| YouTube Channel

शुद्धः (zuddhaH)

 
Apte Hindi
Hindi
शुद्धः
पुं*
- -
शिव का विशेषण
शब्दकल्पद्रुमः
Sanskrit
शुद्धः, त्रि, (शुध + क्तः ।) केवलम् (यथा, मनुः २७९ ।“तडागमेदकं हन्यादप्सु शुद्धवधेन वा ।तद्वापि प्रतिसंकुर्य्यात् दाप्यस्तूत्तमसाहसम्
”)निर्द्दोषः (यथा, बृहत्संहितायाम् ४९ ।“सर्व्वे शुद्धकाञ्चनविनिर्म्मिताः श्रेयसोवृद्ध्यै
”)पवित्रः इति मेदिनी
(उज्ज्वलः यथा, रघुः ।१ ४६ ।“काप्यभिख्या तयोरासीत् व्रजतोः शुद्ध-वेशयोः
”)शुक्लः इति धरणिः
रागान्तरामिश्रित-रागः इति संगीतशास्त्रम्
*
शरीरा-शुद्धताकारणं यथा, --नारद उवाच ।“मानवानां द्विजादीनां शरीरस्यापवित्रता ।भवेत् केन प्रकारेण कथ्यतां तत् सदाशिव
सर्व्ववेदपुराणादिशास्त्रज्ञानां द्विजन्मनाम् ।जितेन्द्रियस्मृतिविदां तनोः कथय पूतताम्
सदाशिव उवाच ।यथा देहापवित्रत्वं विप्रादीनां यतो भवेत् ।देवर्षे शृणु तत् सर्व्वं नराणामानुपूर्व्विकम्
जातके मृतकेऽस्नाते जलौकोभिः क्षते तथा ।अपवित्रो द्विजादीनां देहः सन्ध्यादिकर्म्मसु
अपूततनुरुत्सर्गे नरो मूत्रपुरीषयोः ।अस्पृश्यस्पर्शने नैव ब्रह्मयज्ञजपादिषु
रक्तपाते नखशृङ्गदन्तखङ्गादिभिः क्षते ।विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः
भुक्त्वा हस्ताननोच्छिष्टेऽपवित्रः कृतमैथुने ।शयने ब्राह्मणादीनां शरीरं क्षुरकर्म्मणि
ज्वरादिभिश्चतुःषष्टिरोगैर्युक्तद्विजन्मनाम् ।वपुरप्रयतं पूजादानहोमजपादिषु
धूमोद्गारे वमौ श्राद्धपतितान्नादिभोजनैः ।तथा रेतःस्खलने मर्त्यदेहापवित्रता
अपवित्रं द्बिजादीनां वपुः स्याद्राहुदर्शने ।गर्हितदानग्रहणे पतिते पातकादिभिः
अशौचान्तेन शुद्धिः स्यात् जातके मृतकेऽपि ।सर्व्ववर्णाश्रमादीनां तनोः सन्ध्यादिकर्म्मसु
”इति पाद्मे उत्तरखण्डे १९ अध्यायः