| YouTube Channel

शुन्भ (zunbha)

 
शब्दकल्पद्रुमः
Sanskrit
शुन्भ, दीप्तिहिंसनयोः इति कविकल्पद्रुमः
(तुदा०-पर०-अक०-हिंसने सक०-सेट् ।) श, शुभति शुम्भति शुशोभ शुशुम्भ इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
शुन्भ दीप्तौ अक० मर्दने
सक०
तु०
पर०
सेट् शुभतिअशुभम्भीत् “प्रागप्राप्तनिशुम्भशाम्भवधनु” रिति वी० च०
क्षीरतरङ्गिणी
Sanskrit
शुन्भँ शुन्भ भाषणे, हिंसायां
- भासन इति दुर्गः शुम्भति शुभ शुन्भ शोभार्थौ (634) इत्यस्य शुम्भते षोपदेशोऽयमिति गुप्तः, सावष्टम्भनिषुम्भन नमद्भूगोले (द्र0 मालतीमाधव 522) इत्यादिदर्शनात्, सुम्भति कुषुम्भम् 420
कृदन्तरूपमाला
Sanskrit
1 {@“शुन्भ भाषणे”@} 2 ‘-- दीप्तौ हिंसने च’ इति वोपदेवः।
‘--भासने’ इति दुर्गः।
‘-- भाषणे हिंसायां च’ इति क्षीरस्वामी।
एवं देवमैत्रैयादयोऽपि।
‘शोभते शपि दीप्त्यर्थे शुम्भेरन्यत् तङः समम्।’ 3 इति देवः।
“स्वामी तु निरनुषङ्गं पपाठ।
इंदमेव आत्रेयस्यापि मतम्
तुदादौ ‘शोभत इति शपि’ इति वचनात्।
दुर्गस्तु भासने इत्यस्यार्थमाह।
एवं धनपालशाकटायनौ।
गुप्तस्तु ‘सावष्टम्भनिषुम्भ4 संभ्रमनमद्- भूकोलंम्’ मालतीमाधवम् 5 इत्यादिदर्श्नान्मूर्धन्यादित्वमाह” इति माधवः।
शुम्भकः-म्भिका, शुम्भकः-म्भिका, शुशुम्भिषकः-षिका, शोशुभकः- भिका
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककुञ्चतिवत् 6 ज्ञेयानि।
इगुपधलक्षणकप्रत्यये कित्त्वादुपधानकारलोपे शुभः, ‘स्फायितञ्चि--’ 7 इत्यादिना रक्प्रत्यये नकारलोपे शुभ्रम् इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१७३६)
02
=>
(१-भ्वादिः-४३३। सक। सेट्। पर।)
03
=>
(श्लो। ११४)
04
=>
(शुम्भ)
05
=>
(५-२२)
06
=>
(२२२)
07
=>
(द। उ। ८-३१)
1 {@“शुन्भ शोभार्थे”@} 2 तृम्फादिः।
‘-- हिंसायां द्रुमे’ इति धा।
का।
व्याख्या 3।
‘--दीप्तौ हिंसने च’ इति वोपदेवः।
‘हिंसाभाषणयोः शोभेत् शोभार्थे शुभतीति शे।।’ 4 इति देवः।
सर्वाण्यपि रूपाणि भौवादिककुञ्चतिवत् 5 ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(१७३७)
02
=>
(६-तुदादिः-१३२२। अक। सेट्। पर।)
03
=>
(२-७५)
04
=>
(श्लो। १४३)
05
=>
(२२२)