| YouTube Channel

शीर्षकं (zIrSakaM)

 
शब्दकल्पद्रुमः
Sanskrit
शीर्षकं,
क्ली,
(शीर्षे कं सुखमस्मात् ।) शिरो-रक्षणसन्नाहः टोप् इति भाषा तत्-पर्य्यायः शीर्षण्यम् शिरस्त्रम् इत्यमरः
शिरोऽस्थि इति राजनिर्घण्टः
जयपराजय-पत्रम् यथा, याज्ञवल्क्यः ।“तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये ।महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि
”विशुद्धये सन्दिग्धार्थस्य सन्देहनिवृत्तये
म-हाभियोगेषु महापातकादिगुरुतराभियोगेषु ।शीर्षकस्थे शीर्षकं प्रधानं शिरो व्यवहारस्यचतुष्पादः जयपराजयलक्षणः तेन दण्डोलक्ष्यते तत्र तिष्ठतीति शीर्षकस्थः तत्प्रयुक्तदण्ड-भागीत्यर्थः इति दिव्यतत्त्वम्