| YouTube Channel

शूलः (zUlaH)

 
Apte
English
शूलः [śūlḥ] लम् [lam], लम् [शूल्-क]
A sharp or pointed weapon, pike, dart, spear, lance.
The trident of Śiva.
An iron-spit (for roasting meat upon)
शूले संस्कृतं शूल्यम्
cf.
अयःशूल.
A stake for impaling criminals
(बिभ्रत्) स्कन्धेन शूलं हृदयेन शोकम्
Mk.*
1.21
Ku.*
5.73.
Any acute or sharp pain.
Colic.
Gout, rheumatism.
Death.
A banner, an ensign.
Selling
selling or salable object
'अट्टमन्नं शिवो वेदः शूलो विक्रय उच्यते' इति कोशः
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः केशशूलाः स्त्रियो राजन् भविष्यन्ति युगक्षये
Mb.
* 3.188.42
अट्टशूलाः कतिपये पट्टने$स्मिन् प्रतिष्ठिताः Viś. Guṇa. 438. (शूलाकृ 'to roast on an iron-spit'.)
Comp.
-अग्रम् the point of a pike. -अङ्कः an epithet of Śiva
ये समाराध्य शूलाङ्कम् भवसायुज्यमागताः
Mb.
* 1.7.46. -अवतंसित
a.
impaled on a Śūla
पश्यतु पिमद्यैव शूलावतंसितम्
Dk.*
2.1. -आरोपः, -आरोपणम् impalement. -गवः an ox fit for a spit (an offering to Rudra). -ग्रन्थिः
f.
a kind of Dūrvā grass. -घातनम् iron-filings. -घ्न
a.
a sedative, anodyne. -द्विष
m.
asa foetida. -धन्वन्, -धर, -धारिन्, -ध्रुक्, -पाणि, भृत्
m.
epithets of Śiva
अधिगतधवलिम्नः शूलपाणेरभिख्याम्
Śi.*
4.65
R.*
2.38. -नाशनम् white sochal salt. -पालः the keeper of a brothel. -योगः a particular grouping of stars.-शत्रुः the castor-oil plant. -रथ
a.
impaled. -हन्त्री a kind of barley. -हस्तः a lancer. -हृत्
m.
asa foetida.
Apte 1890
English
शूलः
लं [शूल्-क] 1 A sharp or pointed weapon, pike, dart, spear, lance.
2 The trident of Śiva.
3 An iron-spit (for roasting meat upon)
शूले संस्कृतं शूल्यम्
cf. अयः शूल.
4 A stake for impaling criminals
(बिभ्रत्) स्कंधेन शूलं हृदयेन शोकं Mk. 10. 21, Ku. 5. 73.
5 Any acute or sharp pain.
6 Colic.
7 Gout, rheumatism.
8 Death.
9 A banner, an ensign. (शूलाकृ ‘to roast on an iron-spit’).
Comp.
अग्रं the point of a pike.
ग्रंथिः f. a kind of Dūrvā grass.
घातनं iron-filings.
घ्न a. sedative, anodyne.
द्विष् m. asa fœtida.
धन्वन्,
धर,
धारिन्,
धृक्,
पाणि,
भृत् m. epithets of Śiva
अधिगतधवलिम्नः शूलपाणेरभिख्यां Śi. 4. 65
R. 2. 38.
नाशनं white sochal salt.
शत्रुः the castor-oil plant.
स्थ a. impaled.
हंत्री a kind of barley.
हस्तः a lancer.
हृत् m. asa Fœtida.
Apte Hindi
Hindi
शूलः
पुं*
- शूल् +
"पैना या नोकदार हथियार, नुकीला काँटा, नेज़ा, बर्छी, भाला"
शूलः
पुं*
- शूल् +
शिव का त्रिशूल
शूलः
पुं*
- शूल् +
लोहे की सलाख़ (जिस पर मांस भूना जाता है)
शूलः
पुं*
- शूल् +
एक स्थूण जिसके सहारे अपराधियों को सूली दी जाती थी (बिभ्रत्)
शूलः
पुं*
- शूल् +
तीव्र पीड़ा
शूलः
पुं*
- शूल् +
उदरशूल
शूलः
पुं*
- शूल् +
"गठिया, जोड़ों में दर्द"
शूलः
पुं*
- शूल् +
मृत्यु
शूलः
पुं*
- शूल् +
"झण्डा, ध्वज"
शूलः
पुं*
- शूल्+क
विक्रय
शूलः
पुं*
- शूल्+क
बेचने योग्य पदार्थ
शूलः
पुं*
- शूल्+क
नोकदार हथियार
शूलः
पुं*
- शूल्+क
लोहे की सलाख
शूलः
पुं*
- शूल्+क
किसी भी प्रकार का दर्द
शूलः
पुं*
- शूल्+क
मृत्यु
Wordnet
Sanskrit
Synonyms:
शूलः, शूलम्
noun
स्यूतकर्मणि प्रयुक्तानि सीवनानि।
"अस्य वस्त्रस्य शूलाः सुदृढाः सन्ति।"
Synonyms:
शूलः, शूलम्, शल्यम्, प्रासः, कुन्तः, कुन्ती, शलाका, कीलः, तोमरः
noun
शस्त्रविशेषः - यस्य दीर्घदण्डे सूच्याग्रवत् तीक्ष्णं पत्रम् अस्ति।
"प्राचीने काले युद्धे शूलः उपायुज्यत।"
Synonyms:
शूलः
noun
अस्त्रविशेषः।
"नूतनैः अस्त्रैः शूलः अस्तित्वविहीनः जातः।"
Tamil
Tamil
சூ’ல: : சூ’லம் = கூர்மையான ஆயுதம், திரிசூலம், வேல், வலி, வயிற்று வலி.
शब्दकल्पद्रुमः
Sanskrit
शूलः,
पुं,
क्ली,
(शूलति लोकानिति शूल रोगे +अच् ।) रोगविशेषः अस्त्रविशेषः वर्शाइति भाला इति भाषा इत्यमरः
मृत्युः ।केतनः विष्कम्भादिसप्तविंशतियोगान्तर्गत-नवमयोगः इति मेदिनी
तद्योगजात-फलम् यथा, --“भीतो दरिद्रो दहिताप्रियश्चशूलोद्भवः शूल इव स्वबन्धोः ।विद्यामयाभ्यां रहितोऽथ शूलीकरोति लोके हितं कदाचित्
”इति कोष्ठीप्रदीपः
सुतीक्ष्णः अयःकीलः इति धरणिः
(यथा, महाभारते १०७ १२ ।“ततस्ते शूल आरोप्य तं मुनिं रक्षिणस्तदा ।प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ
”)व्यथा इति केचित्
विक्रे तव्यम् यथा, --“अट्टशूला जनपदाः शिवशूलाश्चतुष्यथाः ।प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे
”इति महाभारते आदिपर्व्व
*
अथ शूलाधिकारः तत्र शूलस्य सन्निकृष्टंनिदानमाह ।“दोषैः पृथक् समस्तामद्वन्द्वैःशूलोऽष्टधा भवेत्सर्व्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः
”प्रभुः कर्त्ता
*
वातिकस्य विप्रकृष्टनिदान-संप्राप्तिलक्षणमाह ।“व्यायामपानादतिमैथूनाच्चप्रजागराच्छीतजलादिपानात् ।कलायमुद्गाढकिकोरदूषात्अत्यर्थरुक्षाध्यशनाभिघातात्
कषायतिक्तातिविरूढजान्न-विरुद्धवल्लूरकशूष्कशाकैः ।विट्छुक्रमूत्रानिलसन्निरोधात्शोकोपवासादतिहास्यभाषात्
वायुः प्रवृद्धो जनयेद्धि शूलंहृत्पृष्ठपार्श्वत्रिकवस्तिदेशे ।जीर्णे प्रदोषे घनागमे चशीते कोपं समुपैति गाढम्
मुहर्मुहुश्चोपशमप्रकोपै-र्व्विण्मुत्रसंस्तम्भनतोदभेदैः ।सस्वेदनाभ्यञ्जनमर्द्दनाद्यैःस्निग्धोष्णभोज्यैश्च समं प्रयाति
”व्यायामो मल्लयुद्धादिः पानं गुरुगरयादि ।मैथनं स्त्रीसेवा प्रजागरं रात्रौ एषामति-योगात् कलायस्त्रिपुटः आढकी तुवरी ।कोरदूषकः कोद्रवः अत्यर्थरूक्षद्रव्यसेवा ।अध्यशनं भुक्तस्योपरि भोजनम् अभिघातोलोष्टादिभिः कषायतिक्तरससेवा विरूढजान्नंविरूढमङ्करितमन्नकलायशाकादि तज्जमन्नंभक्ष्यम् वल्लूरं शुष्कमांसम् तस्य शूलस्यदेशमाह हृदयादिषु
*
तस्य हृच्छूलस्यपृथगपि लक्षणं पठति ।“कफपित्तावरुद्धस्तु मारुतो रसवर्द्धितः ।हृदिस्थः कुरुते शूलमुच्छ्वासस्यावरोधकम् ।स हृच्छूल इति ख्यातो रसमारुतकोपजः
”पार्श्वशूलस्यापि लक्षणमाह ।कफं निगृह्य पवनः शूचीभिरिव निस्तुदन् ।पार्श्वस्थः पार्श्वयोः शूल कुर्य्यादाध्मानसंयु-तम् ।तेनोच्छ्वसिति वक्त्रेण नरोऽन्नञ्च काङ्क्षति ।निद्राञ्च नाप्नु यादेष पार्श्वशूलः प्रकीर्त्तितः
”वस्तिशूलस्यापि लक्षणमाह ।“संरोधात् कुपितो वायुरस्थि संश्रित्थ तिष्ठति ।वस्तिवङ्क्षणनाडीषु ततः शूलस्तु जायते
”विण्मु त्रवातसंरोधी वस्तिशूलः उच्यते
”प्रकृतमनुसरति जीर्णे भुक्ते
प्रदोषे रात्र्या-गमे रात्रिभवशीतेन वातप्रकोपात् घनागमेवर्षासु मेघोदये
*
तथैव पैत्तिकमाह ।क्षारातितीक्ष्णोष्णविदाहितैल-निष्पावपिण्याककूलत्थयूषैः ।कट्वम्लसौवीरसुराविकारैःक्रोधानलायासरविप्रतापैः
ग्राम्यातियोगादशनैर्विदग्धैःपित्तं प्रकुप्याशु करोति शूलम् ।तृण्मोहदाहार्त्तिकरं हि नाभ्यांसस्वे दमूर्च्छाभ्रमशोषयुक्तम्
मध्यं दिने कुप्यति चार्द्धरात्रेनिदाघकाले जलदात्यये ।शीतेऽतिशीतैः समुपैति शान्तिंसुस्वादुशीतैरपि भोजनैश्च
”निष्पावो राजमाषः सौवीरं सन्धानभेदः ।सुराविकारैः परिपक्वान्नसन्धानसमुत्पन्ना सुरामता तस्या विकारैः रविप्रतापः आतपः ।ग्राम्यातियोगो मैथुनाधिक्यम् विदाहीत्यु-क्त्वापि अशनैर्व्विदग्धैरिति बोधयति अवि-दाहिवस्तुनोऽपि पित्तवशाद्विदाहित्वं भवति ।जलदात्यये शरदि शीते शीतकाले शीतै-र्व्वातादिभिः
*
श्लैष्मिकमाह ।“आनुपवारिजकिलाटपयोविकारै-र्म्मांसेक्षुपिष्टकृशरातिलशस्कुलीभिः ।अन्यै र्व्वलासजनकैरपि हेतुभिश्चश्लेष्मा प्रकोपमुपगम्य करोति शूलम्
हृल्लासकाससदनारुचिसंप्रसेकै-रामाशये स्तिमितकोष्ठशिरोगुरुत्वैः ।भुक्तैः सदैव हि रुजं कुरुतेऽतिमात्रंसूर्य्योदयेऽथ शिशिरे कुसुमागमे
”आनूपं बहुजलदेशजं भक्ष्यम वारिजं शालू-कादि किलाटः ।“पक्वं दध्ना समं क्षीरं विज्ञेया दधिकूर्च्चिका ।तक्रेण तक्रकूर्च्चो स्यात्तयोः पिण्डः किला-टकः
”पयोविकारः पायसादिः पिष्टं माषादि ।अन्यैः गुर्व्वादिभिः स्तिमितमार्द्रचर्म्मावगुण्ठित-मिव यत् कोष्ठं शिरश्च तयोर्गुरुत्वैः सह ।सूर्य्योदय इति त्रिधाविभक्तदिवसप्रथमभाग-स्योपलक्षणम् शिशिरे तत्र कफस्यातिसञ्च-यात् कुसुमागमे वसन्ते
*
द्वन्द्वजमाह ।“द्विदोषलक्षणैरेतैर्व्विद्याच्छूलं द्विदोषजम्
”त्रिदोषजमाह ।“सर्व्वेषु देशेषु समस्तलिङ्गंविद्याद्भिषक् सर्व्वभवं हि शूलम् ।सुकष्टमेनं विषवज्रतुल्यंविवर्ज्जनीयञ्च वदन्ति तज्ज्ञाः
”सर्व्वेषु देशेषु हृत्पृष्ठपार्श्वत्रिकवस्तिनाभ्यामाश-येषु सर्व्व भवं त्रिदोषजं शूलं विन्द्यात् सुकष्ट-साध्यं विषवज्रतुल्यं मारणात्मकत्वात्
*
आमजमाह ।“आटोपहृल्लासवमीगुरुत्वंस्तैमित्यमानाहकफप्रसेकैः ।कफस्य लिङ्गेन समानलिङ्ग-मामोद्भवं शूलमुदाहरन्ति
कफस्य कफशूलस्य आमोद्भवं आमादुद्भवोयस्य तं शूलम् अत्रामाच्छूले जाते पश्चा-द्दोषसम्बन्धः अतएव शूलस्याष्टत्वमुक्तम् सच प्रथममामाशये भवतिपश्चात् सम्बन्धिदोषै-र्वस्तिनाभिहृत्पार्श्वकुक्षिषु भवति यथा दोष-सम्बन्धः
*
आमशूलस्य दोषविशेषेण देश-विशेषमाह ।“वातात्मकं वस्तिगतं वदन्तिपित्तात्मकं चापि वदन्ति नाभ्याम् ।हृत्पार्श्वकुक्षौ कफसन्निविष्टंसर्वेषु देशेषु सन्निपातात्
”हृत्पार्श्वकुक्षौ हृत्पार्श्वाभ्यां सहिते कुक्षौ ।कफसन्निविष्टं कफेनाविष्टम्
*
तन्त्रान्तरोक्त-मामशूलमाह ।“अतिमात्रं यदा भुक्तं पावके मृदुतां गते ।स्थिरीकृतन्तु तत् कोष्ठे वायुनावृत्य तिष्ठति
यदान्नं गतं पाकं तच्छूलं कुरुते भृशम् ।मूर्च्छाध्मानविदाहांश्च हृत्क्लेशं सविलम्बिकम्कम्पवातमतीसारं प्रमोहं जनयेदपि ।अविपाकोद्भवं शूलमेतमाहुर्म्मनीषिणः
”अविपाकोद्भवं आमोद्भवमित्यर्थः
*
शूल-स्योपद्रवानाह ।“वेदनातितृषा मूर्च्छा आनाही गौरवं ज्वरः ।भ्रमोऽरुचिः कृशत्वञ्च बलहानिस्तथैव ।उपद्रवा दशैवैते यस्य शूलस्य नास्ति सः
”शलस्यैव भेदं परिणाममाह ।“स्वैर्निदानैः प्रकुपितो वायुः सन्निहितो यदाकफपित्ते समावृत्य शूलकारी भवेद्बली
भुक्ते जीर्य्यति यच्छूलं तदेव परिणामजम्
”स्वैर्निदानैरित्यादिना निदानपूर्विका संप्राप्ति-रुक्ता भुक्ते जीर्य्यतीत्यादिना लक्षणमुक्तम् ।समावृत्य व्याप्य
*
अथान्नद्रवनामानं शूल-विशेषमाह ।“जीर्णे जीर्य्यत्यजीर्णे वा यच्छूलमुपजायते ।पथ्यापथ्यप्रयोगेण भोजनाभोजनेन वा ।न शमं याति नियमात् सोऽन्नद्रव उदाहृतः
”नेदं शूलमसाध्यं चिकित्साभिधानात्
*
अथशूलस्य चिकित्सा ।“वमनं लङ्घनं स्वेदं पाचनं फलवर्त्तयः ।क्षारचूर्णानि गुटिकाः शस्यन्ते शूलशान्तये
विज्ञाय वातशूलन्तु स्नेहस्वेदैरुपाचरेत् ।शूलशल्याकुलस्य स्यात् स्वेद एव सुखावहः
मृत्तिकां सजलां पाकाद्धनीभूतां पटे क्षिपेत् ।कृत्वा तत्पोटलीं शूली तया स्वेदं विधापयेत्
इति मृत्तिकास्वेदः
“कार्पासास्थिकुलत्थिकातिलयवैरेरण्डमूला-तसी-वर्षाभूषणबीजकाञ्जिकयुतैरेकीकृतैर्व्वा पृथक्स्वेदः स्यादथ कूर्परोदरशिरःस्फिग्जानुपादा-ङ्गली-गुल्फस्कन्धकटीरुजो विजयते निःशेषवाता-र्त्तिहा
”इति कार्पासास्थ्यादिस्वेदः
“तिलैश्च गुटिकां कृत्वा भ्रामयेज्जठरोपरि ।शूलं सुदुस्तरं तेन शान्तिं गच्छति सत्वरम्
नाभिलेपाज्जयेच्छूलं मदनं काञ्जिकान्वितम्
मदनं मयनफलम्
*
“विश्वमेरण्डमूलन्तु क्वाथं कृत्वा शृतं पिबेत् ।हिङ्गुसौवर्च्चलोपेतं सद्यः शूलनिवारणम्
*
गुडशालियवाः क्षीरं सर्पिःपानं विरेचनम् ।जाङ्गलानि मांसानि भेषजं पित्तशूलिनाम्
”मणीरजतताम्राणां भाजनानि गुरूणि ।तोयेनपरिपूर्णानि शूलस्योपरि धारयेत्
*
विरेचनं पित्तहरं प्रशस्तंरमाश्च शस्ताः शशलावकानाम् * ।सगुडां घृतसंयुक्तां भक्षयेद्वा हरीतकीम् ।प्रलिह्याच्छूलशान्त्यर्थं धात्रीचूर्णं समाक्षिकम्
शाल्यन्नं जाङ्गलं मांसमरिष्टं कटुकं रसम्
मधूनि जीर्णगोधूमं कफशूले प्रयोजयेत्
”अरिष्टं भेषजक्वाथसिद्धं मद्यम्
*
“लवणत्रयसंयुक्तं पञ्चकोलं सरामठम् ।सुखोष्णेनाम्बुना पीतं कफशूलं प्रणाशयेत् *आमशूले क्रिया कार्य्या कफशूलप्रणाशिनी ।सेव्यमामहरं सर्व्वं मद्यमग्निविवर्द्धनम्
*
तीक्ष्णायश्चूर्णसंयुक्तं त्रिफलाचूर्णमुत्तमम् ।प्रयोज्यं मधुसर्पिभ्यां सर्व्वशूलनिवारणम्
”तीक्ष्णा राजिका
*
“दारुहैमवतीकुष्ठशताहाहिङ्गुसैन्धवैः ।अम्लपिष्टैः सुखोष्णैश्च लिम्पेच्छूलयुतोदरम्
मूलं वैल्वं तथैरण्डं चित्रकं विश्वभेषजम् ।हिङ्गु सैन्धवसंयुक्तं सद्यः शूलनिवारणम्
”वातरोगान्तर्गताध्मानचिकित्सायां लिखितोनाराचनामा रसोऽन्यच्च विरेचनं शूले हितम्
“कुष्माण्ड तनु कृत्वा तु छित्त्वा घर्म्मे विशोषयेत्स्थाल्यां निक्षिप्य तत् सर्व्वं पिधानेन विधाप्यच
चुल्ल्यां निवेश्य वह्निञ्च ज्वालयेत् कुशलो जनः ।यथा तत्र भवेद्भस्म किन्त्वङ्गारो दृढो भवेत्
तदा निर्व्वापयेच्छीतं चूर्णितं चूर्णयेत्तु तम् ।माषद्वयमितं तावच्छटीचूर्णञ्च मिश्रितम्
जलेन भक्षयेन्नित्यं महाशूलाकुलो नरः ।असाध्यमपि यच्छूलं तदप्ये तेन शास्यति
”इति कुष्माण्डक्षारः
*
अथ परिणामशूलस्य चिकित्स ।“लङ्घनं प्रथमं कुर्य्याद्वमनं सविरेचनम् ।पक्तिशूलोपशान्त्यर्थं तत्र वान्तेर्विधिर्यथा
पीत्वा तु क्षीरमाकण्ठमदनक्वाथसंयुतम् ।कान्तारकस्य पौण्ड्रस्य कोशकारस्य वा रसम्कषायं वाथ निम्बस्य कटुतुम्बीरसं वचाम् ।यथाविधि वमेद्धीमान् पक्तिशूलार्द्दितो जनः
त्रिवृता तथा दन्त्यास्तैलेनैरण्डजेन वा ।दत्तं विरेचनं सद्यः पक्तिशूलं निवारयेत्
विडङ्गं तण्डुलं व्योषं त्रिवृद्दन्तिसचिक्रकम् ।सर्व्वाण्येतानि संगृह्य सूक्ष्मचूर्णानि कारयेत्
गुडेन मोदकान् कृत्वा खादेदुष्णेन वारिणा ।जयेत्त्रिदोषजं शूलं परिणामसमुद्भवम्
”इति विडङ्गादि मोदकः
*
“नागरतिलगुडकल्कं पयसा संपिष्य यः पुमान्लिह्यात् ।उग्रं परिणतिशूलं नश्येत्तस्य त्रिरात्रेण ।पीतं शम्बूकजं भस्म जलेनोष्णेन तत्क्षणात् ।पक्तिजं नाशयत्येव शूलं विष्णुरिवासुरान्
लोहपथ्याकणाशुण्ठीचूर्णं समधुसर्पिषा ।विलिहन् विनिहन्त्येक शूलं हि परिणामजम्
”इति पथ्यादिलोहम्
*
“नारिकेलं सतोयश्च लवणेन सुपूरितम् ।मृदाववेष्टितं शुष्कं पक्वं गोमयवह्निना
पिप्पल्या भक्षितं हन्ति शूलं हि परिणा-मजम् ।वातिकं पैत्तिकञ्चापि श्लेष्मिकं सान्निपातिकम्
”इति नारिकेलक्षारः
*
अथान्नद्रवस्य चिकित्सा ।“अन्नद्रावाख्ये शूले तु तावत् स्वास्थ्यमश्नुतेयावत् कटुकपीताम्लमन्नं च्छर्दयेद्द्रवम्
जातमात्रे जरत्पित्ते शूलमाशु विनाशयेत् ।पित्तार्त्तं वमनं कृत्वा कफार्त्तञ्च विरेचनम्
अत्रद्रवे तत् कार्य्यं जरत्पित्ते यदीरितम् ।जरत्पित्तेऽपि तत् पथ्यं प्रोक्तमन्नद्रवे तु यत्
आमपक्वाशये शुद्धे गच्छेदन्नद्रवः शमम् ।माषेण्डरीं सलवणां सुस्विन्नां तैलपाचिताम्
तादृशीं सर्पिषा खादेदन्नद्रवनिपीडितः ।धात्रीफलभवं चूर्णमयश्चूर्णसमन्वितम् ।यष्टीचूर्णेन वा युक्तं लिह्यात् क्षौद्रेण तद्गदे ।श्यामकतण्डुलैः सिद्धं सिद्धं कोद्रवतण्डुलैः
प्रियङ्गुतण्डुलैः सिद्धं पायसं मसितं हितम्
”प्रियङ्गः कङ्गविशेषः ।“गौडिकं शौरणं कन्दं कुष्माण्डमपि भक्षयेत् ।कलाययवशक्तून् ता शक्तून् वा लाजसंयुतान्
”गौडिकं गुडेन संस्कृतं पक्वान्नम्
*
“कुलत्थशक्तू नथवा दध्नाद्याद्दधिकं तथा
चणकानामथो शक्तून् कोद्रवस्यौदनं तथा
”दधिकं दध्ना संस्कृतं भक्तम् महेरि इतिलोके
*
“गोधूममण्डकं तत्र सर्पिषा गुडसंयुतम्
ससितं शीतदुग्धेन मृदितं क्वथितं हितम्
अन्नद्रवो दुश्चिकित्स्यो दुर्व्विज्ञे यो महागदः ।तस्मात्तस्य प्रशमने परं यत्नं समाचरेत्
अन्नद्रवे जरत्पित्ते वह्निर्मन्दो भवेद्यतः ।तस्मादत्रान्नपानानि मात्राहीनानि कारयेत्
कलाययवगोधूमाः श्यामाकाः कोरदूषकाः ।राजमाषाश्च माषाश्च कुलत्थाः कङ्गुशालयः
दधिलुप्तरसं क्षीरं सर्पिर्गव्यं समाहिषम् ।वास्तूकं कारवल्ली कर्कोटकफलानि
वर्हिणो हरिणा मत्स्या रोहिताद्याः कपि-ञ्जलाः ।एतस्मिन्नामये शस्ता मता मुनिचिकित्सकैः
”दधिलुप्तरसं दध्ना लुप्तः कृतो रसो यस्य तत् ।क्षोरं दधियुक्तं क्षौरमित्यर्थः
*
“गुडामलकपथ्यानां चूर्णं प्रत्येकशः पलम् ।त्रिपलं लोहकिट्टस्य तत् सर्व्वं मधुसर्पिषा
समालोड्य समश्नीयादक्षमात्रं प्रमाणतः ।आदिमध्यावसानेषु भोजनस्य निहन्ति तत्
अन्नद्रवं जरत्पित्तमम्लपित्तं सुदारुणम् ।परिणामसमुत्थञ्च शूलं संवत्सरोत्थितम्
”इति गुडमण्डूरम्
*
“व्यायामं मैथुनं मद्यं लवणं कटुकं रसम् ।वेगरोधं शुचं क्रोधं विदलं शूलवान् त्यजेत्
”इति शूलामपरिणामशूलान्नद्रवजरत्पित्ताधि-कारः इति भावप्रकाशः
*
अपि ।“अर्कपत्रं गृहीत्वा तु मन्दाग्नौ तापयेच्छनैः ।निष्पीड्य पूरयेत् कर्णौ कर्णशूलं विनश्यति
*
साञ्जनञ्च घृतं क्षौद्रं लवणं ताम्रभाजने ।घृष्टं पयःसमायुक्तं चक्षुःशूलहरं परम्
”साञ्जनञ्च इत्यत्र ताम्बूलञ्च इति वा पाठः
“चूर्णमामलकस्यैव पीतं शूलहरं परम्
”इति गारुडे १८३ १९५ १९४ अध्यायाः
किञ्च ।“सामद्रं सैन्धवं क्षारो राजिका लवण विडम् ।कटु लोहरजः किट्टं त्रिवृत् शूरणकं समम्
दधिगोमूत्रपयसा मन्दपावकपाचितम् ।एतच्चाग्निबलं चर्णं पिबेदुष्णेन वारिणा
जीर्णे जीर्णे भुञ्जीत माषादिघृतभोजनम् ।नाभिशूलं मूत्रशूलं गुल्मप्लीहभवञ्च यत्
सर्वं शूलहरं चूर्णं जठरानलदीपनम् ।परिणामसमुत्थस्य शूलस्य हितं परम्
”इति गारुडे १९९ अध्यायः
तस्य उपपापजत्वं यथा, --“जलोदरयकृत्प्लीहशूलरोगव्रणानि ।श्वासाजीर्णज्वरच्छर्द्दिर्भ्रममोहगलग्रहाः ।रक्तार्वुदविसर्पाद्या उपपापोद्भवा गदाः
”इति शातातपीयकर्म्मविपाकः