| YouTube Channel

शुठ (zuTha)

 
Wilson
English
शुठ r. 1st and 10th cls. (शोठति शोठयति) also (इ) शुठि
(शुण्ठतिशुण्ठयति)
1 To be prevented or obstructed.
2 To have any impediment to motion, to be lame, &c.
2 To be lazy, to be dull or slow.
4 To be or become dry or desiccated.
5 To dry, to desiccate.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शुठ्
मूलधातुः:
शुठ
धात्वर्थः:
गतिप्रतिघाते
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
शोठति
धातुः:
शुठ्
मूलधातुः:
शुठ
धात्वर्थः:
आलस्ये
गणः:
चुरादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
शोठयति-ते
धातुप्रदीपः
Sanskrit
शुठँ शुठ गतौ, प्रतीघाते
- शोठति शोठः 343
शुठँ शुठ आलस्ये
- शोठयति शोठः 106
शब्दकल्पद्रुमः
Sanskrit
शुठ, खोटने इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-सेट् ।) खोटनमिह गत्याघातः ।इ, शुण्ठ्यते इति दुर्गादासः
शुठ, कि शोषणे इति कविकल्पद्रुमः ।(चुरा० पक्षे भ्वा०-अक०-सेट् ।) इ, शुण्ठ्यते ।कि, शुण्ठयति शुण्ठति पत्रमातपात् रमा-नाथस्तु भ्वादिपक्षे शुष्कीभावे चुरादिपक्षेशुष्कीकरणेऽयमिति मत्वा भ्वादौ शुण्ठति पत्रंचुरादौ शुण्ठयति काष्ठमातप इत्युदाहृतवान् ।वस्तुतस्तु उभयत्र शुष्कीभावः अन्यथा भौवा-दिकस्यैव प्रेरणवाचित्वाच्चुरादिपाठोऽनर्थकःस्यात् इति दुर्गादासः
शुठ, आलस्ये इति कविकल्पद्रुमः
चुरा-पर०-अक०-सेट् ।) क, शोठयति वृद्धः क्रियासुमन्दः स्यादित्यर्थः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
शुठ गतिविघाते
भ्वा०
पर०
सक०
सेट् शोठति अशोठीत्
शुठ आलस्ये
चु०
उभ०
सक०
सेट् शोठयति ते अशूशुठत्
शुठ शोधने बा
चु०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् इदित् ।शुण्ठयति ते शुण्टति अशुशुण्ठत् अशुण्ठीत्
क्षीरतरङ्गिणी
Sanskrit
शुठँ शुठ आलस्ये
- शोठयति शठ इत्येके 103
धातुवृत्तिः
Sanskrit
शुठँ शुठ (अर्थः) गतिप्रतिघाते
प्रतिघात इत्येव धनपालः तथा कुठि इत्युत्तरधातौ प्रतिहत मात्रं प्रतीयते इत्यर्थ इति एवाह शोठतीत्यादि शुठीति क्षीरस्वामी आलापइति चुरादौ शुठि शोषणइत्यत्रैवाग्रे 337
शुठँ शुठ (अर्थः) आलस्ये
( शेठयति ) शोठतीति गतिप्रतिघाते शपि 110
कृदन्तरूपमाला
Sanskrit
1 {@“शुठ गतिप्रतीघाते”@} 2 ‘गतिप्रतिहतौ शोठति, आलस्ये शोठयेदिति।’ 3 इति देवः।
‘-- प्रतिघाते’ इत्येव धनपालः।
‘शूठ--’ इति क्षीरस्वामी इति पुरुषकारे उक्तम्।
क्षीरतरङ्गिण्यां तु ‘शुठि--’ इत्येव दृश्यते।
शोठकः-ठिका, शोठकः-ठिका, शुशुठिषकः-शुशोठिषकः-षिका, शोशुठकः-ठिका
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककुकतिवत् 4 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७२७)
02
=>
(१-भ्वादिः-३४१। सक। सेट्। पर।)
03
=>
(श्लो। ८०)
04
=>
(१९७)
1 {@“शुठ आलस्ये”@} 2 ‘-- आलस्ये शोठयेदिति।’ 3 इति देवः।
‘शठ इत्येके’ इति क्षीरस्वामी।
शोठकः-ठिका, शुशोठयिषकः-षिका
शोठयिता-त्री, शुशोठयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाणि चौरादिककोटयतिवत् 4 ऊह्यानि।
कर्तरि क्तप्रत्यये 5 अविशोठितः।
6
प्रासङ्गिक्यः
01
=>
(१७२८)
02
=>
(१०-चुरादिः-१६४५। अक। सेट्। उभ।)
03
=>
(श्लो। ८०)
04
=>
(२०५)
05
=>
[[B। ‘अर्क्येण तेन समरेष्वविशोठितस्त्वं…।।’ धा। का। ३-२७।]]
06
=>
[पृष्ठम्१३०७+ २६]