शुक्रं (zukraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritशुक्रं, (शुच क्लेदे + “ऋज्रे न्द्राग्रवज्रेति ।”उणा० २ । २८ । इति रन्प्रत्ययेन साधु ।)मज्जजातधातुः । तत्पर्य्यायः । पुंस्त्वम् २ रेतः ३बीजम् ४ वीर्य्यम् ५ पौरुषम् ६ तेजः ७ इन्द्रि-यम् ८ अन्नविकारः ९ मज्जारसः १० रोह-णम् ११ बलम् १२ । इति राजनिर्घ ण्टः ॥
तस्योत्पत्तिर्यथा, --“रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते ।मेदसोऽस्थि ततो मज्जा मज्जात् शुक्रस्य सम्भवः ॥
तस्य स्वरूपं यथा, --“शुक्रं शोष्यं सितं स्निग्धं बलपुष्टिकरं स्मृतम् ।गर्भवीजं वपुःसारो जीवस्याश्रय उत्तमः ॥
”जीवस्याश्रय उत्तम इति । यत आह ।“जीवो वसति सर्व्वस्मिन् देहे तत्र विशेषतः ।वीर्य्ये रक्ते मले यस्मिन् क्षीणे याति क्षयंक्षणात् ॥
” * ॥
गर्भसंजननशुक्रस्य लक्षणं यथा, --“स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च ।शुक्रमिच्छन्ति केचित्तु तैलक्षौद्रनिभञ्च तत् ॥
”तस्य स्थानमाह ।“यथा पयमि सर्पिस्तु गूढश्चेक्षौ रमो यथा ।एवं हि मकले काये शुक्रं तिष्ठति देहिनाम् ॥
”अत्र सर्पिर्दृष्टान्तो बहुशुक्रेऽल्पमथनेन सर्पिः-शुक्रयोर्लाभात् । इक्षुरसदृष्टान्तस्तु स्वल्पशुक्रेपु सि अतिपीडनेनेक्षुरसशुक्रयोर्लाभात् ॥
* ॥
तस्य क्षरणमार्गो यथा, --“द्व्यङ्गले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्पधः ।मूत्रस्रोतःपथे शुक्रं पुरुषस्य प्रवर्त्तते ॥
” * ॥
अथ शुक्रस्य क्षरणकारणमाह ।“कृत्स्रदेहस्थितं शक्रं प्रसन्नमनसस्तथा ।स्त्रीषु व्याययुतश्चापि हर्षात्तत् संप्रवत्तते ॥
”स्त्रीषु व्याययुतः सुरतरूपं व्यायामं कुर्व्वतः ।अन्यच्च ।“शुक्रं कामेन कामिन्या दर्शनात् स्पर्शनादपि ।शब्दसंश्रवणात् ध्यानात् संभोगाच्च प्रवर्त्तते ॥
”इति भावप्रकाशः ॥
* ॥
शुक्रक्षयकरद्रव्याणि यथा । सार्षपतैलम् १ राज-माषः २ तिलः ३ पटोलवास्तूककाकमाचीपुन-र्नवाशाकभिन्नसर्व्वशाकम् ४ तावदम्लद्रव्यम् ५कारवेल्लकफलम् ६ कर्कोटकफलम् ७ वादा-मम् ८ लिकुचम् ९ शुष्कमरिचम् १० गुड-त्वक् ११ पिप्पलीशण्ठीभिन्नकटुरसः १२ । इतिराजवल्लभात् संगृहीतम् ॥
* ॥
अपि च ।“वोजक्षयकरं नित्यं भक्ष्यं भोज्यञ्च पानकम् ।वर्जयेत् क्षारशाकाद्यानत्यम्बु बहुतिक्तकम् ॥
कांस्यराजतरङ्गस्थं तोयं पानेऽप्यवर्द्धनम् ।मूत्रान्ते मूत्रवद्बीजक्षयकारि विवर्ज्जयेत् ॥
”शुक्रवृद्धिकरजल यथा, --“ताम्रायःस्वर्णसीसानां पात्रस्थं फलचर्म्मणोः ।शुक्रवृद्धिकरं तोयं तत्तु पेयं प्रयत्नतः ॥
”इति कालिकापुराणे ८९ अध्यायः ॥
* ॥
शुक्रवर्द्धकद्रव्याणि यथा । पानीयम् १ विशेषतःहैमन्तिकजलम् २ तालाम्बु ३ चन्दनादिद्रव्यानु-लेपनम् ४ रक्तशालिधान्यम् ५ हैमन्तिकषष्टि-कधान्यम् ६ गोधूमः ७ माषः ८ सामान्यशुष्क-नारीचपत्रशाकम् ९ सामान्यक्लिन्नशुष्कनारीचपत्रशाकजलम् १० कलम्बीशाकम् ११ काक-माचीशाकम् १२ गोक्षुरशाकम् १३ मुञ्जा-तकः १४ वार्त्ताकुः १५ विदारी १६ हस्त्या-लुकम् १७ मध्वालुकम् १८ पक्वाम्रम् १९दुग्धाम्रम् २० नागरङ्गम् २१ बहुवारफलम् २२पक्वकण्टाफलम् २३ कण्टाफलास्थि २४ पक्व-तालम् २५ पक्वकदलम् २६ चम्पककदलम् २७द्राक्षा २८ खर्ज्जूरम् २९ धात्री ३० कुष्माण्ड-मज्जा ३१ तावन्मत्स्याः ३२ वृहन्मत्स्यः ३३समुद्रमत्स्यः ३४ रोहितमत्स्यः ३५ भाकूट-मत्स्यः ३६ पाठीनमत्स्यः ३७ भेगलिमत्स्यः ३८चित्रफलमत्स्यः २९ वाउशमत्स्यः ४० मद्गुर-मत्स्यः ४१ वर्म्मिमत्स्यः ४२ फलीमत्स्यः ४३चिङ्गटमत्स्यः ४४ पर्व्वतमत्स्यः ४५ एलङ्गमत्स्यः४६ शकलीमत्स्यः ४७ चम्पकुन्दमत्स्यः ४८ प्रोष्ठी-मत्स्यः ४९ दग्धमत्स्यः ५० सामान्यमांसम् ५१प्रसहामांसम् ५२ भूशयामांसम् ५३ अनूप-मांसम् ५४ जलजमांसम् ५५ जलेचरमांसम् ५६छागमांसम् ५७ वाराहमांसम् ५८ कूर्म्म-मांसम् ५९ तित्तिरि-६० कुलिङ्ग-६१ चट-कानां मांसम् ६२ हंसमांसम् ६३ हंसबीजम् ६४शुकपक्षिमांसम् ६५ मयूर-६६ शरारि-६७मद्गु-६८ कादम्ब-६९ वलाका-७० वक-मांसम् ७१ जीर्णमद्यम् ७२ समस्तक्षीरम् ७३गोदुग्धम् ७४ हस्तिनीदुग्धम् ७५ तावत्क्षीर-सन्तालिका ७६ माहिषदधि ७७ दधिसरः ७८दधिमस्तु ७९ नवनीतम् ८० तावद्घृतम् ८१तावदिक्षुः ८२ विशेषतः पौण्डकेक्षुः ८३ दन्त-निष्पीडितेक्षुरसः ८४ यन्त्रनिष्पीडितेक्षुरसः ८५अग्निपक्वे क्षुरसः ८६ इक्षुफाणितम् ८७ इक्षु-गुडः ८८ इक्षुखण्डम् ८९ मधुरी ९० शुष्क-पिप्पली ९१ शुण्ठी ९२ आर्द्रकम् ९३ लशु-नम् ९४ पलाण्डुः ९५ सैन्धवम् ९६ अन्नम् ९७सतैललवणान्वितदग्धमत्स्यः ९८ तैललवणयुक्त-पलालवेष्टितकर्द्दमलेपिताङ्गारदग्धलवणवेशवारपुरस्कृतसार्द्रककटुतैलसन्तालितमत्स्यः ९९शाकमत्स्याख्यव्यञ्जनम् १०० मांसरसः १०१परिशुष्काख्यमांसम् १०२ घृतपूरः १०३ मधु-मस्तकम् १०४ दुग्धफेनकः १०५ भूशय्या १०६एरण्डमूलम् १०७ गोक्षुरः १०८ सामान्य-वला १०९ विशेषतः पीतवला ११० अश्वगन्धा१११ प्रसारणी ११२ माषपर्णी ११३ रुदन्तीवृक्षः ११४ राजवृक्षफलम् ११५ शिलाजतुः११६ । इति राजवल्लभात् सगृहीतम् ॥
* ॥
नेत्ररोगविशेषः । इति मेदिनी ॥
अस्य विवरणंशुक्लशब्दे द्रष्टव्यम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
