शूद्रः (zUdraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishशूद्रः [śūdrḥ], [शुच्-रक् पृषो˚ चस्य दः दीर्घः 2.19] A man of the fourth or the last of the four principal tribes of the Hindus
he is said to have been born from the feet of Puruṣa
पद्भ्यां शूद्रो अजायत Ṛv.1.9.12
or of Brahman
1.87
and his principal business was to serve the three higher castes
एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् । एतेषामेव वर्णानां शुश्रुषामनसूयया ॥ 1.9.Comp. -आर्ता the Priyaṅgu plant. -आह्निकम् the daily ceremonies or observances of a Śūdra. -उदकम् water polluted by the touch of a Śūdra. -कृत्यम्, -धर्मः the duties of a Śūdra. -घ्न, -हन्
killing a Śūdra.
the slayer of a Śūdra
एतदेव व्रतं कृत्स्नं षण्मासान् शूद्रहा चरेत् 11.13. -प्रियः an onion. -प्रेष्यः a man of any of the three higher castes who has become a servant to a Śūdra. -भूयिष्ठ consisting mostly of Śūdra
यद्राष्ट्रं शूद्रभूयिष्ठम् (विनश्यति) 8.22. -याजकः one who conducts a sacrifice for a Śūdra. -राज्यम् a country of which a Śūdra is a king
न शूद्रराज्ये निवसेत् 4.61.-वर्गः the Śūdra or servile class. -वृत्तिः the occupation of a Śūdra
वैश्यो$जीवन् स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् 1.98,
शासनम् dominion of a Śūdra.
a written bond of a Śūdra
D. B.
an edict addressed to Śūdras.-संस्पर्शः the touch of a Śūdra
अस्वर्ग्या ह्याहुतिः सा स्याच्छूद्रसंस्पर्शदूषिता 5.14. -सेवनम् serving a Śūdra, being the servant of a Śūdra
11.69.
Apte 1890
Englishशूद्रः [शुच्-रक् पृषो° चस्य दः दीर्घः Uṇ. 2. 19] A man of the fourth or the last of the four principal tribes of the Hindus
he is said to have been born from the feet of Puruṣa
पद्भ्यां शूद्रो अजायत Rv. 10. 90. 12, or of Brahman
Ms. 1. 87, and his principal business was to serve the three higher castes
cf. Ms. 1. 91.
Comp.
आर्ता the Priyaṅgu plant.
अह्निकं the daily ceremonies or observances of a Śūdra.
उदकं water polluted by the touch of a Śūdra.
कृत्यं,
धर्मः the duties of a Śūdra.
प्रियः an onion.
प्रेष्यः a man of any of the three higher castes who has become a servant to a Śūdra.
भूयिष्ठ a. consisting mostly of Śūdras.
याजकः one who conducts a sacrifice for a Śūdra.
वर्गः the Śūdra or servile class.
सेवनं serving a Śūdra, being the servant of a Śūdra.
Apte Hindi
Hindiशूद्रः
- "शुच् + रक्, पृषो* चस्य दः, दीर्घः"
"चौथे वर्ण का पुरुष, हिन्दुओं के चार मुख्य वर्णों में से अन्तिम वर्ण का पुरुष"
शूद्रः
- "शुच्+रक्, पृषो* चस्य दः दीर्घश्च"
हिन्दु समाज में चौथे वर्ण का पुरुष
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit शूद्रः, पादजः, अवरवर्णः, वृषलः, जघन्यजः, दासः, अन्त्यजन्मा, जघन्यः, द्विजसेवकः
हिन्दूनां चतुर्वर्णान्तर्गतः चतुर्थः वर्णः।
"अधुनापि नैके जनाः शूद्रस्य स्पर्शं पापम् इति मन्यन्ते।"
शूद्रः
एकः ब्राह्मणः ।
"शूद्रस्य उल्लेखः बौद्धसाहित्ये वर्तते"
शूद्रः
एका जातिः ।
"शूद्रस्य उल्लेखः महाभारते वर्तते"
अमरकोशः
SanskritWord: शूद्रः
Root: शूद्रः
Gender: undefined
Number: undefined
Meaning(s):
⇒ man of mixed origin
⇒ man of the lowest caste
⇒ man of the fourth, lowest caste
⇒ man of the fourth or lowest of the four original classes or castes
Shloka(s):
2|10|1|1 ► शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः। (शूद्रवर्गः)
Synonym(s):
➠ 2|10|1|1 ⇢ शूद्रा (शूद्र) (पुं) ⇒ man of mixed origin, man of the lowest caste, man of the fourth, lowest caste, man of the fourth or lowest of the four original classes or castes
➠ 2|10|1|1 ⇢ अवरवर्णः (अवरवर्ण) (पुं) ⇒ zUdra, low or despised caste, belonging to a low caste
➠ 2|10|1|1 ⇢ वृषलः (वृषल) (पुं) ⇒ ox, horse, dancer, kind of garlic, little or contemptible man, low or mean or wicked fellow
➠ 2|10|1|1 ⇢ जघन्यजः (जघन्यज) (पुं) ⇒ zUdra, youngest, low-born, last born, younger brother
Related word(s):
परा_अपरासंबन्धः ➡ शौण्डिकः
जातिः ➡ मनुष्यः
पति_पत्नीसंबन्धः ➡ शूद्रस्यभार्या
शब्दकल्पद्रुमः
Sanskritशूद्रः, (शोचतीति । शुच शोके + “शुचेर्दश्च ।”उणा० २ । १९ । इति रक् दश्चान्तादेशो धातो-र्दीर्घश्च ।) चतुर्व्वर्णान्तर्गतचतुर्थवर्णः । तत्-पर्य्यायः । अवरवर्णः २ वृषलः ३ जघन्यजः ४ ।इत्यमरः ॥
दासः ५ पादजः ६ अन्त्यजन्मा ७जघन्यः ८ द्विजसेवकः ९ । इति शब्दरत्नावली ॥
पद्यः १० । इति जटाधरः ॥
अन्त्यवर्णः ११पज्जः १२ । इति हेमचन्द्रः ॥
चतुर्थः १३ द्विज-दामः १४ उपासकः १५ । इति राजनिर्घण्टः ॥
प्लक्षद्वीपे तस्य संज्ञा मत्याङ्गः । शाल्मलद्वीपेइषुन्धरः । कुशद्वीपे कुलकः । क्रौञ्चद्वीपेसेवकः । शाकद्वीपे अनव्रतः । पुष्करद्वोपे सर्व्वेएकवर्णाः । अस्योत्पत्तिर्ब्रह्मणः पादात् । अस्यशास्त्रनिरूपितो धर्म्मः जीविका च ब्राह्मण-क्षत्त्रियवैस्यशुश्रूषा । अस्यैकाश्रमो गार्हस्थ्यः ।इति श्रीभागवतम् ॥
* ॥
अथ शूद्रधर्म्मादि ।“विप्राणामर्च्चनं नित्यं शूद्रधर्म्मो विधीयते ।तद्द्वेषी तद्धनग्राही शूद्रश्चाण्डालतां व्रजेत् ॥
गृध्रः कोटिसहस्राणि शतजन्मानि शूकरः ।श्वापदः शतजन्मानि शूद्रो विप्रधनापहा ॥
यः शूद्रो ब्राह्मणीगामी मातृगामी स पातकी ।कुम्भीपाके पच्यते स यावद्वै ब्रह्मणः शतम् ॥
कुम्भीपाके तप्ततैले भुक्तः सर्पैरहर्निशम् ।शब्दञ्च विकृताकारं कुरुते यमताडनात् ॥
तदा चाण्डालयोनिः स्यात् सप्तजन्मसु पातकीसप्तजन्मसु सर्पश्च जलौका सप्तजन्मसु ॥
जन्मकोटिसहस्रञ्च विष्ठायां जायते कृमिः ।योनिक्रिमिः पुंश्चलीनां स भवेत् सप्तजन्मसु ॥
गवां व्रणकृमिः स्याच्च पातकी सप्तजन्मसु ।योनौ योनौ भ्रमत्येवं न पुनर्जायते नरः ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८३ अध्यायः ॥
अपि च ।“द्विजानां पादशूश्रूषा शूद्रैः कार्य्या सदा त्विहपादप्रक्षालनं गन्धैर्भोज्यमुच्छिष्टमात्रकम् ॥
ते तु चक्रु स्तदा चैव तेभ्यो भूयः पितामहः ।शूश्रूषार्थं मया यूथं तुरीये तु पदे कृताः ॥
द्विजानां क्षत्त्रवर्गाणां वैश्यानाञ्च भवद्द्विधाः ।त्रिभ्यः शूश्रूषणा कार्य्या इत्यवादीद्वचस्तदा ॥
”इति पाद्मे सृष्टिखण्डे १६ अध्यायः ॥
किञ्च ।“शूश्रूषैव द्विजातीनां शूद्राणां धर्म्मसाधनम् ।कारुकर्म्म तथाजीवः पाकयज्ञोऽपि धर्म्मतः ॥
इति गारुडे ४९ अध्यायः ॥
शूद्रराज्ये वासनिषेधो यथा, --“धार्म्मिकैर्नावृते ग्रामे न व्याधिबहुले भृशम् ।न शूद्रराज्ये निवसेत् न पाषण्डजनैर्वृते ॥
”शूद्राय मतिदाननिषेधो यथा, --“न शूद्राय मतिं दद्यात् कृशरं पायसं दधि ।नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ।न चैवास्मै व्रतं ब्रूयात् न च धर्म्मान् वदेद्वुधः ॥
इति कौर्म्मे उपविभागे १५ अध्यायः ॥
* ॥
शूद्राणां वेदाधिकारनिषेधो यथा, --“त्रयोवर्णा महाभाग यज्ञसामान्यमागिनः ।शूद्रा वेदपवित्रेभ्यो ब्राह्मणैस्तु बहिष्कृताः ॥
”इति वाराहे संसारचक्रनामाध्यायः ॥
* ॥
कलौ ते धन्याः यथा, “कलिः साध्विति यत् प्रोक्तं शूद्रः साध्वितियोषितः ।यदाह भगवान् साधुर्ध न्याश्चेति पुनः पुनः ॥
”इति विष्णुपुराणे ६ । २ । १२ ॥
तस्य मद्यपानादौ दोषो यथा, --“तथा मद्यस्य पानेन ब्राह्मणीगमनेन च ।वेदाक्षरविचारेण शूद्रश्चाण्डालतां व्रजेत् ॥
”इति शूद्रकमलाकरधृतपराशरवचनम् ॥
ब्राह्मणस्य तदन्नभोजननिषेधो यथा, --“शूद्रान्नं ब्राह्मणोऽश्नन् वै मासं मासार्द्धमेववा ।तद्योनावभिजायेत सत्यमेतद्विदुर्बुधाः ॥
अथोदरस्थशूद्रान्नो मृतः श्वानोऽपि जायते ।द्वादश दश चाष्टौ च गृध्रशूकरपुषकराः ॥
उदरस्थितशूद्रान्नो ह्यधीयानोऽपि नित्यशः ।जुह्वन् वापि जपन् वापि गतिमूर्द्ध्वं न विन्दति ॥
अमृतं ब्राह्मणस्यान्नं क्षत्त्रियान्नं पयः स्मृतम् ।वैश्यस्य चानमेवान्नं शूद्रान्नं रुधिरं स्मृतम् ॥
तस्मात् शूद्रं न भिक्षेत यज्ञार्थं सद्द्विजातयः ।श्मशानमिव सच्छूद्रस्तस्मात्तं परिवर्ज्जयेत् ॥
कणानामथवा भिक्षां कुर्य्याच्चातिविकर्षितः ।सच्छूद्राणां गृहे कुर्व्वन् तत्पापेन न लिप्यते ॥
विशुद्धान्वयसंजातो निवृत्तो मद्यमांसतः ।द्विजभक्तो बणिग्वृत्तिः शूद्रः स परिकीत्तितः ॥
”इति बृहत्पराशरसंहितायाम् ४ अध्यायः ॥
* ॥
अपि च । हारीतः ।“शूद्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः ।स वै खरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति ॥
”शूद्रान्नं शूद्रस्वामिकान्नं तद्दत्तमपि भोजन-कालेतद्गृहावस्थितं यत्तदपि शूद्रान्नम् ।तदाहाङ्गिराः ।“शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि ।निवृत्तेन न भोक्तव्यं शूद्रान्नं तदपि स्मृतम् ॥
”अपिशब्दात् साक्षात्तद्दत्तघृततण्डुलादि । न तुतद्दत्तकपर्दकादिना क्रीतमपि । स्वगृहागतेपुनरङ्गिराः ।“यथा यतस्ततो ह्यापः शूद्धिं यान्ति नदींगताः ।शूद्राद्विप्रगृहेष्वन्नं प्रविष्टन्तु सदा शुचि ॥
प्रविष्टं स्वत्वापादकप्रतिग्रहादिनेति शेषः ।अतएव पराशरः ।“तावद्भवति शूद्रान्नं यावन्न स्पृशति द्विजः ।द्विजातिकरसंस्पृष्टं सर्व्वं तद्धविरुच्यते ॥
”स्पृशति प्रतिगृह्णातीति कल्पतरुः ॥
तच्चसंप्रोक्ष्य ग्राह्यमाह विष्णुपुराणम् ।‘संप्रोक्षयित्वा गृह्णीयाच्छूद्रान्नं गृहमागतम् ॥
”तच्च पात्रान्तरे ग्राह्यमाहाङ्गिराः ।“स्वपात्रे यत्तु विन्यस्तं शूद्रो यच्छति नित्यशःपात्रान्तरगतं ग्राह्यं दुग्धं स्वगृहमागतम् ॥
”एतेन स्वगृहमागतस्यव शुद्धत्वं तद्गृहगतस्यशूद्रान्नदोषभागित्वं प्रतीयते । ततश्चैतादृगपिमुमूर्षुणा सर्व्व था शूद्रान्नं न भोक्तव्यम् । इतिशुद्धितत्त्वम् ॥
* ॥
कलौ शूद्रविशेषान्नभोजन-निषेधो यथा, --“शूद्रेषु दासगोपालकुलमित्रार्द्धशीरिणाम् ।भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः ॥
एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः ।निवर्त्तितानि कर्म्माणि व्यवस्थापूर्व्वकं बुधैः ॥
”इति तिथ्यादितत्त्वम् ॥
अपरञ्च ।व्यास उवाच ।“नाद्यात् शूद्रस्य विप्रोऽन्नं मोहाद्वा यदिवान्यतः ।स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥
षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विग-र्हितम् ।जीवन्नैव भवेत् शूद्रो मृतः श्वा चाभिजायते ॥
ब्राह्मणक्षत्त्रियविशां शूद्रस्य च मुनीश्वराः ।यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥
”कलीतरत्र शूद्रविशेषान्नभोजनविधिर्यथा, --“आर्त्तिजः कुलमित्रञ्च गोपालो दासनापितौएते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥
कुशीलवः कुम्भकारः क्षेत्रकर्म्मक एव च ।एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः ।पायसं स्निग्धपक्वञ्च यावसञ्चैव शक्तवः ।पिण्याकञ्चैव तैलञ्च शूद्रादग्राह्यं द्विजातिभिः ॥
इति कौर्म्मे उपविभागे १६ अध्यायः ॥
अपि च ।“कन्दुपक्वानि तैलेन पायसं दधिशक्तवः ।द्विजैरेतानि भोज्यानि शद्रगेहकृतान्यपि ॥
” * ॥
अन्यच्च ।“शूद्रास्तु ये दानपरा भवन्तिव्रतान्विता विप्रपरायणास्तु ।अन्नं हि तेषां सततं सुभोज्यंभवेद्विजैर्दृष्टमिदं पुरातनैः ॥
तस्माद्दानं प्रकर्त्तव्यं व्रतस्थेन प्रयत्नतः ।सर्व्वपापविनाशाय महत्सुखविवृद्धये ॥
”इति वह्निपुराणे वृषदानाध्यायः ॥
* ॥
वैदिकेतरमन्त्रपाठे शूद्रादेरप्यधिकारः । वेद-मन्त्रवर्ज्जं शूद्रस्येति छन्दोगाह्रिकाचारचिन्तामणिधृतस्मृतौ वेदेति विशेषणात् । एवञ्चपुराणमधिकृत्य ।“अध्येतव्यं न चान्ये न ब्राह्मणं क्षत्त्रियं विना ।श्रोतव्यमिह शूद्रेण नाध्येतव्यं कदाचन ॥
”इति भविष्यपुराणवचनं पुराणमन्त्रेतरपरम् ॥
पञ्चयज्ञस्नानश्राद्धेषु पौराणिकमन्त्रोऽपिनिषिद्धः शुद्रमधिकृत्य ।“नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥
”इति याज्ञकल्क्येन ॥
“ब्रह्मक्षत्त्रविशामेव मन्त्रवत् स्नानमिष्यते ।तूष्णीमेव हि शूद्रस्य सनमस्कारकं मतम् ॥
”इति योगियाज्ञवल्क्येन ॥
श्राद्धमधिकृत्य ।“अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्ज्जितः ।अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥
”इति वराहपुराणेन च ॥
नमस्कारेणेति तूष्णीमिति मन्त्रवर्ज्जितमितिचाभिधानादेतत्परं वैदिकपेरञ्च शूद्राधिकारेगोतमवचनम् । अनुमतोऽस्य नमस्कारो मन्त्रइति । सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्रयो-र्नेच्छन्ति । सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्री शूद्रोयदि जानीयात् स मृतोऽधो गच्छतीति । इतितिथ्यादितत्त्वम् ॥
* ॥
* ॥
प्रसङ्गादत्र कायस्थोत्-पत्तिर्लिख्यते । पाद्मे सृष्टिखण्डे ।“सृष्ट्यादौ सदसत्कर्म्मज्ञप्तये प्राणिनां विधिः ।क्षणं ध्याने स्थितस्यास्य सर्व्वकायाद्विनिर्गतः ॥
दिव्यरूपः पुमान् हस्ते मसीपात्रञ्च लेखनीम् ।चित्रगुप्त इति ख्यातो धर्म्मराजसमीपतः ॥
प्राणिनां सदसत्कर्म्मलेखाय स निरूपितः ।ब्रह्मणातीन्द्रीयज्ञानी देव्याग्न्योर्यज्ञभुक् स वै ।भोजनाच्च सदा तस्मादाहुतिर्दोयते द्विजैः ॥
ब्रह्मकायोद्भवो यस्मात् कायस्थो जातिरुच्यते ।नानागोत्राच्च तद्वंश्याः कायस्था भुवि सन्तिवै ॥
” * ॥
प्रकारान्तरम् यथा, स्कान्द रेणुकामाहात्म्य ।“एवं हत्वार्ज्जुनं रामः सन्धाय निशितान्शरान् ।एक एव ययौ हन्तुं सर्व्वानेवातुरान् नृपान् ॥
केचिद्गहनमाश्रित्य केचित् पातालमाविशन् ।सगर्भा चन्द्रसेनस्य भार्य्या दालभ्याश्रमं ययौ ॥
ततो रामः समायातो दाल्भ्याश्रममनुत्तमम् ।पूजितो मुनिना सद्योऽन्वर्थ्यपाद्यासनादिभिः ॥
ददौ मध्याह्नसमये तस्मै भोजनमादरात् ।रामस्तु भावयामास हृदिस्थं स्वमनोरथम् ।याचयामास रामाच्च कामं दाल्भ्यो महा-मुनिः ॥
ततो द्वौ परमप्रीतौ भोजनं चक्रतुर्मदा ।भोजनानन्तरं दाल्भ्यः पप्रच्छ भार्गवं प्रति ।यत्त्वया प्रार्थितं देव तत्त्वं शंसितुमर्हसि ॥
राम उवाच ।तवाश्रमे महाभाग सगर्भा स्त्री समागता ।चन्द्रसेनस्य राजर्षेः क्षत्त्रियस्य महात्मनः ॥
तन्मे त्वं प्रार्थितं देहि हिंसेयं तां महामुने ।ततो दालभ्यः प्रत्युवाच ददामि तव वाञ्छितम्दाल्भ्य उवाच ।स्त्रियं गर्भममुं बालं तन्मे त्वं दातुमर्हसि ।ततो रामोऽब्रवोद्दाल्भ्यं यदर्थमहमागतः ॥
क्षत्त्रियान्तकरश्चाहं तत्त्वं याचितवानसि ।प्रार्थितश्च त्वया विप्र कायस्थो गर्भ उत्तमः ॥
तस्मात् कायस्थ इत्याख्या भविष्यन्ति शिशोःशुभाः ॥
पवं रामो महाबाहुर्हित्वान्तर्गर्भमुत्तमम् ॥
निर्जगामाश्रमात्तस्मात् क्षत्त्रियान्तकरः प्रभुः ।कायस्थ एप उत्पन्नः क्षत्त्रिण्यां क्षत्त्रियात्ततः ॥
रामाज्ञया स दाल्भ्येन क्षत्त्रधर्म्माद्वहिस्कृतः ।कायस्थधर्म्मोऽस्मै दत्तश्चित्रगुप्तस्य यः स्मृतः ॥
तहोत्रजाश्च कायस्था दाल्भ्यगोत्रास्ततोऽभवन् ।दाल्भ्योपदेशतस्ते वै धर्म्मिष्ठाः सत्यवादिनः ॥
सदाचारपरा नित्यं रता हरिहरार्च्चने ।देवविप्रपितॄणाञ्च अतिथीनाञ्च पूजकाः ॥
” * ॥
प्रकारान्तरम् ।“माहिष्यवनितासूनुर्वैदेहात् यः प्रसूयते ।स कायस्थ इति प्रोक्तस्तस्य धर्म्मो विधीयते ॥
क्षत्त्राद्वैश्यायां माहिष्या वैश्याद्विप्राजो वैदेहः ।लिपीनां देशजातानां लेखनं स समाचरेत् ॥
गणकत्वं विचित्रञ्च बीजपाटी प्रभेदतः ।अधमः शूद्रजातिभ्यः पञ्चसंस्कारवानसौ ॥
चातुर्वर्णस्य सेवां हि लिपिलेखनसाधनाम् ।व्यवसायः शिल्पकर्म्म तज्जीवनमुदाहृतम् ॥
शिखां यज्ञोपवीतञ्च वस्त्रमारक्तमम्भसा ।स्पर्शनं देवतानाञ्च कायस्थाद्यो विवर्ज्ज येत् ॥
”इति कमलाकरभट्टकृतशूद्रधर्म्मतत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
