Sanskrit
शोणृँ शोणृ वर्ण, गत्योः
- शोणति शोणो लोहितः शोणितं रुधिरम् गतौ-शोणो नदः 441
धातुवृत्तिः
Sanskrit
शोणृँ शोणृ (अर्थः) वर्ण, गत्योः
शोणति शुशोण शोणिता शुशोणिषति शोशोण्यते शोशोण्टि शोणयति अशुशोणत् शोणितम् शोणः शोणी शोणा ) "शोणात्प्राचाम्''इति वा ङीष् 551
कृदन्तरूपमाला
Sanskrit
1 {@“शोणृ वर्णगत्योः”@} 2 ‘-- वर्णे’ इति चन्द्रः।
‘गते वर्णे’ इति वोपदेवः।
‘--वर्णगत्योः रागे गतौ च’ इति काशकृत्स्नः।
3 शोणकः-णिका, शोणकः-णिका, शुशोणिषकः-षिका, शोशोणकः-णिका
शोणिता-त्री, शोणयिता-त्री, शुशोणिषिता-त्री, शोशोणिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकखोरतिवत् 4 ज्ञेयानि।
शोणो = लोहितः, शोणितम् = रुधिरम्, शोणः-नदः, शोणा- 5 शोणी = नदी, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
6 शोणः-पचाद्यचि एवं रूपम्।
प्रासङ्गिक्यः
01
=>
(१७५६)
02
=>
(१-भ्वादिः-४५५। सक। सेट्। पर।)
03
=>
[पृष्ठम्१३१८+ २५]
04
=>
(३६३)
05
=>
[[१। ‘शोणात्प्राचाम्’ (४-१-४३) इति स्त्रियां प्राचामाचार्याणां मते विकल्पेन ङीष् भवति। शोणी-शोणा = बडबा इति काशिकायाम्।]]
06
=>
[[आ। ‘… शोणान् पृथुश्रोणिजनो दुदोह च।’ धा। का। १-५९।]]
1 {@“शोणृ संघाते”@} 2 तालव्योष्मादिरयम्।
सर्वाण्यपि रूपाणि भौवादिकक्लेवतिवत् 3 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१७९०)
02
=>
(१-भ्वादिः-४५७। सक। सेट्। पर।)
03
=>
(२९१)