| YouTube Channel

शीकृ (zIkR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शीक्
मूलधातुः:
शीकृ
धात्वर्थः:
सेचने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
शीकते
धातुप्रदीपः
Sanskrit
शीकृँ शीकृ सेचने
- शीकते शिशीके अशिशीकत् शीका शीकरः अट्टाट्टाशीक (3/1/17, वा) इत्यादिना क्यङ् शीकायते ।। 73 ।।
क्षीरतरङ्गिणी
Sanskrit
शीकृँ शीकृ सेचने
इतः श्लाघान्ताः (180) त्रिचत्वारिंशदुदात्ताः सेटोऽनुदात्तेतश्चात्मनेपदिनः शीकते, शीकिता, अशिशीकत् शीकनम् शीका अर्तिकमिभ्रमि (उ03132) इति शीकरः चुरादौ शीक आमर्षणे (10253) शीकयति, अशीशिकत् 72
शीकृँ शीकृ
मानकरूपान्तरम् - सेकृँ
सेकृ
मानकरूपान्तरम् - स्रेकृँ
स्रेकृ
मानकरूपान्तरम् - स्रकिँ
[स्रकि] श्रकि
मानकरूपान्तरम् - श्लकिँ
श्लकि गत्यर्थाः
शीकेरर्थभेदात् पुनः पाठः अत एव चन्द्रो नैनमध्यैष्ट, अन्ये षेकृ इति विकल्पेन षोपदेशकार्यार्थं पेठुः - सेकते, असिसेकत्, असिषेकत् अत्रान्त्यौ तालव्यादी 78-83
धातुवृत्तिः
Sanskrit
शीकृँ शीकृ (अर्थः) सेचने
तालव्यादिः दन्त्यादिरिति धनपालकाश्यपौ अत एव षोपदेशलक्षणे सृपिसृजिस्तृस्त्यासीकृसेकृसृवर्जमिति पेठतुः पुरुषकारस्त्वत्र मृष्यतिं पठति यदाह सीकृ इत्यार्या इति धनपालः तत्र चायं पक्षः शीकर इति प्रयोगाननुगुणः योऽपि षोपदेशलक्षणे सीकृपाठः सोऽप्येवं प्रत्युक्त इति ( शीकते शिशीके शीकिता शीकिष्यते शीकताम् अशीकत शीकेत आशिषि शीकिषीष्ट अशीकिष्ट अशीकिष्यत ) कर्मणि ( शीक्यते ) इत्यादि ( शिशीकिषते शेशीक्यते शेषीकीति शेशीक्तिः, इति लुङि अशेशीकीत् ) हल्ङ्यादिलोपः अशेशीक् स्यातेत्यत्र "स्कोस्'' इति' लोपो भवति निमित्तनिमित्तिनोर्भिन्नपदस्य सत्वात् उक्त चैवं "परेश्च घाङ्कयोः'' इत्यत्र कैयटे पदस्येत्यधिकारात् प्रत्यासत्तिन्यायाश्रयणादेकपदस्थयोर्निमित्तनिमित्तिनोर्ग्रहणमिति ( शीकयति अशिशीकत् शीका ) "गुरोश्च हलः'' इत्यकारः ( शीकायते ) [ तत्करोत्यर्थेऽटाट्टशीकाकोटापोटासोटाप्लुष्टाग्रहणं कर्त्तव्यम् ] इति क्यङ् भयमपि पाठस्तालव्यादित्वे प्रमाणम् अयं क्यङ् "तत्करोति'' इति णिचोपवाद इत्येके, सोपीष्यत इति न्यासादौ कान्तत्वादस्मात् क्विप् नोदाहर्त्तव्यः, स्थितं चैवं "परेश्च घाङ्कयोः'' इत्यत्र भाष्यकैयटयोः, तथा "स्कोः संयोगाद्यो'' इत्यत्र वृत्तितद्व्याख्यानेष्वपि मर्षणार्थोयं युजादौ 75
कृदन्तरूपमाला
Sanskrit
1 {@“शीकृ सेचने”@} 2 गत्यर्थकोऽपि कश्चित् शीकृधातुः क्षीरस्वामिना भ्वादिषु पठितः।
“‘सीकृ’ 3 इति आर्याः” इति धनपालः।
4 शीकायमानः।
अयम् अनृदित् इति केचित्।
सर्वाणि रूपाणि भौवादिकचीभतिवत् 5 ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(१७१६)
02
=>
(१-भ्वादिः-७५। सक। सेट्। आत्म।)
03
=>
[पृष्ठम्१२९९+ २८]
04
=>
[[१। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्यये शीका इति सिद्ध्यति। शीकां करोति इत्यर्थे ‘अटाट्टाशीका--’ (वा। ३-१-१७) इत्यादिना क्यङ्। अयं क्यङ् ‘तत्करोति’ (वा। ३-१-२६) इति णिचोऽपवादः। ‘णिजपीष्यते’ इति न्यास- कारः। क्यङन्तात् शानचि रूपमेवम्। शीकायमानः = सेचक इत्यर्थः।]]
05
=>
(५३०)