| YouTube Channel

शृतं (zRtaM)

 
Monier Williams Cologne
English
शृतं॑ in comp. for शृत॑म्.
शब्दकल्पद्रुमः
Sanskrit
शृतं, त्रि, (श्रा पाके + क्तः ।) “शृतं पाके ।”६ २७ इति शृभावः ।) पक्वक्षीराज्य-पयांसि इत्यमरः
शृतमन्नं विवर्ज्जयेदिति-त्वार्षम् इति भरतः
कथितम् इति शब्दचन्द्रिका रत्नमाला
*
अथ क्वाथविधिः ।“पानीयं षोडशगुणं क्षुण्ण द्रव्यपले क्षिपेत् ।मृत्पात्रे क्वाथयेत् ग्राह्यमष्टमांशावशेषितम्
कर्षादौ तु पलं यावत् दद्यात् षोडशिकं जलम् ।तज्जलं पाययेद्धीमान् कोष्णं मृद्वग्निसाधितम् ।शृतः काथः कषायश्च निर्य्यूहः निगद्यते
”क्वाथपानमात्रामाह ।“मात्रोत्तमा पलेन स्यात्त्रिभिरक्षैस्तु मध्यमा ।जघन्या पलार्ङ्ग्रेन स्नेहक्वाथौषधेन
”तन्त्रान्तरे ।“क्वाथद्रव्यपले वारि द्विरष्टगुणमिष्यते ।चतुर्भागावशिष्टन्तु पेयं पलचतुष्टयम्
दीप्तानलं महाकायं पाययेत् द्व्यञ्जलिं जलम् ।अन्ये त्वर्द्धं परित्यज्य प्रसृतन्तु चिकित्सकाः
क्वाथत्यागमनिच्छन्तस्त्वष्टभागावशेषितम् ।पारम्पर्य्योपदेशेन वृद्धवैद्याः पलद्वयम्
”अष्टभागावशेषितस्य चतुर्भागावशिष्टापेक्षयागुरुत्वाद्दीप्तानलं महाकायं पलद्वयं पायये-न्मध्यमाग्निमल्पकायं पलमात्रं पाययेत् ।मात्रोत्तमा पलेन स्यादित्यादिवचनात् ।“क्वाथे क्षिपेत् सितामशैश्चतुर्थाष्टमषोडशैः ।वातपित्तकफातङ्के विपरीतं मधु स्मृतम्
जीरकं गुग्गुलुं क्षारं लवणञ्च शिलाजतु ।हिङ्गु त्रिकटुकञ्चैव क्वाथे शाणोन्मितं क्षिपेत्
क्षीरं घृतं गुडं तैलं मूत्रं चान्यत द्रवं तथा ।कल्कं चूर्णादिकं क्वाथे निक्षिपेत् कर्षसम्मितम्
तत्रोपविश्य विश्रान्तः प्रसन्नवदनेक्षणः ।औषधं हेम रजतं मृद्भाजनपरिस्थितम्
पिबेत् प्रमन्नहृदयः पीत्वा पात्रमधोमुखम् ।विधायाचम्य सलिलं ताम्बूलाद्युपयोजयेत्
”इति भावप्रकाशः
अन्यच्च ।“द्रव्यादापोत्थितात्तोये वह्निना परितापितात् ।निःशृतो यो रसः पूतः शृतः समुदाहृतः
”इति वैद्यकम्