| YouTube Channel

शिषॢ (ziSlR)

 
धातुप्रदीपः
Sanskrit
शिषॢँ शिषॢँ विशरणे
- विशिनष्टि शेष्टा शेक्ष्यति शिनष्टु शिण्ढि शिनषाणि अशिनट् अशिषत् तङि व्यत्यशिक्षत शिशिक्षति शिष्टः विशेषः विशिष्यते चौरादिकस्य तु विशेष्यत इति 14
क्षीरतरङ्गिणी
Sanskrit
शिषॢँ शिषॢ विशेषणे
- (अर्थविवरणम्) विशेषणं गुणान्तरोत्पादनम्
इतश्चत्वारोऽनिटः परस्मैपदिनश्च विशिनष्टि व्यशिषत् कर्मणि तङि क्सः (द्र0 3145)-व्यशिक्षत विशिष्यते चुरादौ शिष असर्वोपयोगे (10211)-शेषयति शिष्यत इति शेषः 14
धातुवृत्तिः
Sanskrit
शिषॢँ शिषॢ (अर्थः) विशेषणे
इतो भुनक्त्यन्ता अनुदात्ता उदात्तेतः (शिनष्टि शिष्टः शिषन्ति शिनक्षि शिनष्मि शिष्वः ) ष्टुत्वं तवर्गस्य, सकारादौ षस्य कत्वम् (शिशेष शिशिषतुः शिशेषिथ शिशिषिव शेष्टा शेक्ष्यति शिनष्टु शिष्टात् शिष्टाम् शिण्ढि) हेधित्वं पत्वजशत्वानुस्वारपरसवर्णा यथायोग्यम् (शिनषाणि अशिनट् अशिनड्) षकारस्य "झालां जशोऽन्ते" इति जश्त्वे चर्त्वविकल्पः (अशिष्टाम् अशिनट् अशिनषम् अशिष्व शिश्यात् शिष्याताम् ) आशिषि (शिष्यात्) लुङि (अशिषत्) लृदित्त्वात्परस्मैपदेऽङ् तङि तु क्सः, (व्यत्यशिक्षत) इत्यादि (शिशिक्षति शिशिक्षते शेशिष्यते शेशिपीति शेशेष्टि शेपयति अशीशिषत् शिष्टः शिष्टवन् विशेषः वैशेषिकम् , ) "विनयादिभ्यश्च" इति सर्वार्थे ठक् महत्या विशिष्टः (महाविशिष्टः) [महादात्वे घासकरविशिष्टेपूपसंख्यानम्] इति पुंवद्भाव आत्वं शेतीति दण्डके हिंसायां शपि शेषयतीति युजादिपाठादसर्वोपयोगे 14
कृदन्तरूपमाला
Sanskrit
1 {@“शिषॢ विशेषणे”@} 2 ‘विशेषणम् = उपरञ्जनम्’ इति दुर्गादासः।
3 विशेषः-वैशेषिकः, शेषः, 4 महाविशिष्टः।
यथासम्भवं सर्वाण्यपि रूपाणि रौधा- दिकपिनष्टिवत् 5 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७१४)
02
=>
(७-रुधादिः-१४५१। अक। अनि। पर।)
03
=>
[[२। विशिष्यते इति विशेषः--कणादसंमतः पदार्थविशेषः। विशेष एव वैशेषिकः विनयादित्वात् (५-४-३४) स्वार्थे ठक्। ठस्य इकादेशः।]]
04
=>
[[३। विपूर्वकात् निष्ठायां विशिष्टः इति सिद्धम्। महत्या विशिष्टः महाविशिष्टः। संज्ञाविशेषः। ‘महदात्वे घासकरविशिष्टेषूपसंख्यानम्’ (वा। ६-३-४६) इत्यात्वम्
\n\n पुंवद्भावश्च।]]
05
=>
(१००२)