| YouTube Channel

शूद्रान्न (zUdrAnna)

 
Capeller Eng
English
शूद्रान्न
n.
food from a Śūdra.
Monier Williams Cologne
English
शूद्रान्न
n.
food belonging to or received from a ڰ,
Āp.
Mn.
Apte Hindi
Hindi
शूद्रान्नम्
नपुं*
शूद्रः-अन्नम् -
शूद्र द्वारा दिया गया या परोसा गाया भोजन
शब्दकल्पद्रुमः
Sanskrit
शूद्रान्न,
क्ली,
(शूद्रस्य अन्नम् ।) शूद्रस्वामिकान्नम् ।यथा, --“शूदान्ने तु भुक्तेन उदरस्थेन यो मृतः ।स खरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति
”शूद्रान्नं शूद्रस्वामिकान्नम् इति शुद्धितत्त्वम्
अन्यत् शूद्रशब्दे द्रष्टव्यम्
वाचस्पत्यम्
Sanskrit
शूद्रान्न
न०
त० शूद्रस्वामिकान्ने तस्य द्विजैरभक्ष्यर्त्वं यथाहारीतः “शूद्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः ।स वैखरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति” म० त० धृतवाक्यं शूद्रान्नं शूद्रस्वामिकान्नं रघु० “आमं शूद्रस्यपक्वान्नं पक्वमुच्छिष्टमुच्यते” इति तत्पक्वान्नस्य सर्वथानिषेधादत्र अस्मिन्नमेव शूद्रस्वामिकान्नं गृह्यते तद्दत्त-मपि भोजनकाले तद्गृहावस्थितं तदपि शूद्रान्नं तदा-हाङ्गिराः “शूदवेश्मनि विप्रेण क्षीरं वा यदि वादधि निवृत्तेन भोक्तव्यं शूद्रान्नं तदपि स्मृतम्”तेन शूद्रवेश्मस्थितक्षीरदध्यादिकमपि शूद्रान्नं पारिभा-षिकमित बोध्यम् निवृत्तेन शूद्रान्नानिवृत्तेन तदपीतिअपिशब्दात् साक्षाद्दत्तघृततण्डुलादि तु तद्दत्तकपर्दका-दिना क्रीतमपि स्वगृहागते शूद्रान्ने अङ्गिराः “यथायतस्ततो ह्यापः शुद्धिं यान्ति नदीं गताः शूद्राद्विप्र-गृहेष्वन्नं प्रविष्टन्तु सदा शुचि” प्रविष्टं स्वत्वापादक-प्रतिग्रहादिनेति शेषः अतएव पराशरः “तावद्भवतिशूद्रान्नं यावन्न स्पृशति द्विजः द्विजातिकरसंस्पृष्टंसर्वं तद्धविरुच्यते” स्पृशति प्रतिगृह्णातीति कल्पतरुः ।तच्च संप्रोक्ष्य ग्राह्यमित्याह विष्णुपु० “संप्रोक्ष्य प्रतिगृ-ह्लीया शूद्रान्नं गृहमागतम्र” तच्च पात्रान्तरे ग्राह्यमि-त्याहाङ्गिराः “स्वपात्रे यत्तु विन्यस्तं शूद्रो यच्छतिनित्यशः पात्रान्तरगतं ग्राह्यं दुग्धं स्वगृहमागतम्” ।एतेन स्वगृहमागतस्यैब शुद्धत्वं प्रतीयते ततश्चैतादृगपिमुर्मूषुणा शूद्रान्नं सर्वथा भोक्तव्यम् प्रागुक्तहारीत-वचने तन्निन्दाश्रवणात्” शु० त० “नाद्यात् शूद्रस्य विप्रो-ऽन्नं मोहाद्वा यदि वान्यतः शूदयोनिं व्रजातयस्तु भुङ्क्ते ह्यनापदि षण्मासान् यो द्विजो भुङ्क्तेशूद्रस्यान्नं विगर्हितम् जीवन्नेव भवेत् शूद्रो मृतःश्वा चाभिजायते ब्राह्मणक्षत्रियविशां शूद्रम्य मनी-षिणः यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात्”व्यासवाक्यम् “आर्त्विजः कुलमित्रञ्च गोपालो दासना-पितौ एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ।कृषीवलः कुम्भकारः क्षेत्रकर्षक एव एते शूद्रेषुभोज्यान्ना दत्त्वा खल्पपणं बुधैः पायसं स्निग्धपक्वञ्चयावकञ्चैव सक्तवः पिन्याकञ्चैव तैलञ्च शूद्राद् ग्राह्यंद्विजातिभिः” कूर्मपु० त० भागे १६ अ० “कन्दुपक्वानितैलेन पायसं दधिसक्तवः द्विजैरेतानि भोज्यानि शूद्र-गेहकृतान्यपि” “कुलमित्रादीनां भोज्यान्नता तु कली-तत्परा शूद्रेषु दासगोपालकुलमित्रार्द्धसीरिणाम् ।भोज्यान्नता मृहस्थस्य तीर्थसेवाऽतिदूरतः” षराशरेणकलौ वर्ज्यस्योक्तेः शूद्रोऽपि ब्राह्मणद्वारा पक्वान्नेननैवेद्यं दातुमर्हति वृषोत्सर्गाङ्गचरुपाकादिवत् तत्रापितस्याधिकार इति ति० त० दुर्गोत्सवप्रकरणे रघुनन्दनेनव्यवस्थापितम् तत्र दृश्यम्